गर्भावक्रान्तिशारीरम्

श्लोक 1-2

अथातो गर्भावक्रान्तिं शारीरं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

सौम्यं शुक्रमार्तवमाग्नेयमितरेषामप्यत्र भूतानां सान्निध्यमस्त्यणुना  विशेषेण, परस्परोपकारात् (परस्परानुग्रहात्,) परस्परानुप्रवेशाच्च ||३||

श्लोक 4

तत्र स्त्रीपुंसयोः संयोगे तेजः शरीराद्वायुरुदीरयति,  ततस्तेजोनिलसन्निपाताच्छुक्रं च्युतं योनिमभिप्रतिपद्यते संसृज्यते  चार्तवेन, ततोऽग्नीषोमसंयोगात् संसृज्यमानो गर्भाशयमनुप्रतिपद्यते  क्षेत्रज्ञो वेदयिता स्प्रष्टा घ्राता द्रष्टा श्रोता रसयिता पुरुषः स्रष्टा गन्ता  साक्षी धाता वक्ता यः कोऽसावित्येवमादिभिः  पर्यायवाचकैर्नामभिरभिधीयते दैवसंयोगादक्षयोऽव्ययोऽचिन्त्यो  भूतात्मना सहान्वक्षं सत्त्वरजस्तमोभिर्दैवासुरैरपरैश्च  भावैर्वायुनाऽभिप्रेर्यमाणो गर्भाशयमनुप्रविश्यावतिष्ठते ||४||

श्लोक 5

तत्र शुक्रबाहुल्यात् पुमान्, आर्तवबाहुल्यात् स्त्री,  साम्यादुभयोर्नपुंसकमिति ||५||

श्लोक 6

ऋतुस्तु द्वादशरात्रं भवति दृष्टार्तवः; अदृष्टार्तवाऽप्यस्तीत्येके भाषन्ते  ||६||

श्लोक 7-8

भवन्ति चात्र-
पीनप्रसन्नवदनां प्रक्लिन्नात्ममुखद्विजाम् |
नरकामां प्रियकथां स्रस्तकुक्ष्यक्षिमूर्धजाम् ||७||

स्फुरद्भुजकुचश्रोणिनाभ्यूरुजघनस्फिचाम् |
हर्षौत्सुक्यपरां चापि विद्यादृतुमतीमिति ||८||

श्लोक9

नियतं दिवसेऽतीते सङ्कुचत्यम्बुजं यथा |
ऋतौ व्यतीते नार्यास्तु योनिः संव्रियते तथा ||९||

श्लोक 10

मासेनोपचितं काले धमनीभ्यां तदार्तवम् |
ईषत्कृष्णं विवर्णं च वायुर्योनिमुखं नयेत् ||१०||

श्लोक 11

तद्वर्षाद्द्वादशात् काले वर्तमानमसृक् पुनः |
जरापक्वशरीराणां याति पञ्चाशतः क्षयम् ||११||

श्लोक 12

युग्मेषु तु पुमान् प्रोक्तो दिवसेष्वन्यथाऽबला |
पुष्पकाले शुचिस्तस्मादपत्यार्थो स्त्रियं व्रजेत् ||१२||

श्लोक 13

तत्र सद्योगृहीतगर्भाया लिङ्गानि-श्रमो ग्लानिः पिपासा सक्थिसदनं  शुक्रशोणितयोरवबन्धः स्फुरणं च योनेः ||१३||

श्लोक 14-15

स्तनयोः कृष्णमुखता रोमराज्युद्गमस्तथा |
अक्षिपक्ष्माणि चाप्यस्याः सम्मील्यन्ते विशेषतः ||१४||

अकामतश्छर्दयति गन्धादुद्विजते शुभात् |
प्रसेकः सदनं चापि गर्भिण्या लिङ्गमुच्यते ||१५||

श्लोक 16-17

तदा प्रभृति व्यवायं व्यायाममतितर्पणमतिकर्शनं दिवास्वप्नं  रात्रिजागरणं शोकं यानारोहणं भयमुत्कुटुकासनं चैकान्ततः  स्नेहादिक्रियां शोणितमोक्षणं चाकाले वेगविधारणं च न सेवेत ||१६||

दोषाभिघातैर्गर्भिण्या यो यो भागः प्रपीड्यते |
स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते ||१७||

श्लोक 18

तत्र प्रथमे मासि कललं जायते; द्वितीये शीतोष्मानिलैरभिप्रपच्यमानानां महाभूतानां सङ्घातो घनः सञ्जायते, यदि पिण्डः पुमान्, स्त्री चेत् पेशी, नपुंसकं चेदर्बुदमिति; तृतीये हस्तपादशिरसां पञ्चपिण्डका  निर्वर्तन्तेऽङ्गप्रत्यङ्गविभागश्च सूक्ष्मो भवति; चतुर्थे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्तो भवति, गर्भहृदयप्रव्यक्तिभावाच्चेतनाधातुरभिव्यक्तो भवति, कस्मात्? तत्स्थानत्वात् |
तस्माद्गर्भश्चतुर्थे मास्यभिप्रायमिन्द्रियार्थेषु करोति, द्विहृदयां च नारीं  दौहृदिनीमाचक्षते |
दौहृदविमाननात् कुब्जं कुणिं खञ्जं जडं वामनं विकृताक्षमनक्षं वा  नारी सुतं जनयति, तस्मात् सा यद्यदिच्छेत्तत्तस्यै दापयेत्, लब्धदौहृदा हि वीर्यवन्तं चिरायुषं च पुत्रं जनयति ||१८||

श्लोक 19-21

भवन्ति चात्र-
इन्द्रियार्थांस्तु यान् यान् सा भोक्तुमिच्छति गर्भिणी
गर्भाबाधभयात्तांस्तान् भिषगाहृत्य दापयेत् ||१९||

सा प्राप्तदौहृदा पुत्रं जनयेत गुणान्वितम् |
अलब्धदौहृदा गर्भे लभेतात्मनि वा भयम् ||२०||

येषु येष्विन्द्रियार्थेषु दौहृदे वै विमानना |
प्रजायेत सुतस्यार्तिस्तस्मिंस्तस्मिंस्तथेन्द्रिये ||२१||

श्लोक 22-28

राजसन्दर्शने यस्या दौर्हृदं जायते स्त्रियाः |
अर्थवन्तं महाभागं कुमारं सा प्रसूयते ||२२||

दुकूलपट्टकौशेयभूषणादिषु दौहृदात् |
अलङ्कारैषिणं पुत्रं ललितं सा प्रसूयते ||२३||

आश्रमे संयतात्मानं धर्मशीलं प्रसूयते |
देवताप्रतिमायां तु प्रसूते पार्षदोपमम् |
दर्शने व्यालजातीनां हिंसाशीलं प्रसूयते ||२४||

गोधामांसाशने पुत्रं सुषुप्सुं धारणात्मकम् |
गवां मांसे तु बलिनं सर्वक्लेशसहं तथा ||२५||

माहिषे दौर्हृदाच्छूरं रक्ताक्षं लोमसंयुतम् |
वराहमांसात् स्वप्नालुं शूरं सञ्जनयेत् सुतम् ||२६||

मार्गाद्विक्रान्तजङ्घालं सदा वनचरं सुतम् |
सृमराद्विग्नमनसं नित्यभीतं च तैत्तिरात् ||२७||

अतोऽनुक्तेषु या नारी समभिध्याति दौर्हृदम् |
शरीराचारशीलैः सा समानं जनयिष्यति ||२८||

श्लोक 29

कर्मणा चोदितं जन्तोर्भवितव्यं पुनर्भवेत् |
यथा तथा दैवयोगाद्दौर्हृदं जनयेद्धृदि ||२९||

श्लोक 30

पञ्चमे मनः प्रतिबुद्धतरं भवति, षष्ठे बुद्धिः, सप्तमे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्ततरः; अष्टमेऽस्थिरीभवत्योजः , तत्र जातश्चेन्न  जीवेन्निरोजस्त्वान्नैरृतभागत्वाच्च , ततो बलिं मांसौदनमस्मै दापयेत्;  नवमदशमैकादशद्वादशानामन्यतमस्मिञ्जायते, अतोऽन्यथा विकारी  भवति ||३०||

श्लोक 31-32

मातुस्तु खलु रसवहायां नाड्यां गर्भनाभिनाडीप्रतिबद्धा, साऽस्य  मातुराहाररसवीर्यमभिवहति |
तेनोपस्नेहेनास्याभिवृद्धिर्भवति |
असञ्जाताङ्गप्रत्यङ्गप्रविभागमानिषेकात् प्रभृति  सर्वशरीरावयवानुसारिणीनां रसवहानां तिर्यग्गतानां  धमनीनामुपस्नेहो जीवयति ||३१||

गर्भस्य खलु सम्भवतः पूर्वं शिरः सम्भवतीत्याह शौनकः,  शिरोमूलत्वात् प्रधानेन्द्रियाणां ; हृदयमिति कृतवीर्यो, बुद्धेर्मनसश्च  स्थानत्वात्; नाभिरिति पाराशर्यः, ततो हि वर्धते देहो देहिनः;  पाणिपादमिति मार्कण्डेयः, तन्मूलत्वाच्चेष्टाया गर्भस्य; मध्यशरीरमिति सुभूतिर्गौतमः, तन्निबद्धत्वात् सर्वगात्रसम्भवस्य |
तत्तु न सम्यक्, सर्वाण्यङ्गप्रत्यङ्गानि युगपत् सम्भवन्तीत्याह धन्वन्तरिः, गर्भस्य सूक्ष्मत्वान्नोपलभ्यन्ते वंशाङ्कुरवच्चूतफलवच्च; तद्यथा-चूतफले परिपक्वे केशरमांसास्थिमज्जानः पृथक् पृथग्दृश्यन्ते  कालप्रकर्षात्, तान्येव तरुणे नोपलभ्यन्ते सूक्ष्मत्वात्; तेषां सूक्ष्माणां  केशरादीनां कालः प्रव्यक्ततां करोति; एतेनैव वंशाङ्कुरोऽपि  व्याख्यातः |
एवं गर्भस्य तारुण्ये सर्वेष्वङ्गप्रत्यङ्गेषु सत्स्वपि सौक्ष्म्यादनुपलब्धिः,  तान्येव कालप्रकर्षात् प्रव्यक्तानि भवन्ति ||३२||

श्लोक 33

तत्र गर्भस्य पितृजमातृजरसजात्मजसत्त्वजसात्म्यजानि शरीरलक्षणानि व्याख्यास्यामः |
गर्भस्य केशश्मश्रुलोमास्थिनखदन्तसिरास्नायुधमनीरेतःप्रभृतीनि  स्थिराणि पितृजानि,  मांसशोणितमेदोमज्जहृन्नाभियकृत्प्लीहान्त्रगुदप्रभृतीनि मृदूनि  मातृजानि, शरीरोपचयो बलं वर्णः स्थितिर्हानिश्च रसजानि,  इन्द्रियाणि ज्ञानं विज्ञानमायुः सुखदुःखादिकं चात्मजानि,  सत्त्वजान्युत्तरत्र वक्ष्यामः, वीर्यमारोग्यं बलवर्णौ मेधा च सात्म्यजानि  ||३३||

श्लोक 34

तत्र यस्या दक्षिणे स्तने प्राक् पयोदर्शनं भवति दक्षिणकुक्षिमहत्त्वं च पूर्वंच दक्षिणं सक्थ्युत्कर्षति बाहुल्याच्च पुन्नामधेयेषु द्रव्येषु  दौर्हृदमभिध्यायति स्वप्नेषु चोपलभते पद्मोत्पलकुमुदाम्रातकादीनि  पुन्नामान्येव प्रसन्नमुखवर्णा च भवति तां ब्रूयात् पुत्रमियं जनयिष्यतीति, तद्विपर्यये कन्यां, यस्याः पार्श्वद्वयमवनतं पुरस्तान्निर्गतमुदरं  प्रागभिहितं च लक्षणं च तस्या नपुंसकमिति विद्यात्, यस्या मध्ये  निम्नं द्रोणीभूतमुदरं सा युग्मं प्रसूयत इति ||३४||

श्लोक 35

भवन्ति चात्र-
देवताब्राह्मणपराः शौचाचारहिते रताः |
महागुणान् प्रसूयन्ते विपरीतास्तु निर्गुणान् ||३५||

श्लोक 36

अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते |
अङ्गप्रत्यङ्गनिर्वृत्तौ ये भवन्ति गुणागुणाः |
ते ते गर्भस्य विज्ञेया धर्माधर्मनिमित्तजाः ||३६||

पुष्पिका

इति सुश्रुतसंहितायां शारीरस्थाने गर्भावक्रान्तिशारीरं नाम  तृतीयोऽध्यायः ||३||
error: Content is protected !!