श्लोक 1-6
अथातः कृमिरोगप्रतिषेधमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अजीर्णाध्यशनासात्म्यविरुद्धमलिनाशनैः |
अव्यायामदिवास्वप्नगुर्वतिस्निग्धशीतलैः ||३||
माषपिष्टान्नविदलबिसशालूकसेरुकैः |
पर्णशाकसुराशुक्तदधिक्षीरगुडेक्षुभिः ||४||
पललानूपपिशितपिण्याकपृथुकादिभिः |
स्वाद्वम्लद्रवपानैश्च श्लेष्मा पित्तं च कुप्यति ||५||
कृमीन् बहुविधाकारान् करोति विविधाश्रयान् |
आमपक्वाशये तेषां कफविड्जन्मनां पुनः |
धमन्यां रक्तजानां च प्रसवः प्रायशः स्मृतः ||६||
श्लोक 7
विंशतेः कृमिजातीनां त्रिविधः सम्भवः स्मृतः |
पुरीषकफरक्तानि, तासां वक्ष्यामि विस्तरम् ||७||
श्लोक 8
अजवा विजवाः किप्याश्चिप्या गण्डूपदास्तथा |
चूरवो द्विमुखाश्चैव ज्ञेयाः सप्त पुरीषजाः ||८||
श्लोक 9-10
श्वेताः सूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति च |
तेषामेवापरे पुच्छैः पृथवश्च भवन्ति हि ||९||
शूलाग्निमान्द्यपाण्डुत्वविष्टम्भबलसङ्क्षयाः |
प्रसेकारुचिहृद्रोगविड्भेदास्तु पुरीषजैः ||१०||
श्लोक 11
रक्ता गण्डूपदा दीर्घा गुदकण्डूनिपातिनः |
शूलाटोपशकृद्भेदपक्तिनाशकराश्च ते ||११||
श्लोक 12
दर्भपुष्पा महापुष्पाः प्रलूनाश्चिपिटास्तथा |
पिपीलिका दारुणाश्च कफकोपसमुद्भवाः ||१२||
श्लोक 13
रोमशा रोममूर्धानः सपुच्छाः श्यावमण्डलाः |
रूढधान्याङ्कुराकाराः शुक्लास्ते तनवस्तथा ||१३||
श्लोक 14
मज्जादा नेत्रलेढारस्तालुश्रोत्रभुजस्तथा |१४|
श्लोक 14
शिरोहृद्रोगवमथुप्रतिश्यायकराश्च ते ||१४||
श्लोक 15
केशरोमनखादाश्च दन्तादाः किक्किशास्तथा |
कुष्ठजाः सपरीसर्पा ज्ञेयाः शोणितसम्भवाः ||१५||
श्लोक 16
ते सरक्ताश्च कृष्णाश्च स्निग्धाश्च पृथवस्तथा |१६|
श्लोक 16
रक्ताधिष्ठानजान् प्रायो विकारान् जनयन्ति ते ||१६||
श्लोक 17-19
माषपिष्टान्नविदलपर्णशाकैः पुरीषजाः |
मांसमाषगुडक्षीरदधितैलैः कफोद्भवाः ||१७||
विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि |
ज्वरो विवर्णता शूलं हृद्रोगः सदनं भ्रमः ||१८||
भक्तद्वेषोऽतिसारश्च सञ्जातकृमिलक्षणम् |१९|
श्लोक 19-20
दृश्यास्त्रयोदशाद्यास्तु कृमीणां परिकीर्तिताः ||१९||
केशादाद्यास्त्वदृश्यास्ते द्वावाद्यौ परिवर्जयेत् |२०|
श्लोक 20-21
एषामन्यतमं ज्ञात्वा जिघांसुः स्निग्धमातुरम् ||२०||
सुरसादिविपक्वेन सर्पिषा वान्तमादितः |
विरेचयेत्तीक्ष्णतरैर्योगै … |२१|
श्लोक 21-22
… रास्थापयेच्च तम् ||२१||
यवकोलकुलत्थानां सुरसादेर्गणस्य च |
विडङ्गस्नेहयुक्तेन क्वाथेन लवणेन च ||२२||
श्लोक 23-24
प्रत्यागते निरूहे तु नरं स्नातं सुखाम्बुना |
युञ्ज्यात् कृमिघ्नैरशनैस्ततः शीघ्रं भिषग्वरः ||२३||
स्नेहेनोक्तेन चैनं तु योजयेत् स्नेहबस्तिना |२४|
श्लोक 24
ततः शिरीषकिणिहीरसं क्षौद्रयुतं पिबेत् ||२४||
श्लोक 25
केवूकस्वरसं वाऽपि पूर्ववत्तीक्ष्णभोजनः |२५|
श्लोक 25
पलाशबीजस्वरसं कल्कं वा तण्डुलाम्बुना ||२५||
श्लोक 26
पारिभद्रकपत्राणां क्षौद्रेण स्वरसं पिबेत् |
पत्तूरस्वरसं वाऽपि पिबेद्वा सुरसादिजम् ||२६||
श्लोक 27
लिह्यादश्वशकृच्चूर्णं वैडङ्गं वा समाक्षिकम् |२७|
श्लोक 27-28
पत्रैर्मूषिकपर्ण्या वा सुपिष्टैः पिष्टमिश्रितैः ||२७||
खादेत् पूपलिकाः पक्वा धान्याम्लं च पिबेदनु |२८|
श्लोक 28-29
सुरसादिगणे पक्वं तैलं वा पानमिष्यते ||२८||
विडङ्गचूर्णयुक्तैर्वा पिष्टैर्भक्ष्यांस्तु कारयेत् |२९|
श्लोक 29
तत्कषायप्रपीतानां तिलानां स्नेहमेव वा ||२९||
श्लोक 30-31
श्वाविधः शकृतश्चूर्णं सप्तकृत्वः सुभावितम् |
विडङ्गानां कषायेण त्रैफलेन तथैव च ||३०||
क्षौद्रेण लीढ्वाऽनुपिबेद्रसमामलकोद्भवम् |
अक्षाभयारसं वाऽपि… |३१|
श्लोक 31
… विधिरेषोऽयसामपि ||३१||
श्लोक 32-33
पूतीकस्वरसं वाऽपि पिबेद्वा मधुना सह |
पिबेद्वा पिप्पलीमूलमजामूत्रेण संयुतम् ||३२||
सप्तरात्रं पिबेद्धृष्टं त्रपु वा दधिमस्तुना |३३|
श्लोक 33
पुरीषजान् कफोत्थांश्च हन्यादेवं कृमीन् भिषक् ||३३||
श्लोक 34
शिरोहृद्घ्राणकर्णाक्षिसंश्रितांश्च पृथग्विधान् |
विशेषेणाञ्जनैर्नस्यैरवपीडैश्च साधयेत् ||३४||
श्लोक 35
शकृद्रसं तुरङ्गस्य सुशुष्कं भावयेदति |
निष्क्वाथेन विडङ्गानां चूर्णं प्रधमनं तु तत् ||३५||
श्लोक 36
अयश्चूर्णान्यनेनैव विधिना योजयेद्भिषक् |
सकांस्यनीलं तैलं च नस्यं स्यात्सुरसादिके ||३६||
श्लोक 37
इन्द्रलुप्तविधिश्चापि विधेयो रोमभोजिषु |३७|
श्लोक 37
दन्तादानां समुद्दिष्टं विधानं मुखरोगिकम् ||३७||
श्लोक 38
रक्तजानां प्रतीकारं कुर्यात् कुष्ठचिकित्सिते |३८|
श्लोक 38
सुरसादिं तु सर्वेषु सर्वथैवोपयोजयेत् ||३८||
श्लोक 39
प्रव्यक्ततिक्तकटुकं भोजनं च हितं भवेत् |३९|
श्लोक 39
कुलत्थक्षारसंसृष्टं क्षारपानं च पूजितम् ||३९||
श्लोक 40
क्षीराणि मांसानि घृतानि चैव दधीनि शाकानि च पर्णवन्ति |
समासतोऽम्लान्मधुरान् हिमांश्च कृमीन् जिघांसुः परिवर्जयेत्तु ||४०||
पुष्पिका
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे कृमिप्रतिषेधो नाम (षोडशोऽध्यायः, आदितः) चतुःपञ्चाशत्तमोऽध्यायः ||५४||