गुल्मप्रतिषेधाध्यायः

श्लोक 1-2

अथातो गुल्मप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

यथोक्तैः कोपनैर्दोषाः कुपिताः कोष्ठमागताः |
जनयन्ति नृणां गुल्मं स पञ्चविध उच्यते ||३||

श्लोक 4

हृद्बस्त्योरन्तरे ग्रन्थिः सञ्चारी यदि वाऽचलः |
चयापचयवान् वृत्तः स गुल्म इति कीर्तितः ||४||

श्लोक 5

पञ्च गुल्माश्रया नॄणां पार्श्वे हृन्नाभिबस्तयः |५|

श्लोक 5-6

गुपितानिलमूलत्वाद्गूढमूलोदयादपि ||५||

गुल्मवद्वा विशालत्वाद्गुल्म इत्यभिधीयते |६|

श्लोक 6-7

स यस्मादात्मनि चयं गच्छत्यप्स्विव बुद्बुदः ||६||

अन्तः सरति यस्माच्च न पाकमुपयात्यतः |७|

श्लोक 7-8

स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितैः ||७||

पुरुषाणां तथा स्त्रीणां ज्ञेयो रक्तेन चापरः |८|

श्लोक 8-9

सदनं मदन्ता वह्नेराटोपोऽन्त्रविकूजनम् ||८||

विण्मूत्रानिलसङ्गश्च सौहित्यासहता तथा |
द्वेषोऽन्ने वायुरूर्ध्वं च पूर्वरूपेषु गुल्मिनाम् ||९||

श्लोक 10

हृत्कुक्षिशूलं मुखकण्ठशोषो वायोर्निरोधो विषमाग्निता च |
ते ते विकाराः पवनात्मकाश्च भवन्ति गुल्मेऽनिलसम्भवे तु ||१०||

श्लोक 11

स्वेदज्वराहारविदाहदाहास्तृष्णाऽङ्गरागः कटुवक्त्रता च |
पित्तस्य लिङ्गान्यखिलानि यानि पित्तात्मके तानि भवन्ति गुल्मे ||११||

श्लोक 12

स्तैमित्यमन्नेऽरुचिरङ्गसादश्छर्दिः प्रसेको मधुरास्यता च |
कफस्य लिङ्गानि च यानि तानि भवन्ति गुल्मे कफसम्भवे तु ||१२||

श्लोक 13

सर्वात्मकः सर्वविकारयुक्तः सोऽसाध्य उक्तः, … |१३|

श्लोक 13-15

… क्षतजं प्रवक्ष्ये |
नवप्रसूताऽहितभोजना या या चामगर्भं विसृजेदृतौ वा ||१३||

वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं सरुजं सदाहम् |
पैत्तस्य लिङ्गेन समानलिङ्गं विशेषणं चाप्यपरं निबोध ||१४||

न स्पन्दते नोदरमेति वृद्धिं भवन्ति लिङ्गानि च गर्भिणीनाम् |
तं गर्भकालातिगमे चिकित्स्यमसृग्भवं गुल्ममुशन्ति तज्ज्ञाः ||१५||

श्लोक 16

वातगुल्मार्दितं स्निग्धं युक्तं स्नेहविरेचनैः |
उपाचरेद्यथाकालं निरूहैः सानुवासनैः ||१६||

श्लोक 17

पित्तगुल्मार्दितं स्निग्धं काकोल्यादिघृतेन तु |
विरिक्तं मधुरैर्योगैर्निरूहैः समुपाचरेत् ||१७||

श्लोक 18

श्लेष्मगुल्मार्दितं स्निग्धं पिप्पल्यादिघृतेन तु |
तीक्ष्णैर्विरिक्तं तद्रूपैर्निरूहैः समुपाचरेत् ||१८||

श्लोक 19

सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः |१९|

श्लोक 19-21

पित्तवद्रक्तगुल्मिन्या नार्याः कार्यः क्रियाविधिः ||१९||

विशेषमपरं चास्याः शृणु रक्तविभेदनम् |
पलाशक्षारतोयेन सिद्धं सर्पिः प्रयोजयेत् ||२०||

दद्यादुत्तरबस्तिं च पिप्पल्यादिघृतेन तु |
उष्णैर्वा भेदयेद्भिन्ने विधिरासृग्दरो हितः ||२१||

श्लोक 22

आनूपौदकमज्जानो वसा तैलं घृतं दधि |
विपक्वमेकतः शस्तं वातगुल्मेऽनुवासनम् ||२२||

श्लोक 23

जाङ्गलैकशफानां तु वसा सर्पिश्च पैत्तिके |२३|

श्लोक 23

तैलं जाङ्गलमज्जान एवं गुल्मे कफोत्थिते ||२३||

श्लोक 24

धात्रीफलानां स्वरसे षडङ्गं विपचेद्घृतम् |
शर्करासैन्धवोपेतं तद्धितं वातगुल्मिने ||२४||

श्लोक 25-26

चित्रकव्योषसिन्धूत्थपृथ्वीकाचव्यदाडिमैः |
दीप्यकग्रन्थिकाजाजीहपुषाधान्यकैः समैः ||२५||

दध्यारनालबदरमूलकस्वरसैर्घृतम् |
तत्पिबेद्वातगुल्माग्निदौर्बल्याटोपशूलनुत् ||२६||

श्लोक 27-28

हिङ्गुसौवर्चलाजाजीविडदाडिमदीप्यकैः |
पुष्करव्योषधान्याम्लवेतसक्षारचित्रकैः ||२७||

शटीवचाजगन्धैलासुरसैश्च विपाचितम् |
शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम् ||२८||

श्लोक 29-30

विडदाडिमसिन्धूत्थहुतभुग्व्योषजीरकैः |
हिङ्गुसौवर्चलक्षाररुग्वृक्षाम्लाम्लवेतसैः ||२९||

बीजपूररसोपेतं सर्पिर्दधिचतुर्गुणम् |
साधितं दाधिकं नाम गुल्महृत् प्लीहशूलजित् ||३०||

श्लोक 31-33

रसोनस्वरसे सर्पिः पञ्चमूलरसान्वितम् |
सुरारनालदध्यम्लमूलकस्वरसैः सह ||३१||

व्योषदाडिमवृक्षाम्लयवानीचव्यसैन्धवैः |
हिङ्ग्वम्लवेतसाजाजीदीप्यकैश्च समांशिकैः ||३२||

सिद्धं गुल्मग्रहण्यर्शःश्वासोन्मादक्षयज्वरान् |
कासापस्मारमन्दाग्निप्लीहशूलानिलाञ्जयेत् ||३३||

श्लोक 34-35

दधि सौवीरकं सर्पिः क्वाथौ मुद्गकुलत्थजौ |
पञ्चाढकानि विपचेदावाप्य द्विपलान्यथ ||३४||

सौवर्चलं सर्जिकां च देवदार्वथ सैन्धवम् |
वातगुल्मापहं सर्पिरेतद्दीपनमेव च ||३५||

श्लोक 36-37

तृणमूलकषाये तु जीवनीयैः पचेद्घृतम् |
न्यग्रोधादिगणे वाऽपि गणे वाऽप्युत्पलादिके ||३६||

रक्तपित्तोत्थितं घ्नन्ति घृतान्येतान्यसंशयम् |३७|

श्लोक 37-38

आरग्वधादौ विपचेद्दीपनीययुतं घृतम् ||३७||

क्षारवर्गे पचेच्चान्यत् पचेन्मूत्रगणेऽपरम् |
घ्नन्ति गुल्मं कफोद्भूतं घृतान्येतान्यसंशयम् ||३८||

श्लोक 39

यथादोषोच्छ्रयं चापि चिकित्सेत्सान्निपातिकम् |३९|

श्लोक 39-40

चूर्णं हिङ्ग्वादिकं वाऽपि घृतं वा प्लीहनाशनम् ||३९||

पिबेद्गुल्मापहं काले सर्पिस्तैल्वकमेव वा |४०|

श्लोक 40-44

तिलेक्षुरकपालाशसार्षपं यावनालजम् ||४०||

भस्म मूलकजं चापि गोजाविखरहस्तिनाम् |
मूत्रेण महिषीणां च पालिकैश्चावचूर्णितैः ||४१||

कुष्ठसैन्धवयष्ट्याह्वनागरकृमिघातिभिः |
साजमोदैश्च दशभिः सामुद्राच्च पलैर्युतम् ||४२||

अयःपात्रेऽग्निनाऽल्पेन पक्त्वा लेह्य(ह)मथोद्धरेत् |
तस्य मात्रां पिबेद्दध्ना सुरया सर्पिषाऽपि वा ||४३||

धान्याम्लेनोष्णतोयेन कौलत्थेन रसेन वा |
गुल्मान् वातविकारांश्च क्षारोऽयं हन्त्यसंशयम् ||४४||

श्लोक 45

स्वर्जिकाकुष्ठसहितः क्षारः केतकिजोऽपि वा |
तैलेन शमयेत् पीतो गुल्मं पवनसम्भवम् ||४५||

श्लोक 46

पीतं सुखाम्बुना वाऽपि स्वर्जिकाकुष्ठसैन्धवम् |४६|

श्लोक 46-49

वृश्चीव(र)मुरुबूकं च वर्षाभूर्बृहतीद्वयम् ||४६||

चित्रकं च जलद्रोणे पक्त्वा पादावशेषितम् |
मागधीचित्रकक्षौद्रलिप्ते कुम्भे निधापयेत् ||४७||

मधुनः प्रस्थमावाप्य पथ्याचूर्णार्धसंयुतम् |
बुसोषितं दशाहं तु जीर्णभक्तः पिबेन्नरः ||४८||

अरिष्टोऽयं जयेद्गुल्ममविपाकमरोचकम् |४९|

श्लोक 49-52

पाठानिकुम्भरजनीत्रिकटुत्रिफलाग्निकम् ||४९||

लवणं वृक्षबीजं च तुल्यं स्यादनवो गुडः |
पथ्याभिर्वा युतं चूर्णं गवां मूत्रयुतं पचेत् ||५०||

गुटिकास्तद्घनीभूतं कृत्वा खादेदभुक्तवान् |
गुल्मप्लीहाग्निसादांस्ता नाशयेयुरशेषतः ||५१||

हृद्रोगं ग्रहणीदोषं पाण्डुरोगं च दारुणम् |५२|

श्लोक 52-53

सशूले सोन्नतेऽस्पन्दे दाहपाकरुगन्विते ||५२||

गुल्मे रक्तं जलौकोभिः सिरामोक्षेण वा हरेत् |५३|

श्लोक 53-54

सुखोष्णा जाङ्गलरसाः सुस्निग्धा व्यक्तसैन्धवाः ||५३||

कटुत्रिकसमायुक्ता हिताः पाने तु गुल्मिनाम् |५४|

श्लोक 54-55

पेया वातहरैः सिद्धाः कौलत्था संस्कृता रसाः ||५४||

खलाः सपञ्चमूलाश्च गुल्मिनां भोजने हिताः |५५|

श्लोक 55

बद्धवर्चोनिलानां तु सार्द्रकं क्षीरमिष्यते ||५५||

श्लोक 56

कुम्भीपिण्डेष्टकास्वेदान् कारयेत् कुशलो भिषक् |५६|

श्लोक 56-57

गुल्मिनः सर्व एवोक्ता दुर्विरेच्यतमा भृशम् ||५६||

अतश्चैतांस्तु सुस्विन्नान् स्रंसनेनोपपादयेत् |५७|

श्लोक 57-59

विम्लापनाभ्यञ्जनानि तथैव दहनानि च ||५७||

उपनाहाश्च कर्तव्याः सुखोष्णाः साल्वणादयः |
उदरोक्तानि सर्पींषि मूत्रवर्तिक्रियास्तथा ||५८||

लवणानि च योज्यानि यान्युक्तान्यनिलामये |५९|

श्लोक 59-60

वातवर्चोनिरोधे तु सामुद्रार्द्रकसर्षपैः ||५९||

कृत्वा पायौ विधातव्या वर्तयो मरिचोत्तराः |६०|

श्लोक 60-61

दन्तीचित्रकमूलेषु तथा वातहरेषु च ||६०||

कुर्यादरिष्टान् सर्वांश्च श्लोकस्थाने यथेरितान् |६१|

श्लोक 61

स्वादेद्वाऽप्यङ्कुरान् भृष्टान् पूतीकनृपवृक्षयोः ||६१||

श्लोक 62

ऊर्ध्ववातं मनुष्यं च गुल्मिनं न निरूहयेत् |६२|

श्लोक 62-63

पिबेत्त्रिवृन्नागरं वा सगुडां वा हरीतकीम् ||६२||

गुग्गुलुं त्रिवृतां दन्तीं द्रवन्तीं सैन्धवं वचाम् |
मूत्रमद्यपयोद्राक्षारसैर्वीक्ष्य बलाबलम् ||६३||

श्लोक 64

एवं पीलूनि भृष्टानि पिबेत् सलवणानि तु |६४|

श्लोक 64-65

पिप्पलीपिप्पलीमूलचव्यचित्रकसैन्धवैः ||६४||

युक्ता हन्ति सुरा गुल्मं शीघ्रं काले प्रयोजिता |६५|

श्लोक 65-66

बद्धविण्मारुतो गुल्मी भुञ्जीत पयसा यवान् ||६५||

कुल्माषान् वा बहुस्नेहान् भक्षयेल्लवणोत्तरान् |६६|

श्लोक 66-67

अथास्योपद्रवः शूलः कथञ्चिदुपजायते ||६६||

शूलं निखानितमिवासुखं येन तु वेत्त्यसौ |६७|

श्लोक 67-69

तत्र विण्मूत्रसंरोधः कृच्छ्रोच्छ्वासः स्थिराङ्गता ||६७||

तृष्णा दाहो भ्रमोऽन्नस्य विदग्धपरिवृद्धिता |
रोमहर्षोऽरुचिश्छर्दिर्भुक्तवृद्धिर्जडाङ्गता ||६८||

वाय्वादिभिर्यथासङ्ख्यं मिश्रैर्वा… |६९|

श्लोक 69-73

…वीक्ष्य योजयेत् |
पथ्यात्रिलवणं क्षारं हिङ्गुतुम्बुरुपौष्करम् ||६९||

यवानीं च हरिद्रां च विडङ्गान्यम्लवेतसम् |
विदारीत्रिफलाऽभीरुशृङ्गाटीगुडशर्कराः ||७०||

काश्मरीफलयष्ट्याह्वपरूषकहिमानि च |
षड्ग्रन्थातिविषादारुपथ्यामरिचवृक्षजान् ||७१||

कृष्णामूलकचव्यं च नागरक्षारचित्रकान् |
उष्णाम्लकाञ्जिकक्षीरतोयैः श्लोकसमापनान् ||७२||

यथाक्रमं विमिश्रांश्च द्वन्द्वे सर्वांश्च सर्वजे |७३|

श्लोक 73-75

तथैव सेकावगाहप्रदेहाभ्यङ्गभोजनम् ||७३||

शिशिरोदकपूर्णानां भाजनानां च धारणम् |
वमनोन्मर्दनस्वेदलङ्घनक्षपणक्रियाः ||७४||

स्नेहादिश्च क्रमः सर्वो विशेषेणोपदिश्यते |७५|

श्लोक 75-76

वल्लूरं मूलकं मत्स्यान् शुष्कशाकानि वैदलम् ||७५||

न खादेदालुकं गुल्मी मधुराणि फलानि च |७६|

श्लोक 76-77

विना गुल्मेन यच्छूलं गुल्मस्थानेषु जायते ||७६||

निदानं तस्य वक्ष्यामि रूपं च सचिकित्सितम् |७७|

श्लोक 77-80

वातमूत्रपुरीषाणां निग्रहादतिभोजनात् ||७७||

अजीर्णाध्यशनायासविरुद्धान्नोपसेवनात् |
पानीयपानात् क्षुत्काले विरूढानां च सेवनात् ||७८||

पिष्टान्नशुष्कमांसानामुपयोगात्तथैव च |
एवंविधानां द्रव्याणामन्येषां चोपसेवनात् ||७९||

वायुः प्रकुपितः कोष्ठे शूलं सञ्जनयेद्भृशम् |
निरुच्छ्वासी भवेत्तेन वेदनापीडितो नरः ||८०||

श्लोक 81

शङ्कुस्फोटनवत्तस्य यस्मात्तीव्राश्च वेदनाः |
शूलासक्तस्य लक्ष्यन्ते तस्माच्छूलमिहोच्यते ||८१||

श्लोक 82-83

निराहारस्य यस्यैव तीव्रं शूलमुदीर्यते |
प्रस्तब्धगात्रो भवति कृच्छ्रेणोच्छ्वसितीव च ||८२||

वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः |
एतैर्लिङ्गैर्विजानीयाच्छूलं वातसमुद्भवम् ||८३||

श्लोक 84-85

तृष्णा दाहो मदो मूर्च्छा तीव्रं शूलं तथैव च |
शीताभिकामो भवति शीतेनैव प्रशाम्यति ||८४||

एतैर्लिङ्गैर्विजानीयाच्छूलं पित्तसमुद्भवम् |८५|

श्लोक 85-86

शूलेनोत्पीड्यमानस्य हृल्लास उपजायते ||८५||

अतीव पूर्णकोष्ठत्वं तथैव गुरुगात्रता |
एतच्छ्लेष्मसमुत्थस्य शूलस्योक्तं निदर्शनम् ||८६||

श्लोक 87-88

सर्वाणि दृष्ट्वा रूपाणि निर्दिशेत्सान्निपातिकम् |
सन्निपातसमुत्थानमसाध्यं तं विनिर्दिशेत् ||८७||

शूलानां लक्षणं प्रोक्तं… |८८|

श्लोक 88-89

…चिकित्सां तु निबोध मे |
आशुकारी हि पवनस्तस्मात्तं त्वरया जयेत् ||८८||

तस्य शूलाभिपन्नस्य स्वेद एव सुखावहः |८९|

श्लोक 89

पायसैः कृशरापिण्डैः स्निग्धैर्वा पिशितैर्हितः ||८९||

श्लोक 90-91

त्रिवृच्छाकेन वा स्निग्धमुष्णं भुञ्जीत भोजनम् |
चिरबिल्वाङ्कुरान् वापि तैलभृष्टांस्तु भक्षयेत् ||९०||

वैहङ्गांश्च रसान् स्निग्धान् जाङ्गलान् शूलपीडितः |
यथालाभं निषेवेत मांसानि बिलशायिनाम् ||९१||

श्लोक 92

सुरा सौवीरकं चुक्रं मस्तूदश्वित्तथा दधि |
सकाललवणं पेयं शूले वातसमुद्भवे ||९२||

श्लोक 93

कुलत्थयूषो युक्ताम्लो लावकीयूषसंस्कृतः |
ससैन्धवः समरिचो वातशूलविनाशनः ||९३||

श्लोक 94-95

विडङ्गशिग्रुकम्पिल्लपथ्याश्यामाम्लवेतसान् |
सुरसामश्वमूत्रीं च सौवर्चलयुतान् पिबेत् ||९४||

मद्येन वातजं शूलं क्षिप्रमेव प्रशाम्यति |९५|

श्लोक 95-100

पृथ्वीकाजाजिचविकायवानीव्योषचित्रकाः ||९५||

पिप्पल्यः पिप्पलीमूलं सैन्धवं चेति चूर्णयेत् |
तानि चूर्णानि पयसा पिबेत् काम्बलिकेन वा ||९६||

मध्वासवेन चुक्रेण सुरासौवीरकेण वा |
अथवै(चै)तानि चूर्णानि मातुलुङ्गरसेन वा ||९७||

तथा बदरयूषेण भावितानि पुनः पुनः |
तानि हिङ्गुप्रगाढानि सह शर्करया पिबेत् ||९८||

सह दाडिमसारेण वर्तिः कार्या भिषग्जिता |
सा वर्तिर्वातिकं शूलं क्षिप्रमेव व्यपोहति ||९९||

गुडतैलेन वा लीढा पीता मद्येन वा पुनः |१००|

श्लोक 100-101

बुभुक्षाप्रभवे शूले लघु सन्तर्पणं हितम् ||१००||

उष्णैः क्षीरैर्यवागूभिः स्निग्धैर्मांसरसैस्तथा |१०१|

श्लोक 101-103

वातशूले समुत्पन्ने रूक्षं स्निग्धेन भोजयेत् ||१०१||

सुसंस्कृताः प्रदेयाः स्युर्घृतपूरा विशेषतः |
वारुणीं च पिबेज्जन्तुस्तथा सम्पद्यते सुखी ||१०२||

एतद्वातसमुत्थस्य शूलस्योक्तं चिकित्सितम् |१०३|

श्लोक 103-104

अथ पित्तसमुत्थस्य क्रियां वक्ष्याम्यतः परम् ||१०३||

स सुखं छर्दयित्वा तु पीत्वा शीतोदकं नरः |
शीतलानि च सेवेत सर्वाण्युष्णानि वर्जयेत् ||१०४||

श्लोक 105

मणिराजतताम्राणि भाजनानि च सर्वशः |
वारिपूर्णानि तान्यस्य शूलस्योपरि निक्षिपेत् ||१०५||

श्लोक 106-107

गुडः शालिर्यवाः क्षीरं सर्पिःपानं विरेचनम् |
जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् ||१०६||

रसान् सेवेत पित्तघ्नान् पित्तलानि विवर्जयेत् |
पालाशं धान्वनं वाऽपि पिबेद्यूषं सशर्करम् ||१०७||

श्लोक 108

परुषकाणि मृद्वीकाखर्जूरोदकजान्यपि |
तत् पिबेच्छर्करायुक्तं पित्तशूलनिवारणम् ||१०८||

श्लोक 109

अशने भुक्तमात्रे तु प्रकोपः श्लैष्मिकस्य च |
वमनं कारयेत्तत्र पिप्पलीवारिणा भिषक् ||१०९||

श्लोक 110

रूक्षः स्वेदः प्रयोज्यः स्यादन्याश्चोष्णाः क्रिया हिताः |
पिप्पली शृङ्गवेरं च श्लेष्मशूले भिषग्जितम् ||११०||

श्लोक 111

पाठां वचां त्रिकटुकं तथा कटुकरोहिणीम् |
चित्रकस्य च निर्यूहे पिबेद्यूषं सहार्जकम् ||१११||

श्लोक 112-115

एरण्डफलमूलानि मूलं गोक्षुरकस्य च |
शालपर्णीं पृश्निपर्णीं बृहतीं कण्टकारिकाम् ||११२||

दद्याच्छृगालविन्नां च सहदेवां तथैव च |
महासहां क्षुद्रसहां मूलमिक्षुरकस्य च ||११३||

एतत् सम्भृत्य सम्भारं जलद्रोणे विपाचयेत् |
चतुर्भागावशेषं तु यवक्षारयुतं पिबेत् ||११४||

वातिकं पैत्तिकं वाऽपि श्लैष्मिकं सान्निपातिकम् |
प्रसह्य नाशयेच्छूलं छिन्नाभ्रमिव मारुतः ||११५||

श्लोक 116-117

पिप्पली स्वर्जिकाक्षारो यवाश्चित्रक एव च |
सेव्यं चैतत् समानीय भस्म कुर्याद्विचक्षणः ||११६||

तदुष्णवारिणा पीतं श्लेष्मशूले भिषग्जितम् |११७|

श्लोक 117-119

रुणद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः ||११७||

स संरुद्धः करोत्याशु साध्मानं गुड्गुडायनम् |
सूचीभिरिव निस्तोदं कृच्छ्रोच्छ्वासी तदा नरः ||११८||

नान्नं वाञ्छति नो निद्रामुपैत्यर्तिनिपीडितः |
पार्श्वशूलः स विज्ञेयः कफानिलसमुद्भवः ||११९||

श्लोक 120-123

तत्र पुष्करमूलानि हिङ्गु सौवर्चलं विडम् |
सैन्धवं तुम्बुरुं पथ्यां चूर्णं कृत्वा तु पाययेत् ||१२०||

पार्श्वहृद्बस्तिशूलेषु यवक्वाथेन संयुतम् |
सर्पिः प्लीहोदरोक्तं वा घृतं वा हिङ्गुसंयुतम् ||१२१||

बीजपूरकसारं वा पयसा सह साधितम् |
एरण्डतैलमथवा मद्यमस्तुपयोरसैः ||१२२||

भोजयेच्चापि पयसा जाङ्गलेन रसेन वा |१२३|

श्लोक 123-125

प्रकुप्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः ||१२३||

तदाऽस्य भोजनं भुक्तं सोपस्तम्भं न पच्यते |
उच्छ्वसित्यामशकृता शूलेनाहन्यते मुहुः ||१२४||

नैवासने न शयने तिष्ठन् वा लभते सुखम् |
कुक्षिशूल इति ख्यातो वातादामसमुद्भवः ||१२५||

श्लोक 126

वमनं कारयेत्तत्र लङ्घयेद्वा यथाबलम् |
संसर्गपाचनं कुर्यादम्लैर्दीपनसंयुतैः ||१२६||

श्लोक 127-128

नागरं दीप्यकं चव्यं हिङ्गु सौवर्चलं विडम् |
मातुलुङ्गस्य बीजानि तथा श्यामोरुबूकयोः ||१२७||

बृहत्याः कण्टकार्याश्च क्वाथं शूलहरं पिबेत् |१२८|

श्लोक 128-129

वचा सौवर्चलं हिङ्गु कुष्ठं सातिविषाऽभया ||१२८||

कुटजस्य च बीजानि सद्यःशूलहराणि तु |
विरेचने प्रयुञ्जीत ज्ञात्वा दोषबलाबलम् ||१२९||

श्लोक 130

स्नेहबस्तीन्निरूहांश्च कुर्याद्दोषनिबर्हणान् |१३०|

श्लोक 130-131

उपनाहाः स्नेहसेका धान्याम्लपरिषेचनम् ||१३०||

अवगाहाश्च शस्यन्ते यच्चान्यदपि तद्धितम् |१३१|

श्लोक 131-132

कफपित्तावरुद्धस्तु मारुतो रसमूर्च्छितः ||१३१||

हृदिस्थः कुरुते शूलमुच्छ्वासारोधकं परम् |
स हृच्छूल इति ख्यातो रसमारुतसम्भवः ||१३२||

श्लोक 133

तत्रापि कर्माभिहितं यदुक्तं हृद्विकारिणाम् |१३३|

श्लोक 133-134

संरोधात् कुपितो वायुर्बस्तिमावृत्य तिष्ठति ||१३३||

बस्तिवङ्क्षणनाभीषु ततः शूलोऽस्य जायते |
विण्मूत्रवातसंरोधी बस्तिशूलः स मारुतात् ||१३४||

श्लोक 135

नाभ्यां वङ्क्षणपार्श्वेषु कुक्षौ मेढ्रान्त्रमर्दकः |
मूत्रमावृत्य गृह्णाति मूत्रशूलः स मारुतात् ||१३५||

श्लोक 136-139

वायुः प्रकुपितो यस्य रूक्षाहारस्य देहिनः |
मलं रुणद्धि कोष्ठस्थं मन्दीकृत्य तु पावकम् ||१३६||

शूलं सञ्जनयंस्तीव्रं स्रोतांस्यावृत्य तस्य हि |
दक्षिणं यदि वा वामं कुक्षिमादाय जायते ||१३७||

सर्वत्र वर्धते क्षिप्रं भ्रमन्नथ सघोषवान् |
पिपासा वर्धते तीव्रा भ्रमो मूर्च्छा च जायते ||१३८||

उच्चारितो मूत्रितश्च न शान्तिमधिगच्छति |
विट्शूलमेतज्जानीयाद्भिषक् परमदारुणम् ||१३९||

श्लोक 140-141

क्षिप्रं दोषहरं कार्यं भिषजा साधु जानता |
स्वेदनं शमनं चैव निरूहाः स्नेहबस्तयः ||१४०||

पूर्वोद्दिष्टान् पाययेत योगान् कोष्ठविशोधनान् |
उदावर्तहराश्चास्य क्रियाः सर्वाः सुखावहाः ||१४१||

श्लोक 142-144

अतिमात्रं यदा भुक्तं पावके मृदुतां गते |
स्थिरीभूतं तु तत्कोष्ठे वायुरावृत्य तिष्ठति ||१४२||

अविपाकगतं ह्यन्नं शूलं तीव्रं करोत्यति |
मूर्च्छाऽऽध्मानं विदाहश्च हृदुत्क्लेशो विलम्बिका ||१४३||

विरिच्यते छर्दयति कम्पतेऽथ विमुह्यति |
अविपाकाद्भवेच्छूलस्त्वन्नदोषसमुद्भवः ||१४४||

श्लोक 145

वमनं लङ्घनं स्वेदः पाचनं फलवर्तयः |
क्षाराश्चूर्णानि गुटिकाः शस्यन्ते शूलनाशनाः ||१४५||

श्लोक 146

गुल्मावस्थाः क्रियाः कार्या यथावत् सर्वशूलिनाम् ||१४६||

पुष्पिका

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय चिकित्सातन्त्रे गुल्मप्रतिषेधो नाम (चतुर्थोऽध्यायः, आदितः) द्विचत्वारिंशोऽध्यायः ||४२||