गुल्मचिकित्सितम्

श्लोक 1-2

अथातो गुल्मचिकित्सितं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

सर्वप्रजानां पितृवच्छरण्यः पुनर्वसुर्भूतभविष्यदीशः|
चिकित्सितं गुल्मनिबर्हणार्थं प्रोवाच सिद्धं वदतां वरिष्ठः||३||

श्लोक 4-5

विट्श्लेष्मपित्तातिपरिस्रवाद्वा तैरेव वृद्धैः परिपीडनाद्वा|
वेगैरुदीर्णैर्विहतैरधो वा बाह्यभिघातैरतिपीडनैर्वा||४||

रूक्षान्नपानैरतिसेवितैर्वा शोकेन मिथ्याप्रतिकर्मणा वा|
विचेष्टितैर्वा विषमातिमात्रैः कोष्ठे प्रकोपं समुपैति वायुः||५||

श्लोक 6-7

कफं च पित्तं च स दुष्टवायुरुद्धूय मार्गान् विनिबद्ध्य ताभ्याम्|
हृन्नाभिपार्श्वोदरबस्तिशूलं करोत्यथो याति न बद्धमार्गः||६||

पक्वाशये पित्तकफाशये वा स्थितः स्वतन्त्रः परसंश्रयो वा|
स्पर्शोपलभ्यः परिपिण्डितत्वाद्गुल्मो यथादोषमुपैति नाम||७||

श्लोक 8

बस्तौ च नाभ्यां हृदि पार्श्वयोर्वा स्थानानि गुल्मस्य भवन्ति पञ्च|८|

श्लोक 8-11

पञ्चात्मकस्य प्रभवं तु तस्य वक्ष्यामि लिङ्गानि चिकित्सितं च||८||

रूक्षान्नपानं विषमातिमात्रं विचेष्टितं वेगविनिग्रहश्च|
शोकोऽभिघातोऽतिमलक्षयश्च निरन्नता चानिलगुल्महेतुः||९||

यः स्थानसंस्थानरुजां विकल्पं विड्वातसङ्गं गलवक्त्रशोषम्|
श्यावारुणत्वं शिशिरज्वरं च हृत्कुक्षिपार्श्वांसशिरोरुजं च||१०||

करोति जीर्णेऽभ्यधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च|
वातात् स गुल्मो न च तत्र रूक्षं कषायतिक्तं कटु चोपशेते||११||

श्लोक 12-13

कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्रोधातिमद्यार्कहुताशसेवा|
आमाभिघातो रुधिरं च दुष्टं पैत्तस्य गुल्मस्य निमित्तमुक्तम्||१२||

ज्वरः पिपासा वदनाङ्गरागः शूलं महज्जीर्यति भोजने च|
स्वेदो विदाहो व्रणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम्||१३||

श्लोक 14

शीतं गुरु स्निग्धमचेष्टनं च सम्पूरणं प्रस्वपनं दिवा च|
गुल्मस्य हेतुः कफसम्भवस्य सर्वस्तु दिष्टो निचयात्मकस्य||१४||

श्लोक 15

स्तैमित्यशीतज्वरगात्रसादहृल्लासकासारुचिगौरवाणि|
शैत्यं रुगल्पा कठिनोन्नतत्वं गुल्मस्य रूपाणि कफात्मकस्य||१५||

श्लोक 16

निमित्तलिङ्गान्युपलभ्य गुल्मे द्विदोषजे दोषबलाबलं च|
व्यामिश्रलिङ्गानपरांस्तु गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम्||१६||

श्लोक 17

महारुजं दाहपरीतमश्मवद्घनोन्नतं शीघ्रविदाहि दारुणम्|
मनःशरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत्||१७||

श्लोक 18-19

ऋतावनाहारतया भयेन विरूक्षणैर्वेगविनिग्रहैश्च|
संस्तम्भनोल्लेखनयोनिदोषैर्गुल्मः स्त्रियं रक्तभवोऽभ्युपैति||१८||

यः स्पन्दते पिण्डित एव नाङ्गैश्चिरात् सशूलः समगर्भलिङ्गः|
स रौधिरः स्त्रीभव एव गुल्मो मासे व्यतीते दशमे चिकित्स्यः||१९||

श्लोक 20-26

क्रियाक्रममतः सिद्धं गुल्मिनां गुल्मनाशनम्|
प्रवक्ष्याम्यत ऊर्ध्वं च योगान् गुल्मनिबर्हणान्||२०||

रूक्षव्यायामजं गुल्मं वातिकं तीव्रवेदनम्|
बद्धविण्मारुतं स्नेहैरादितः समुपाचरेत्||२१||

भोजनाभ्यञ्जनैः पानैर्निरूहैः सानुवासनैः|
स्निग्धस्य भिषजा स्वेदः कर्तव्यो गुल्मशान्तये||२२||

स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्बणम्|
भित्त्वा विबन्धं स्निग्धस्य स्वेदो गुल्ममपोहति||२३||

स्नेहपानं हितं गुल्मे विशेषेणोर्ध्वनाभिजे|
पक्वाशयगते बस्तिरुभयं जठराश्रये||२४||

दीप्तेऽग्नौ वातिके गुल्मे विबन्धेऽनिलवर्चसोः|
बृंहणान्यन्नपानानि स्निग्धोष्णानि प्रयोजयेत्||२५||

पुनः पुनः स्नेहपानं निरूहाः सानुवासनाः|
प्रयोज्या वातगुल्मेषु कफपित्तानुरक्षिणा||२६||

श्लोक 27-28

कफो वाते जितप्राये पित्तं शोणितमेव वा|
यदि कुप्यति वा तस्य क्रियमाणे चिकित्सिते||२७||

यथोल्बणस्य दोषस्य तत्र कार्यं भिषग्जितम्|
आदावन्ते च मध्ये च मारुतं परिरक्षता||२८||

श्लोक 29-31

वातगुल्मे कफो वृद्धो हत्वाऽग्निमरुचिं यदि|
हृल्लासं गौरवं तन्द्रां जनयेदुल्लिखेत्तु तम्||२९||

शूलानाहविबन्धेषु गुल्मे वातकफोल्बणे|
वर्तयो गुटिकाश्चूर्णं कफवातहरं हितम्||३०||

पित्तं वा यदि संवृद्धं सन्तापं वातगुल्मिनः|
कुर्याद्विरेच्यः स भवेत् सस्नेहैरानुलोमिकैः||३१||

श्लोक 32

गुल्मो यद्यनिलादीनां कृते सम्यग्भिषग्जिते|
न प्रशाम्यति रक्तस्य सोऽवसेकात् प्रशाम्यति||३२||

श्लोक 33-35

स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम्|
रूक्षोष्णेन तु सम्भूते सर्पिः प्रशमनं परम्||३३||

पित्तं वा पित्तगुल्मं वा ज्ञात्वा पक्वाशयस्थितम्|
कालविन्निर्हरेत् सद्यः सतिक्तैः क्षीरबस्तिभिः||३४||

पयसा वा सुखोष्णेन सतिक्तेन विरेचयेत्|
भिषगग्निबलापेक्षी सर्पिषा तैल्वकेन वा||३५||

श्लोक 36-37

तृष्णाज्वरपरीदाहशूलस्वेदाग्निमार्दवे|
गुल्मिनामरुचौ चापि रक्तमेवावसेचयेत्||३६||

छिन्नमूला विदह्यन्ते न गुल्मा यान्ति च क्षयम्|
रक्तं हि व्यम्लतां याति, तच्च नास्ति न चास्ति रुक्||३७||

श्लोक 38

हृतदोषं परिम्लानं जाङ्गलैस्तर्पितं रसैः|
समाश्वस्तं सशेषार्तिं सर्पिरभ्यासयेत् पुनः||३८||

श्लोक 39

रक्तपित्तातिवृद्धत्वात् क्रियामनुपलभ्य च|
यदि गुल्मो विदह्येत शस्त्रं तत्र भिषग्जितम्||३९||

श्लोक 40

गुरुः कठिनसंस्थानो गूढमांसान्तराश्रयः|
अविवर्णः स्थिरश्चैव ह्यपक्वो गुल्म उच्यते||४०||

श्लोक 41

दाहशूलार्तिसङ्क्षोभस्वप्ननाशारतिज्वरैः|
विदह्यमानं जानीयाद्गुल्मं तमुपनाहयेत्||४१||

श्लोक 42-45

विदाहलक्षणे गुल्मे बहिस्तुङ्गे समुन्नते|
श्यावे सरक्तपर्यन्ते संस्पर्शे बस्तिसन्निभे||४२||

निपीडितोन्नते स्तब्धे सुप्ते तत्पार्श्वपीडनात्|
तत्रैव पिण्डिते शूले सम्पक्वं गुल्ममादिशेत्||४३||

तत्र धान्वन्तरीयाणामधिकारः क्रियाविधौ|
वैद्यानां कृतयोग्यानां व्यधशोधनरोपणे||४४||

अन्तर्भागस्य चाप्येतत् पच्यमानस्य लक्षणम्|
हृत्क्रोडशूनताऽन्तःस्थे बहिःस्थे पार्श्वनिर्गतिः||४५||

श्लोक 46-48

पक्वः स्रोतांसि सङ्क्लेद्य व्रजत्यूर्ध्वमधोऽपि वा|
स्वयम्प्रवृत्तं तं दोषमुपेक्षेत हिताशनैः ||४६||

दशाहं द्वादशाहं वा रक्षन् भिषगुपद्रवान्|
अत ऊर्ध्वं हितं पानं सर्पिषः सविशोधनम्||४७||

शुद्धस्य तिक्तं सक्षौद्रं प्रयोगे सर्पिरिष्यते|४८|

श्लोक 48-56

शीतलैर्गुरुभिः स्निग्धैर्गुल्मे जाते कफात्मके||४८||

अवम्यस्याल्पकायाग्नेः कुर्याल्लङ्घनमादितः|
मन्दोऽग्निर्वेदना मन्दा गुरुस्तिमितकोष्ठता||४९||

सोत्क्लेशा चारुचिर्यस्य स गुल्मी वमनोपगः|
उष्णैरेवोपचर्यश्च कृते वमनलङ्घने||५०||

योज्यश्चाहारसंसर्गो भेषजैः कटुतिक्तकैः|
सानाहं सविबन्धं च गुल्मं कठिनमुन्नतम्||५१||

दृष्ट्वाऽऽदौ स्वेदयेद्युक्त्या स्विन्नं च विलयेद्भिषक्|
लङ्घनोल्लेखने स्वेदे कृतेऽग्नौ सम्प्रधुक्षिते||५२||

कफगुल्मी पिबेत् काले सक्षारकटुकं घृतम्|
स्थानादपसृतं ज्ञात्वा कफगुल्मं विरेचनैः||५३||

सस्नेहैर्बस्तिभिर्वाऽपि शोधयेद्दाशमूलिकैः|
मन्देऽग्नावनिले मूढे ज्ञात्वा सस्नेहमाशयम्||५४||

गुटिकाचूर्णनिर्यूहाः प्रयोज्याः कफगुल्मिनाम्|
कृतमूलं महावास्तुं कठिनं स्तिमितं गुरुम्||५५||

जयेत्कफकृतं गुल्मं क्षारारिष्टाग्निकर्मभिः|५६|

श्लोक 56-60

दोषप्रकृतिगुल्मर्तुयोगं बुद्ध्वा कफोल्बणे||५६||

बलदोषप्रमाणज्ञः क्षारं गुल्मे प्रयोजयेत्|
एकान्तरं द्व्यन्तरं वा त्र्यहं विश्रम्य वा पुनः||५७||

शरीरबलदोषाणां वृद्धिक्षपणकोविदः|
श्लेष्माणं मधुरं स्निग्धं मांसक्षीरघृताशिनः||५८||

छित्त्वा छित्त्वाऽऽशयात् क्षारः क्षरत्वात क्षारयत्यधः|
मन्देऽग्नावरुचौ सात्म्ये मद्ये सस्नेहमश्नताम्||५९||

प्रयोज्या मार्गशुद्ध्यर्थमरिष्टाः कफगुल्मिनाम्|६०|

श्लोक 60-64

लङ्घनोल्लेखनैः स्वेदैः सर्पिःपानैर्विरेचनैः||६०||

बस्तिभिर्गुटिकाचूर्णक्षारारिष्टगणैरपि|
श्लैष्मिकः कृतमूलत्वाद्यस्य गुल्मो न शाम्यति||६१||

तस्य दाहो हृते रक्ते शरलोहादिभिर्हितः|
औष्ण्यात्तैक्ष्ण्याच्च शमयेदग्निर्गुल्मे कफानिलौ||६२||

तयोः शमाच्च सङ्घातो गुल्मस्य विनिवर्तते|
दाहे धान्वन्तरीयाणामत्रापि भिषजां बलम्||६३||

क्षारप्रयोगे भिषजां क्षारतन्त्रविदां बलम्|६४|

श्लोक 64

व्यामिश्रदोषे व्यामिश्र एष एव क्रियाक्रमः||६४||

श्लोक 65

सिद्धानतः प्रवक्ष्यामि योगान् गुल्मनिबर्हणान्|
त्र्यूषणत्रिफलाधान्यविडङ्गचव्यचित्रकैः||६५||
कल्कीकृतैर्घृतं सिद्धं सक्षीरं वातगुल्मनुत्|
इति त्र्यूषणादिघृतम्|

श्लोक 66-68

एत एव च कल्काः स्युः कषायः पाञ्चमूलिकः ||६६||

द्विपञ्चमूलिको वाऽपि तद्घृतं गुल्मनुत् परम्|
इति त्र्यूषणादिघृतमपरम्|
(षट्पलं वा पिबेत् सर्पिर्यदुक्तं राजयक्ष्मणि)||६७||

प्रसन्नया वा क्षीरार्थं सुरया दाडिमेन वा|
दध्नः सरेण वा कार्यं घृतं मारुतगुल्मनुत्||६८||

श्लोक 69-70

हिङ्गुसौवर्चलाजाजीबिडदाडिमदीप्यकैः|
पुष्करव्योषधन्याकवेतसक्षारचित्रकैः||६९||

शटीवचाजगन्धैलासुरसैश्च विपाचितम्|
शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम्||७०||
इति हिङ्गुसौवर्चलाद्यं घृतम्|

श्लोक 71-73

हपुषाव्योषपृथ्वीकाचव्यचित्रकसैन्धवैः|
साजाजीपिप्पलीमूलदीप्यकैर्विपचेद्घृतम्||७१||

सकोलमूलकरसं सक्षीरदधिदाडिमम्|
तत् परं वातगुल्मघ्नं शूलानाहविमोक्षणम्||७२||

योन्यर्शोग्रहणीदोषश्वासकासारुचिज्वरान्|
बस्तिहृत्पार्श्वशूलं च घृतमेतद्व्यपोहति||७३||
इति हपुषाद्यं घृतम्|

श्लोक 74-75

पिप्पल्या पिचुरध्यर्धो दाडिमाद्द्विपलं पलम्|
धान्यात्पञ्च घृताच्छुण्ठ्याः कर्षः क्षीरं चतुर्गुणम्||७४||

सिद्धमेतैर्घृतं सद्यो वातगुल्मं व्यपोहति|
योनिशूलं शिरःशूलमर्शांसि विषमज्वरम्||७५||
इति पिप्पल्याद्यं घृतम्|

श्लोक 76-78

घृतानामौषधगणा य एते परिकीर्तिताः|
ते चूर्णयोगा वर्त्यस्ताः कषायास्ते च गुल्मिनाम्||७६||

कोलदाडिमघर्माम्बुसुरामण्डाम्लकाञ्जिकैः|
शूलानाहहरी पेया बीजपूररसेन वा||७७||

चूर्णानि मातुलुङ्गस्य भावितानि रसेन वा|
कुर्याद्वर्तीः सगुटिका गुल्मानाहार्तिशान्तये||७८||

श्लोक 79-84

हिङ्गु त्रिकटुकं पाठां हपुषामभयां शटीम्|
अजमोदाजगन्धे च तिन्तिडीकाम्लवेतसौ||७९||

दाडिमं पुष्करं धान्यमजाजीं चित्रकं वचाम्|
द्वौ क्षारौ लवणे द्वे च चव्यं चैकत्र चूर्णयेत्||८०||

चूर्णमेतत् प्रयोक्तव्यमन्नपानेष्वनत्ययम्|
प्राग्भक्तमथवा पेयं मद्येनोष्णोदकेन वा||८१||

पार्श्वहृद्बस्तिशूलेषु गुल्मे वातकफात्मके|
आनाहे मूत्रकृच्छ्रे च शूले च गुदयोनिजे ||८२||

ग्रहण्यर्शोविकारेषु प्लीह्नि पाण्ड्वामयेऽरुचौ|
उरोविबन्धे हिक्कायां कासे श्वासे गलग्रहे||८३||

भावितं मातुलुङ्गस्य चूर्णमेतद्रसेन वा|
बहुशो गुटिकाः कार्याः कार्मुकाः स्युस्ततोऽधिकम्||८४||
इति हिङ्ग्वादिचूर्णं गुटिका च|

श्लोक 85-93

मातुलुङ्गरसो हिङ्गु दाडिमं बिडसैन्धवे|
सुरामण्डेन पातव्यं वातगुल्मरुजापहम्||८५||

शटीपुष्करहिङ्ग्वम्लवेतसक्षारचित्रकान्|
धान्यकं च यवानीं च विडङ्गं सैन्धवं वचाम्||८६||

सचव्यपिप्पलीमूलामजगन्धां सदाडिमाम्|
अजाजीं चाजमोदां च चूर्णं कृत्वा प्रयोजयेत्||८७||

रसेन मातुलुङ्गस्य मधुशुक्तेन वा पुनः|
भावितं गुटिकां कृत्वा सुपिष्टां कोलसम्मिताम्||८८||

गुल्मं प्लीहानमानाहं श्वासं कासमरोचकम्|
हिक्कां हृद्रोगमर्शांसि विविधां शिरसो रुजम्||८९||

पाण्ड्वामयं कफोत्क्लेशं सर्वजां च प्रवाहिकाम्|
पार्श्वहृद्बस्तिशूलं च गुटिकैषा व्यपोहति||९०||

नागरार्धपलं पिष्ट्वा द्वे पले लुञ्चितस्य च|
तिलस्यैकं गुडपलं क्षीरेणोष्णेन ना पिबेत्||९१||

वातगुल्ममुदावर्तं योनिशूलं च नाशयेत्|
पिबेदेरण्डजं तैलं वारुणीमण्डमिश्रितम्||९२||

तदेव तैलं पयसा वातगुल्मी पिबेन्नरः|
श्लेष्मण्यनुबले पूर्वं हितं पित्तानुगे परम्||९३||

श्लोक 94-95

साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम्|
क्षीरोदकेऽष्टगुणिते क्षीरशेषं च ना पिबेत्||९४||

वातगुल्ममुदावर्तं गृध्रसीं विषमज्वरम्|
हृद्रोगं विद्रधिं शोथं साधयत्याशु तत्पयः||९५||
इति लशुनक्षीरम्|

श्लोक 96

तैलं प्रसन्ना गोमूत्रमारनालं यवाग्रजम्|
गुल्मं जठरमानाहं पीतमेकत्र साधयेत्||९६||
इति तैलपञ्चकम्|

श्लोक 97

पञ्चमूलीकषायेण सक्षारेण शिलाजतु|
पिबेत्तस्य प्रयोगेण वातगुल्मात् प्रमुच्यते||९७||
इति शिलाजतुप्रयोगः|

श्लोक 98

वाट्यं पिप्पलीयूषेण मूलकानां रसेन वा|
भुक्त्वा स्निग्धमुदावर्ताद्वातगुल्माद्विमुच्यते||९८||

श्लोक 99-102

शूलानाहविबन्धार्तं स्वेदयेद्वातगुल्मिनम्|
स्वेदैः स्वेदविधावुक्तैर्नाडीप्रस्तरसङ्करैः||९९||

बस्तिकर्म परं विद्याद्गुल्मघ्नं तद्धि मारुतम्|
स्वे स्थाने प्रथमं जित्वा सद्यो गुल्ममपोहति||१००||

तस्मादभीक्ष्णशो गुल्मा निरूहैः सानुवासनैः|
प्रयुज्यमानैः शाम्यन्ति वातपित्तकफात्मकाः||१०१||

गुल्मघ्ना विविधा दिष्टाः सिद्धाः सिद्धिषु बस्तयः|१०२|

श्लोक 102-104

गुल्मघ्नानि च तैलानि वक्ष्यन्ते वातरोगिके||१०२||

तानि मारुतजे गुल्मे पानाभ्यङ्गानुवासनैः|
प्रयुक्तान्याशु सिध्यन्ति तैलं ह्यनिलजित्परम् ||१०३||

नीलिनीचूर्णसंयुक्तं पूर्वोक्तं घृतमेव|
समलाय प्रदातव्यं शोधनं वातगुल्मिने||१०४||

श्लोक 104-109

नीलिनीत्रिवृतादन्तीपथ्याकम्पिल्लकैः सह|
शोधनार्थं घृतं देयं सबिडक्षारनागरम्||१०५||

नीलिनीं त्रिफलां रास्नां बलां कटुकरोहिणीम्|
पचेद्विडङ्गं व्याघ्रीं च पलिकानि जलाढके||१०६||

तेन पादावशेषेण घृतप्रस्थं विपाचयेत्|
दध्नः प्रस्थेन संयोज्य सुधाक्षीरपलेन च||१०७||

ततो घृतपलं दद्याद्यवागूमण्डमिश्रितम्|
जीर्णे सम्यग्विरिक्तं च भोजयेद्रसभोजनम्||१०८||

गुल्मकुष्ठोदरव्यङ्गशोफपाण्ड्वामयज्वरान्|
श्वित्रं प्लीहानमुन्मादं घृतमेतद्व्यपोहति||१०९||
इति नीलिन्याद्यं घृतम्|

श्लोक 110-113

कुक्कुटाश्च मयूराश्च तित्तिरिक्रौञ्चवर्तकाः|
शालयो मदिरा सर्पिर्वातगुल्मभिषग्जितम्||११०||

हितमुष्णं द्रवं स्निग्धं भोजनं वातगुल्मिनाम्|
समण्डवारुणीपानं पक्वं वा धान्यकैर्जलम्||१११||

मन्देऽग्नौ वर्धते गुल्मो दीप्ते चाग्नौ प्रशाम्यति|
तस्मान्ना नातिसौहित्यं कुर्यान्नातिविलङ्घनम्||११२||

सर्वत्र गुल्मे प्रथमं स्नेहस्वेदोपपादिते|
या क्रिया क्रियते सिद्धिं सा याति न विरूक्षिते||११३||

श्लोक 114-117

भिषगात्ययिकं बुद्ध्वा पित्तगुल्ममुपाचरेत्|
वैरेचनिकसिद्धेन सर्पिषा तिक्तकेन वा||११४||

रोहिणीकटुकानिम्बमधुकत्रिफलात्वचः|
कर्षांशास्त्रायमाणा च पटोलत्रिवृतोः पले||११५||

द्वे पले च मसूराणां साध्यमष्टगुणेऽम्भसि|
शृताच्छेषं घृतसमं सर्पिषश्च चतुष्पलम्||११५||

पिबेत् सम्मूर्च्छितं तेन गुल्मः शाम्यति पैत्तिकः|
ज्वरस्तृष्णा च शूलं च भ्रमो मूर्च्छाऽरुचिस्तथा||११७||
इति रोहिण्याद्यं घृतम्|

श्लोक 118-121

जले दशगुणे साध्यं त्रायमाणाचतुष्पलम्|
पञ्चभागस्थितं पूतं कल्कैः संयोज्य कार्षिकैः||११८||

रोहिणी कटुका मुस्ता त्रायमाणा दुरालभा|
कल्कैस्तामलकीवीराजीवन्तीचन्दनोत्पलैः||११९||

रसस्यामलकानां च क्षीरस्य च घृतस्य च|
पलानि पृथगष्टाष्टौ दत्त्वा सम्यग्विपाचयेत्||१२०||

पित्तरक्तभवं गुल्मं वीसर्पं पैत्तिकं ज्वरम्|
हृद्रोगं कामलां कुष्ठं हन्यादेतद्घृतोत्तमम्||१२१||
इति त्रायमाणाद्यं घृतम्|

श्लोक 122

रसेनामलकेक्षूणां घृतपादं विपाचयेत्|
पथ्यापदं पिबेत्सर्पिस्तत्सिद्धं पित्तगुल्मनुत्||१२२||
इत्यामलकाद्यं घृतम्|

श्लोक 123-125

द्राक्षां मधूकं खर्जूरं विदारीं सशतावरीम्|
परूषकाणि त्रिफलां साधयेत्पलसम्मितम्||१२३||

जलाढके पादशेषे रसमामलकस्य च|
घृतमिक्षुरसं क्षीरमभयाकल्कपादिकम्||१२४||

साधयेत्तद्घृतं सिद्धं शर्कराक्षौद्रपादिकम्|
प्रयोगात् पित्तगुल्मघ्नं सर्वपित्तविकारनुत्||१२५||
इति द्राक्षाद्यं घृतम्|

श्लोक 126-127

वृषं समूलमापोथ्य पचेदष्टगुणे जले|
शेषेऽष्टभागे तस्यैव पुष्पकल्कं प्रदापयेत्||१२६||

तेन सिद्धं घृतं शीतं सक्षौद्रं पित्तगुल्मनुत्|
रक्तपित्तज्वरश्वासकासहृद्रोगनाशनम्||१२७||
इति वासाघृतम्|

श्लोक 128-129

द्विपलं त्रायमाणाया जलद्विप्रस्थसाधितम्|
अष्टभागस्थितं पूतं कोष्णं क्षीरसमं पिबेत्||१२८||

पिबेदुपरि तस्योष्णं क्षीरमेव यथाबलम्|
तेन निर्हृतदोषस्य गुल्मः शाम्यति पैत्तिकः||१२९||

श्लोक 130

द्राक्षाभयारसं गुल्मे पैत्तिके सगुडं पिबेत्|
लिह्यात्कम्पिल्लकं वाऽपि विरेकार्थं मधुद्रवम्||१३०||

श्लोक 131

दाहप्रशमनोऽभ्यङ्गः सर्पिषा पित्तगुल्मिनाम्|
चन्दनाद्येन तैलेन तैलेन मधुकस्य वा||१३१||

श्लोक 132-136

ये च पित्तज्वरहराः सतिक्ताः क्षीरबस्तयः|
हितास्ते पित्तगुल्मिभ्यो वक्ष्यन्ते ये च सिद्धिषु||१३२||

शालयो जाङ्गलं मांसं गव्याजे पयसी घृतम्|
खर्जूरामलकं द्राक्षां दाडिमं सपरूषकम्||१३३||

आहारार्थं प्रयोक्तव्यं पानार्थं सलिलं शृतम्|
बलाविदारीगन्धाद्यैः पित्तगुल्मचिकित्सितम्||१३४||

आमान्वये पित्तगुल्मे सामे वा कफवातिके|
यवागूभिः खडैर्यूषैः सन्धुक्ष्योऽग्निर्विलङ्घिते||१३५||

शमप्रकोपौ दोषाणां सर्वेषामग्निसंश्रितौ|
तस्मादग्निं सदा रक्षेन्निदानानि च वर्जयेत्||१३६||

श्लोक 137-141

वमनं वमनार्हाय प्रदद्यात् कफगुल्मिने|
स्निग्धस्विन्नशरीराय गुल्मे शैथिल्यमागते||१३७||

परिवेष्ट्य प्रदीप्तांस्तु बल्वजानथवा कुशान्|
भिषक्कुम्भे समावाप्य गुल्मं घटमुखे न्यसेत्||१३८||

सङ्गृहीतो यदा गुल्मस्तदा घटमथोद्धरेत्|
वस्त्रान्तरं ततः कृत्वा भिन्द्याद्गुल्मं प्रमाणवित्||१३९||

विमार्गाजपदादर्शैर्यथालाभं प्रपीडयेत्|
मृद्नीयाद्गुल्ममेवैकं न त्वन्त्रहृदयं स्पृशेत्||१४०||

तिलैरण्डातसीबीजसर्षपैः परिलिप्य च|
श्लेष्मगुल्ममयःपात्रैः सुखोष्णैः स्वेदयेद्भिषक्||१४१||

श्लोक 142-146

सव्योषक्षारलवणं दशमूलीशृतं घृतम्|
कफगुल्मं जयत्याशु सहिङ्गुबिडदाडिमम्||१४२||

इति दशमूलीघृतम्|
भल्लातकानां द्विपलं पञ्चमूलं पलोन्मितम्|
साध्यं विदारीगन्धाद्यमापोथ्य सलिलाढके||१४३||

पादशेषे रसे तस्मिन् पिप्पलीं नागरं वचाम्|
विडङ्गं सैन्धवं हिङ्गु यावशूकं बिडं शटीम्||१४४||

चित्रकं मधुकं रास्नां पिष्ट्वा कर्षसमं भिषक्|
प्रस्थं च पयसो दत्त्वा घृतप्रस्थं विपाचयेत्||१४५||

एतद्भल्लातकघृतं कफगुल्महरं परम्|
प्लीहपाण्ड्वामयश्वासग्रहणीरोगकासनुत्||१४६||
इति भल्लातकाद्यं घृतम्|

श्लोक 147-148

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः|
पलिकैः सयवक्षारैर्घृतप्रस्थं विपाचयेत्||१४७||

क्षीरप्रस्थं च तत् सर्पिहन्ति गुल्मं कफात्मकम्|
ग्रहणीपाण्डुरोगघ्नं प्लीहकासज्वरापहम्||१४८||
इति क्षीरषट्पलकं घृतम्|

श्लोक 149-151

त्रिवृतां त्रिफलां दन्तीं दशमूलं पलोन्मितम्|
जले चतुर्गुणे पक्त्वा चतुर्भागस्थितं रसम्||१४९||

सर्पिरेरण्डजं तैलं क्षीरं चैकत्र साधयेत्|
स सिद्धो मिश्रकस्नेहः सक्षौद्रः कफगुल्मनुत्||१५०||

कफवातविबन्धेषु कुष्ठप्लीहोदरेषु च|
प्रयोज्यो मिश्रकः स्नेहो योनिशूलेषु चाधिकम्||१५१||
इति मिश्रकः स्नेहः|

श्लोक 152-153

यदुक्तं वातगुल्मघ्नं स्रंसनं नीलिनीघृतम्|
द्विगुणं तद्विरेकार्थं प्रयोज्यं कफगुल्मिनाम्||१५२||

सुधाक्षीरद्रवे चूर्णं त्रिवृतायाः सुभावितम्|
कार्षिकं मधुसर्पिभ्यां लीढ्वा साधु विरिच्यते||१५३||

श्लोक 154-160

जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः|
दन्त्याः पलानि तावन्ति चित्रकस्य तथैव च||१५४||

अष्टभागावशेषं तु रसं पूतमधिक्षिपेत्|
दन्तीसमं गुडं पूतं क्षिपेत्तत्राभयाश्च ताः||१५५||

तैलार्धकुडवं चैव त्रिवृतायाश्चतुष्पलम्|
चूर्णितं पलमेकं तु पिप्पलीविश्वभेषजम्||१५६||

तत् साध्यं लेहवच्छीते तस्मिंस्तैलसमं मधु|
क्षिपेच्चूर्णपलं चैकं त्वगेलापत्रकेशरात्||१५७||

ततो लेहपलं लीढ्वा जग्ध्वा चैकां हरीतकीम्|
सुखं विरिच्यते स्निग्धो दोषप्रस्थमनामयम्||१५८||

गुल्मं श्वयथुमर्शांसि पाण्डुरोगमरोचकम्|
हृद्रोगं ग्रहणीदोषं कामलां विषमज्वरम्||१५९||

कुष्ठं प्लीहानमानाहमेषा हन्युपसेविता|
निरत्ययः क्रमश्चास्या द्रवो मांसरसौदनः||१६०||
इति दन्तीहरीतकी|

श्लोक 161-168

सिद्धाः सिद्धिषु वक्ष्यन्ते निरूहाः कफगुल्मिनाम्|
अरिष्टयोगाः सिद्धाश्च ग्रहण्यर्शश्चिकित्सिते||१६१||

यच्चूर्णं गुटिका याश्च विहिता वातगुल्मिनाम्|
द्विगुणक्षारहिङ्ग्वम्लवेतसास्ताः कफे हिताः||१६२||

य एव ग्रहणीदोषे क्षारास्ते कफगुल्मिनाम्|
सिद्धा निरत्ययाः शस्ता दाहस्त्वन्ते प्रशस्यते||१६३||

प्रपुराणानि धान्यानि जाङ्गला मृगपक्षिणः|
कौलत्थो मुद्गयूषश्च पिप्पल्या नागरस्य च||१६४||

शुष्कमूलकयूषश्च बिल्वस्य वरुणस्य च|
चिरबिल्वाङ्कुराणां च यवान्याश्चित्रकस्य च||१६५||

बीजपूरकहिङ्ग्वम्लवेतसक्षारदाडिमैः|
तक्रेण तैलसर्पिर्भ्यां व्यञ्जनान्युपकल्पयेत्||१६६||

पञ्चमूलीशृतं तोयं पुराणं वारुणीरसम्|
कफगुल्मी पिबेत्काले जीर्णं माध्वीकमेव वा||१६७||

यवानीचूर्णितं तक्रं बिडेन लवणीकृतम्|
पिबेत् सन्दीपनं वातकफमूत्रानुलोमनम् ||१६८||

श्लोक 169-171

सञ्चितः क्रमशो गुल्मो महावास्तुपरिग्रहः|
कृतमूलः सिरानद्धो यदा कूर्म इवोन्नतः||१६९||

दौर्बल्यारुचिहृल्लासकासवम्यरतिज्वरैः |
तृष्णातन्द्राप्रतिश्यायैर्युज्यते न स सिध्यति||१७०||

गृहीत्वा सज्वरश्वासं वम्यतीसारपीडितम्|
हृन्नाभिहस्तपादेषु शोफः कर्षति गुल्मिनम्||१७१||

श्लोक 172-182

रौधिरस्य तु गुल्मस्य गर्भकालव्यतिक्रमे|
स्निग्धस्विन्नशरीरायै दद्यात् स्नेहविरेचनम्||१७२||

पलाशक्षारपात्रे द्वे द्वे पात्रे तैलसर्पिषोः|
गुल्मशैथिल्यजननीं पक्त्वा मात्रां प्रयोजयेत्||१७३||

प्रभिद्येत न यद्येवं दद्याद्योनिविशोधनम् |
क्षारेण युक्तं पललं सुधाक्षीरेण वा पुनः||१७४||

आभ्यां वा भावितान् दद्याद्योनौ कटुकमत्स्यकान्|
वराहमत्स्यपित्ताभ्यां लक्तकान् वा सुभावितान्||१७५||

अधोहरैश्चोर्ध्वहरैर्भावितान् वा समाक्षिकैः|
किण्वं वा सगुडक्षारं दद्याद्योनिविशोधनम्||१७६||

रक्तपित्तहरं क्षारं लेहयेन्मधुसर्पिषा|
लशुनं मदिरां तीक्ष्णां मत्स्यांश्चास्यै प्रदापयेत्||१७७||

बस्तिं सक्षीरगोमूत्रं सक्षारं दाशमूलिकम्|
अदृश्यमाने रुधिरे दद्याद्गुल्मप्रभेदनम्||१७८||

प्रवर्तमाने रुधिरे दद्यान्मांसरसौदनम्|
घृततैलेन चाभ्यङ्गं पानार्थं तरुणीं सुराम्||१७९||

रुधिरेऽतिप्रवृत्ते तु रक्तपित्तहरीः क्रियाः|
कार्या वातरुगार्तायाः सर्वा वातहरीः पुनः||१८०||

घृततैलावसेकांश्च तित्तिरींश्चरणायुधान्|
सुरां समण्डां पूर्वं च पानमम्लस्य सर्पिषः||१८१||

प्रयोजयेदुत्तरं वा जीवनीयेन सर्पिषा|
अतिप्रवृत्ते रुधिरे सतिक्तेनानुवासनम्||१८२||

श्लोक 183-189

तत्र श्लोकाः-
स्नेहः स्वेदः सर्पिर्बस्तिश्चूर्णानि बृंहणं गुडिकाः|
वमनविरेकौ मोक्षः क्षतजस्य च वातगुल्मवताम्||१८३||

सर्पिः सतिक्तसिद्धं क्षीरं प्रस्रंसनं निरूहाश्च|
रक्तस्य चावसेचनमाश्वासनसंशमनयोगाः||१८४||

उपनाहनं सशस्त्रं पक्वस्याभ्यन्तरप्रभिन्नस्य|
संशोधनसंशमने पित्तप्रभवस्य गुल्मस्य||१८५||

स्नेहः स्वेदो भेदो लङ्घनमुल्लेखनं विरेकश्च|
सर्पिर्बस्तिर्गुटिकाश्चूर्णमरिष्टाश्च सक्षाराः||१८६||

गुल्मस्यान्ते दाहः कफजस्याग्रेऽपनीतरक्तस्य|
गुल्मस्य रौधिरस्य क्रियाक्रमः स्त्रीभवस्योक्तः||१८७||

पथ्यान्नपानसेवा हेतूनां वर्जनं यथास्वं च|
नित्यं चाग्निसमाधिः स्निग्धस्य च सर्वकर्माणि||१८८||

हेतुर्लिङ्गं सिद्धिः क्रियाक्रमः साध्यता न योगाश्च|
गुल्मचिकित्सितसङ्ग्रह एतावान् व्याहृतोऽग्निवेशस्य||१८९||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने
गुल्मचिकित्सितं नाम पञ्चमोऽध्यायः||५||