श्लोक 1-2
अथातः कृष्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
यत् सव्रणं शुक्र(क्ल)मथाव्रणं वा पाकात्ययश्चाप्यजका तथैव |
चत्वार एतेऽभिहिता विकाराः कृष्णाश्रयाः सङ्ग्रहतः पुरस्तात् ||३||
श्लोक 4
निमग्नरूपं हि भवेत्तु कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै |
स्रावं स्रवेदुष्णमतीव रुक् च तत् सव्रणं शुक्र(क्ल)मुदाहरन्ति ||४||
श्लोक 5
दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि |
अवेदनावन्न च युग्मशुक्रं तत्सिद्धिमाप्नोति कदाचिदेव ||५||
श्लोक 6-7
विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासक्तमदृष्टिकृच्च |
द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितं चापि विवर्जनीयम् ||६||
उष्णाश्रुपातः पिडका च कृष्णे यस्मिन् भवेन्मुद्गनिभं च शुक्रम् |
तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च यत्तित्तिरिपक्षतुल्यम् ||७||
श्लोक 8
सितं यदा भात्यसितप्रदेशे स्यन्दात्मकं नातिरुगश्रुयुक्तम् |
विहायसीवाच्छघनानुकारि तदव्रणं साध्यतमं वदन्ति ||८||
श्लोक 9
गम्भीरजातं बहलं च शुक्रं चिरोत्थितं चापि वदन्ति कृच्छ्रम् |९|
श्लोक 9-10
सञ्च्छाद्यते श्वेतनिभेन सर्वं दोषेण यस्यासितमण्डलं तु ||९||
तमक्षिपाकात्ययमक्षिकोपसमुत्थितं तीव्ररुजं वदन्ति |१०|
श्लोक 10
अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलाश्रुः |
विदार्य कृष्णं प्रचयोऽभ्युपैति तं चाजकाजातमिति व्यवस्येत् ||१०||
पुष्पिका
इति सुश्रुतसंहितायामुत्तरतन्त्रे कृष्णगतरोगविज्ञानीयो नाम पञ्चमोऽध्यायः ||५||