चिकित्साप्राभृतीयोऽध्यायः

श्लोक 1-2

अथातश्चिकित्साप्राभृतीयमध्यायं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः||२||

श्लोक 3-4

चिकित्साप्राभृतो धीमान् शास्त्रवान् कर्मतत्परः| नरं विरेचयति यं स योगात् सुखमश्नुते ||३||
यं वैद्यमानी त्वबुधो विरेचयति मानवम् । सोऽतियोगादयोगाच्च मानवो दुःखमश्नुते ||४||

श्लोक 5-10

दौर्बल्यं लाघवं ग्लानिर्व्याधीनामणुता रुचिः । हृद्वर्णशुद्धिः क्षुत्तृष्णा काले वेगप्रवर्तनम्||५||
बुद्धीन्द्रियमनः शुद्धिर्मारुतस्यानुलोमता | सम्यग्विरिक्तलिङ्गानि कायाग्नेश्चानुवर्तनम् [१] ||६||
ष्ठीवनं हृदयाशुद्धिरुत्क्लेशः श्लेष्मपित्तयोः | आध्मानमरुचिश्छर्दिरदौर्बल्यमलाघवम्||७||
जङ्घोरुसदनं तन्द्रा स्तैमित्यं पीनसागमः। लक्षणान्यविरिक्तानां मारुतस्य च निग्रहः ||८||
विपित्तकफवातानामागतानां यथाक्रमम्। परं स्रवति यद्रक्तं मेदोमांसोदकोपमम्||९||
निःश्लेष्मपित्तमुदकं शोणितं कृष्णमेव वा। तृष्यतो मारुतार्तस्य सोऽतियोगः प्रमुह्यतः ||१०||

श्लोक 11-12

वमनेऽतिकृते लिङ्गान्येतान्येव भवन्ति हि । ऊर्ध्वगा वातरोगाश्च वाग्ग्रहश्चाधिको भवेत् || ११||
चिकित्साप्राभृतं तस्मादुपेयाच्छरणं नरः ।
युञ्ज्याद् य एनमत्यन्तमायुषा च सुखेन च ||१२||

श्लोक 13-19

अविपाकोऽरुचिः स्थौल्यं पाण्डुता गौरवं क्लमः | पिडकाकोठकण्डूनां सम्भवोऽरतिरेव च||१३||
आलस्य श्रमदौर्बल्यं दौर्गन्ध्यमवसादकः । श्लेष्मपित्तसमुत्क्लेशो निद्रानाशोऽतिनिद्रता||१४||
तन्द्रा क्लैब्यमबुद्धित्वमशस्तस्वप्नदर्शनम्। बलवर्णप्रणाशश्च तृप्यतो बृंहणैरपि||१५||
बहुदोषस्य लिङ्गानि तस्मै संशोधनं हितम्। ऊर्ध्वं चैवानुलोमं च यथादोषं यथाबलम्||१६||
एवं विशुद्धकोष्ठस्य कायाग्निरभिवर्धते । व्याधयश्चोपशाम्यन्ति प्रकृतिश्चानुवर्तते||१७||
इन्द्रियाणि मनोबुद्धिर्वर्णश्चास्य प्रसीदति। बलं पुष्टिरपत्यं च वृषता चास्य जायते||१८||
जरां कृच्छ्रेण लभते चिरं जीवत्यनामयः । तस्मात् संशोधनं काले युक्तियुक्तं पिबेन्नरः||१९||

श्लोक 20-21

दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः| जिताः संशोधनैर्ये तु न तेषां पुनरुद्भवः ||२०||
दोषाणां च द्रुमाणां च मूलेऽनुपहते सति । रोगाणां प्रसवानां च गतानामागतिर्ध्रुवा||२१||

श्लोक 22-23

भेषजक्षपिते पथ्यमाहारैरेव बृंहणम्। घृतमांसरस क्षीरहृद्ययूषोपसंहितैः||२२||
अभ्यङ्गोत्सादनैः स्नानैर्निरूहैः सानुवासनैः|
तथा स लभते शर्म युज्यते चायुषा चिरम् ||२३||

श्लोक 24-26

अतियोगानुबद्धानां सर्पिःपानं प्रशस्यते। तैलं मधुरकैः सिद्धमथवाऽप्यनुवासनम्||२४||
यस्य त्वयोगस्तं स्निग्धं पुनः संशोधयेन्नरम् | मात्राकालबलापेक्षी स्मरन् पूर्वमनुक्रमम्||२५||
स्नेहने स्वेदने शुद्धौ रोगाः संसर्जने च ये। जायन्तेऽमार्गविहिते तेषां सिद्धिषु साधनम्||२६||

श्लोक 27

जायन्ते [१] हेतुवैषम्याद्विषमा देहधातवः । हेतुसाम्यात् समास्तेषां स्वभावोपरमः सदा||२७||

श्लोक 28

प्रवृत्तिहेतुर्भावानां न निरोधेऽस्ति कारणम्। केचित्तत्रापि मन्यन्ते हेतुं हेतोरवर्तनम् ||२८||

श्लोक 29-30

एवमुक्तार्थमाचार्यमग्निवेशोऽभ्यभाषत।
स्वभावोपरमे कर्म चिकित्साप्राभृतस्य किम्||२९||
भेषजैर्विषमान् धातून् कान् समीकुरुते भिषक् | का वा चिकित्सा भगवन्! किमर्थं वा प्रयुज्यते||३०||

श्लोक 31-33

तच्छिष्यवचनं श्रुत्वा व्याजहार पुनर्वसुः। श्रूयतामत्र या सोम्य ! युक्तिर्दृष्टा महर्षिभिः ||३१||
न नाशकारणाभावाद्भावानां नाशकारणम्। ज्ञायते नित्यगस्येव कालस्यात्ययकारणम्||३२||
शीघ्रगत्वाद्यथा भूतस्तथा भावो विपद्यते|३३|

श्लोक 33

निरोधे कारणं तस्य नास्ति नैवान्यथाक्रिया||३३||

श्लोक 34-36

याभिः [१] क्रियाभिर्जायन्ते शरीरे धातवः समाः। सा चिकित्सा विकाराणां कर्म तद्भिषजां स्मृतम्||३४||
कथं शरीरे धातूनां वैषम्यं न भवेदिति ।
समानां चानुबन्धः स्यादित्यर्थं क्रियते क्रिया||३५||
त्यागाद्विषमहेतूनां समानां चोपसेवनात्। विषमा नानुबध्नन्ति जायन्ते धातवः समाः ||३६||

श्लोक 37-38

समैस्तु हेतुभिर्यस्माद्धातून् सञ्जनयेत् समान्| चिकित्साप्राभृतस्तस्माद्दाता देहसुखायुषाम्||३७||
धर्मस्यार्थस्य कामस्य नृलोकस्योभयस्य च। दाता सम्पद्यते वैद्यो दानाद्देहसुखायुषाम्||३८||

श्लोक 39-41

तत्र श्लोकाः-
चिकित्साप्राभृतगुणो दोषो यश्चेतराश्रयः। योगायोगातियोगानां लक्षणं शुद्धिसंश्रयम् ||३९||
बहुदोषस्य लिङ्गानि संशोधनगुणाश्च ये। चिकित्सासूत्रमात्रं च सिद्धिव्यापत्तिसंश्रयम्||४०||
या च युक्तिश्चिकित्सायां यं चार्थं कुरुते भिषक्| चिकित्साप्राभृतेऽध्याये तत् सर्वमवदन्मुनिः||४१||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने चिकित्साप्राभृतीयो नाम षोडशोऽध्यायः||१६||
समाप्तः कल्पनाचतुष्कः ||४||