कृत्याकृत्यविध्यध्यायः

श्लोक 1-2

अथातः कृत्याकृत्यविधिमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

तत्र, वयःस्थानां दृढानां प्राणवतां सत्त्ववतां (आत्मवतां) च सुचिकित्स्या  व्रणाः; एकस्मिन् वा पुरुषे यत्रैतद्गुणचतुष्टयं तस्य सुखसाधनीयतमाः |
तत्र, वयःस्थानां प्रत्यग्रधातुत्वादाशु व्रणा रोहन्ति; दृढानां  स्थिरबहुमांसत्वाच्छस्त्रमवचार्यमाणं सिरास्नाय्वादिविशेषान्न प्राप्नोति;  प्राणवतां वेदनाभिघाताहारयन्त्रणादिभिर्न ग्लानिरुत्पद्यते; सत्त्ववतां  दारुणैरपि क्रियाविशेषैर्न व्यथा भवति; तस्मादेतेषां सुखसाधनीयतमाः ||३||

श्लोक 4

त एव विपरीतगुणा वृद्धकृशाल्पप्राणभीरुषु द्रष्टव्याः ||४||

श्लोक 5

स्फिक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफलकोषोदरजत्रुमुखाभ्यन्तरसंस्थाः सुखरोपणीया व्रणाः ||५||

श्लोक 6-7

अक्षिदन्तनासापाङ्गश्रोत्रनाभिजठरसेवनीनितम्बपार्श्वकुक्षिवक्षःकक्षास्त-नसन्धिभागगताः सफेनपूयरक्तानिलवाहिनोऽन्तःशल्याश्च दुश्चिकित्स्याः;  अधोभागाश्चोर्ध्वभागनिर्वाहिणो , रोमान्तोपनखमर्मजङ्घास्थिसंश्रिताश्च,  भगन्दरमपि चान्तर्मुखं सेवनीकुटकास्थिसंश्रितम् ||६||

कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम् |
व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणाः ||७||

श्लोक 8

अवपाटिकानिरुद्धप्रकशसन्निरुद्धगुदजठराणि, ग्रन्थिक्षतक्रिमयः  प्रतिश्यायजाः कोष्ठजाश्च त्वग्दोषिणां प्रमेहिणां वा ये परिक्षतेषु दृश्यन्ते,  शर्करा सिकतामेहो वातकुण्डलिकाऽष्ठीला दन्तशर्करोपकुशः  कण्ठशालूकं निष्कोषणदूषिताश्च दन्तवेष्टा  विसर्पास्थिक्षतोरःक्षतव्रणग्रन्थिप्रभृतयश्च याप्याः ||८||

श्लोक 9

साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा |
घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ||९||

श्लोक 10-11

यापनीयं विजानीयात् क्रिया धारयते तु यम् |
क्रियायां तु निवृत्तायां सद्य एव विनश्यति ||१०||

प्राप्ता क्रियां धारयति याप्यव्याधितमातुरम् |
प्रपतिष्यदिवागारं विष्कम्भः साधुयोजितः ||११||

श्लोक 12

अत ऊर्ध्वमसाध्यान् वक्ष्यामः-मांसपिण्डवदुद्गताः प्रसेकिनोऽन्तःपूयवेदनावन्तोऽश्वापानवदुद्वृत्तौष्ठाः ,  केचित् कठिना गोशृङ्गवदुद्गतमृदुमांसप्ररोहाः, अपरे  दुष्टरुधिरास्राविणस्तनुशीतपिच्छिलास्राविणो वा मध्योन्नताः,  केचिदवसन्नशुषिरपर्यन्ताः शणतूलवत् स्नायुजालवन्तो दुर्दर्शनाः,  वसामेदोमज्जमस्तुलुङ्गस्राविणश्च दोषसमुत्थाः,  पीतासितमूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः, त एवोभयतोभागव्रणमुखेषु  पूयरक्तनिर्वाहिणः, (क्षीणमांसानां च ) सर्वतोगतयश्चाणुमुखा  मांसबुद्बुदवन्तः, सशब्दवातवाहिनश्च शिरःकण्ठस्थाः, क्षीणमांसानां च  पूयरक्तनिर्वाहिणोऽरोचकाविपाककासश्वासोपद्रवयुक्ताः, भिन्ने वा  शिरःकपाले यत्र मस्तुलुङ्गदर्शनं त्रिदोषलिङ्गप्रादुर्भावः कासश्वासौ वा  यस्येति ||१२||

श्लोक 13

भवति चात्र-
वसां मेदोऽथ मज्जानं मस्तुलुङ्गं च यः स्रवेत् |
आगन्तुस्तु व्रणः सिध्येन्न सिध्येद्दोषसम्भवः ||१३||

श्लोक 14

अमर्मोपहिते देशे सिरासन्ध्यस्थिवर्जिते |
विकारोयोऽनुपर्येति तदसाध्यस्य लक्षणम् ||१४||

श्लोक 15-16

क्रमेणोपचयं प्राप्य ; धातूननुगतः शनैः |
न शक्य उन्मूलयितुं वृद्धो वृक्ष इवामयः ||१५||

स स्थिरत्वान्महत्त्वाच्च धात्वनुक्रमणेन च |
निहन्त्यौषधवीर्याणि मन्त्रान् दुष्टग्रहो यथा ||१६||

श्लोक 17

अतो यो विपरीतः स्यात् सुखसाध्यः स उच्यते |
अबद्धमूलः क्षुपको यद्वदुत्पाटने सुखः ||१७||

श्लोक 18

त्रिभिर्दोषैरनाक्रान्तः श्यावौष्ठः पिडकी समः |
अवेदनो निरास्रावो व्रणः शुद्ध इहोच्यते ||१८||

श्लोक 19

कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः |
स्थिराश्चिपिटिकावन्तो रोहतीति तमादिशेत् ||१९||

श्लोक 20

रूढवर्त्मानमग्रन्थिमशूनमरुजं व्रणम् |
त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत् ||२०||

श्लोक 21

दोषप्रकोपाद्व्यायामादभिघातादजीर्णतः |
हर्षात् क्रोधाद्भयाद्वाऽपि व्रणो रूढोऽपि दीर्यते ||२१||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने कृत्याकृत्यविधिर्नाम त्रयोविंशोऽध्यायः  ||२३||
error: Content is protected !!