ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितम्

श्लोक 1-3

अथातो ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

ग्रन्थिष्वथामेषु भिषग्विदध्याच्छोफक्रियां विस्तरशो विधिज्ञः |
रक्षेद्बलं चापि नरस्य नित्यं
तद्रक्षितं व्याधिबलं निहन्ति ||३||

श्लोक 4

तैलं पिबेत् सर्पिरथो द्वयं वा
दत्त्वा वसां वा त्रिवृतं विदध्यात् |
अपेहिवातादशमूलसिद्धं
वैद्यश्चतुःस्नेहमथो द्वयं वा ||४||

श्लोक 5-8

हिंस्राऽथ रोहिण्यमृताऽथ भार्गी
श्योनाकबिल्वागुरुकृष्णगन्धाः |
गोजी च पिष्टा सह तालपत्र्या
ग्रन्थौ विधेयोऽनिलजे प्रलेपः ||५||

स्वेदोपनाहान् विविधांश्च कुर्यात्तथा प्रसिद्धानपरांश्च लेपान् |
विदार्य वा पक्वमपोह्य पूयं
प्रक्षाल्य बिल्वार्कनरेन्द्रतोयैः ||६||

तिलैः सपञ्चाङ्गुलपत्रमिश्रैः
संशोधयेत् सैन्धवसम्प्रयुक्तैः |
शुद्धं व्रणं वाऽप्युपरोपयेत्तु
तैलेन रास्नासरलान्वितेन ||७||

विडङ्गयष्टीमधुकामृताभिः
सिद्धेन वा क्षीरसमन्वितेन |८|

श्लोक 8-11

जलौकसः पित्तकृते हितास्तु
क्षीरोदकाभ्यां परिषेचनं च ||८||

काकोलिवर्गस्य च शीतलानि
पिबेत् कषायाणि सशर्कराणि |
द्राक्षारसेनेक्षुरसेन वाऽपि
चूर्णं पिबेच्चापि हरीतकीनाम् ||९||

मधूकजम्ब्वर्जुनवेतसानां
त्वग्भिः प्रदेहानवचारयेत |
सशर्करैर्वा तृणशून्यकन्दैर्दिह्यादभीक्ष्णं मुचुलुन्दजैर्वा ||१०||

विदार्य वा पक्वमपोह्य पूयं
धावेत् कषायेण वनस्पतीनाम् |
तिलैः सयष्टीमधुकैर्विशोध्य
सर्पिः प्रयोज्यं मधुरैर्विपक्वम् ||११||

श्लोक 12-13

हृतेषु दोषेषु यथानुपूर्व्या
ग्रन्थौ भिषक् श्लेष्मसमुत्थिते तु |
स्विन्नस्य विम्लापनमेव कुर्यादङ्गुष्ठलोहोपलवेणुदण्डैः ||१२||

विकङ्कतारग्वधकाकणन्तीकाकादनीतापसवृक्षमूलैः |
आलेपयेत् पिण्डफलार्कभार्गीकरञ्जकालामदनैश्च विद्वान् ||१३||

श्लोक 14

अमर्मजातं शममप्रयान्तमपक्वमेवापहरेद्विदार्य |
दहेत् स्थिते चासृजि सिद्धकर्मा
सद्यःक्षतोक्तं च विधिं विदध्यात् ||१४||

श्लोक 15-16

या मांसकन्द्यः कठिना बृहत्यस्तास्वेष योज्यश्च विधिर्विधिज्ञैः |
शस्त्रेण वाऽऽपाट्य सुपक्वमाशु
प्रक्षालयेत् पथ्यतमैः कषायैः ||१५||

संशोधनैस्तं च विशोधयेत्तु
क्षारोत्तरैः क्षौद्रगुडप्रगाढैः |
शुद्धे च तैलं त्ववचारणीयं
विडङ्गपाठारजनीविपक्वम् ||१६||

श्लोक 17-20

मेदःसमुत्थे तिलकल्कदिग्धं
दत्त्वोपरिष्टाद्द्विगुणं पटान्तम् |
हुताशतप्तेन मुहुः प्रमृज्याल्लोहेन धीमानदहन् हिताय ||१७||

प्रलिप्य दार्वीमथ लाक्षया वा
प्रतप्तया स्वेदनमस्य कार्यम् |
निपात्य वा शस्त्रमपोह्य मेदो
दहेत् सुपक्वं त्वथवा विदार्य ||१८||

प्रक्षाल्य मूत्रेण तिलैः सुपिष्टैः
सुवर्चिकाद्यैर्हरितालमिश्रैः |
ससैन्धवैः क्षौद्रघृतप्रगाढैः
क्षारोत्तरैरेनमभिप्रशोध्य ||१९||

तैलं विदद्याद्द्विकरञ्जगुञ्जावंशावलेखेङ्गुदमूत्रसिद्धम् |२०|

श्लोक 20-23

जीमूतकैः कोशवतीफलैश्च
दन्तीद्रवन्तीत्रिवृतासु चैव ||२०||

सर्पिः कृतं हन्त्यपचीं प्रवृद्धां
द्विधा प्रवृत्तं तदुदारवीर्यम् |
निर्गुण्डिजातीबरिहिष्ठयुक्तं
जीमूतकं माक्षिकसैन्धवाढ्यम् ||२१||

अभिप्रतप्तं वमनं प्रगाढं
दुष्टापचीषूत्तममादिशन्ति |
कैडर्यबिम्बीकरवीरसिद्धं
तैलं हितं मूर्धविरेचनं च ||२२||

शाखोटकस्य स्वरसेन सिद्धं
तैलं हितं नस्यविरेचनेषु |
मधूकसारश्च हितोऽवपीडे
फलानि शिग्रोः खरमञ्जरेर्वा ||२३||

श्लोक 24

ग्रन्थीनमर्मप्रभवानपक्वानुद्धृत्य चाग्निं विदधीत पश्चात् |
क्षारेण वाऽपि प्रतिसारयेत्तु
संलिख्य शस्त्रेण यथोपदेशम् ||२४||

श्लोक 25-26

पार्ष्णिं प्रति द्वे दश चाङ्गुलानि
मित्वेन्द्रबस्तिं परिवर्ज्य धीमान् |
विदार्य मत्स्याण्डनिभानि वैद्यो
निष्कृष्य जालान्यनलं विदध्यात् ||२५||

आ गुल्फकर्णात् सुमितस्य जन्तोस्तस्याष्टभागं खुडकाद्विभज्य |
घोणर्जुवेधः सुरराजबस्तेर्हित्वाऽक्षिमात्रं त्वपरे वदन्ति ||२६||

श्लोक 27

मणिबन्धोपरिष्टाद्वा कुर्याद्रेखात्रयं भिषक् |
अङ्गुल्यन्तरितं सम्यगपचीनां निवृत्तये ||२७||

श्लोक 28-29

चूर्णस्य काले प्रचलाककाकगोधाहिकूर्मप्रभवां मसीं तु |
दद्याच्च तैलेन सहेङ्गुदीनां
यद्वक्ष्यते श्लीपदिनां च तैलम् ||२८||

विरेचनं धूममुपाददीत
भवेच्च नित्यं यवमुद्गभोजी |२९|

श्लोक 29-31

कर्कारुकैर्वारुकनारिकेलप्रियालपञ्चाङ्गुलबीजचूर्णैः ||२९||

वातार्बुदं क्षीरघृताम्बुसिद्धैरुष्णैः सतैलैरुपनाहयेत्तु |
कुर्याच्च मुख्यान्युपनाहनानि
सिद्धैश्च मांसैरथ वेसवारैः ||३०||

स्वेदं विदध्यात् कुशलस्तु नाड्या
शृङ्गेण रक्तं बहुशो हरेच्च |
वातघ्ननिर्यूहपयोम्लभागैः
सिद्धं शताख्यं त्रिवृतं पिबेद्वा ||३१||

श्लोक 32-34

स्वेदोपनाहा मृदवस्तु कार्याः पित्तार्बुदे कायविरेचनं च |
विघृष्य चोदुम्बरशाकगोजीपत्रैर्भृशं क्षौद्रयुतैः प्रलिम्पेत् ||३२||

श्लक्ष्णीकृतैः सर्जरसप्रियङ्गुपत्तङ्गरोध्राञ्जनयष्टिकाह्वैः |
विस्राव्य चारग्वधगोजिसोमाः श्यामा च योज्या कुशलेन लेपे ||३३||

श्यामागिरिह्वाञ्जनकीरसेषु द्राक्षारसे सप्तलिकारसे च |
घृतं पिबेत् क्लीतकसम्प्रसिद्धं पित्तार्बुदी तज्जठरी च जन्तुः ||३४||

श्लोक 35-36

शुद्धस्य जन्तोः कफजेऽर्बुदे तु रक्तेऽवसिक्ते तु ततोऽर्बुदं तत् |
द्रव्याणि यान्यूर्ध्वमधश्च दोषान् हरन्ति तैः कल्ककृतैः प्रदिह्यात् ||३५||

कपोतपारावतविड्विमिश्रैः सकांस्यनीलैः शुकलाङ्गलाख्यैः |
मूत्रैस्तु काकादनिमूलमिश्रैः क्षारप्रदिग्धैरथवा प्रदिह्यात् ||३६||

श्लोक 37-40

निष्पावपिण्याककुलत्थकल्कैर्मांसप्रगाढैर्दधिमस्तुयुक्तैः |
लेपं विदध्यात् कृमयो यथाऽत्र
मूर्च्छन्ति मुञ्चन्त्यथ मक्षिकाश्च ||३७||

अल्पावशिष्टे कृमिभक्षिते च
लिखेत्ततोऽग्निं विदधीत पश्चात् |
यदल्पमूलं त्रपुताम्रसीसपट्टैः समावेष्ट्य तदायसैर्वा ||३८||

क्षाराग्निशस्त्राण्यसकृद्विदध्यात्
प्राणानहिंसन् भिषगप्रमत्तः |
आस्फोतजातीकरवीरपत्रैः
कषायमिष्टं व्रणशोधनार्थम् ||३९||

शुद्धे च तैलं विदधीत भार्गीविडङ्गपाठात्रिफलाविपक्वम् |
यदृच्छया चोपगतानि पाकं
पाकक्रमेणोपचरेद्विधिज्ञः ||४०||

श्लोक 41-43

मेदोर्बुदं स्विन्नमथो विदार्य
विशोध्य सीव्येद्गतरक्तमाशु |
ततो हरिद्रागृहधूमरोध्रपतङ्गचूर्णैः समनःशिलालैः ||४१||

व्रणं प्रतिग्राह्य मधुप्रगाढैः
करञ्जतैलं विदधीत शुद्धे |
सशेषदोषाणि हि योऽर्बूदानि
करोति तस्याशु पुनर्भवन्ति ||४२||

तस्मादशेषाणि समुद्धरेत्तु
हन्युः सशेषाणि यथा हि वह्निः |४३|

श्लोक 43-47

संस्वेद्य गण्डं पवनोत्थमादौ
नाड्याऽनिलघ्नौषधपत्रभङ्गैः ||४३||

अम्लैः समूत्रैर्विविधैः पयोभिरुष्णैः सतैलैः पिशितैश्च विद्वान् |
विस्रावयेत् स्विन्नमतन्द्रितश्च
शुद्धं व्रणं चाप्युपनाहयेत्तु ||४४||

शणातसीमूलकशिग्रुकिण्वप्रियालमज्जानुयुतैस्तिलैस्तु |
कालामृताशिग्रुपुनर्नवार्कगजादिनामाकरहाटकुष्ठैः ||४५||
एकैषिकावृक्षकतिल्वकैश्च
सुराम्लपिष्टैरसकृत् प्रदिह्यात् ||४६||

तैलं पिबेच्चामृतवल्लिनिम्बहंसाह्वयावृक्षकपिप्पलीभीः |
सिद्धं बलाभ्यां च सदेवदारु
हिताय नित्यं गलगण्डरोगे ||४७||

श्लोक 48-50

स्वेदोपनाहैः कफसम्भवं तु
संस्वेद्य विस्रावणमेव कुर्यात् |
ततोऽजगन्धातिविषाविशल्याविषाणिकाकुष्ठशुकाह्वयाभिः ||४८||

पलाशभस्मोदकपेषिताभिर्दिह्यात् सुगुञ्जाभिरशीतलाभिः |
दशार्धसङ्ख्यैर्लवणैश्च युक्तं
तैलं पिबेन्मागधिकादिसिद्धम् ||४९||

प्रच्छर्दनं मूर्धविरेचनं च
धूमश्च वैरेचनिको हितस्तु |
पाकक्रमो वाऽपि सदा विधेयो
वैद्येन पाकङ्गतयोः कथञ्चित् ||५०||

श्लोक 51

कटुत्रिकक्षौद्रयुताः समूत्रा
भक्ष्या यवान्नानि रसाश्च मौद्गाः |
सशृङ्गवेराः सपटोलनिम्बा
हिताय देया गलगण्डरोगे ||५१||

श्लोक 52-55

मेदःसमुत्थे तु यथोपदिष्टां
विध्येत् सिरां स्निग्धतनोर्नरस्य |
श्यामासुधालोहपुरीषदन्तीरसाञ्जनैश्चापि हितः प्रदेहः ||५२||

मूत्रेण वाऽऽलोड्य हिताय सारं
प्रातः पिबेत् सालमहीरुहाणाम् |
शस्त्रेण वाऽऽपाट्य विदार्य चैनं
मेदः समुद्धृत्य हिताय सीव्येत् ||५३||

मज्जाज्यमेदोमधुभिर्दहेद्वा
दग्धे च सर्पिर्मधु चावचार्यम् |
कासीसतुत्थे च ततोऽत्र देये
चूर्णीकृते रोचनया समेते ||५४||

तैलेन चाभ्यज्य हिताय दद्यात्
सारोद्भवं गोमयजं च भस्म |
हितश्च नित्यं त्रिफलाकषायो
गाढश्च बन्धो यवभोजनं च ||५५||

पुष्पिका

इति सुश्रुतसंहितायां चिकित्सास्थाने ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितं नामाष्टादशोऽध्यायः ||१८||