चिकित्सितप्रविभागविज्ञानीयाध्यायः

श्लोक 1-2

अथातश्चिकित्सितप्रविभागविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः (सुश्रुताय) ||२||

श्लोक 3

षट्सप्ततिर्येऽभिहिता व्याधयो नामलक्षणैः |
चिकित्सितमिदं तेषां समासव्यासतः शृणु ||३||

श्लोक 4-5

छेद्यास्तेषु दशैकश्च नव लेख्याः प्रकीर्तिताः |
भेद्याः पञ्च विकाराः स्युर्व्यध्याः पञ्चदशैव तु ||४||

द्वादशाऽशस्त्रकृत्याश्च याप्याः सप्त भवन्ति हि |
रोगा वर्जयितव्याः स्युर्दश पञ्च च जानता |
असाध्यौ वा भवेतां तु याप्यौ चागन्तुसञ्ज्ञितौ ||५||

श्लोक 6

अर्शोऽन्वितं भवति वर्त्म तु यत्तथाऽर्शः शुष्कं तथाऽर्बुदमथो पिडकाः  सिराजाः |
जालं सिराजमपि पञ्चविधं तथाऽर्म छेद्या भवन्ति सह पर्वणिकामयेन  ||६||

श्लोक 7

उत्साङ्गिनी बहलकर्दमवर्त्मनी च श्यावं च यच्च पठितं त्विह बद्धवर्त्म |
क्लिष्टं च पोथकियुतं खलु यच्च वर्त्म कुम्भीकिनी च सह शर्करया च  लेख्याः ||७||

श्लोक 8

श्लेष्मोपनाहलगणौ च बिसं च भेद्या ग्रन्थिश्च यः  कृमिकृतोऽञ्जननामिका च |८|

श्लोक 8-9

आदौ सिरा निगदितास्तु ययोः प्रयोगे पाकौ च यौ नयनयोः  पवनोऽन्यतश्च ||८||

पूयालसानिलविपर्ययमन्थसञ्ज्ञाः स्यन्दास्तु यान्त्युपशमं हि  सिराव्यधेन |९|

श्लोक 9-10

शुष्काक्षिपाककफपित्तविदग्धदृष्टिष्वम्लाख्यशुक्रसहितार्जुनपिष्टकेषु  ||९||

अक्लिन्नवर्त्महुतभुग्ध्वजदर्शिशुक्तिप्रक्लिन्नवर्त्मसु तथैव बलाससञ्ज्ञे |
आगन्तुनाऽऽमययुगेन च दूषितायां दृष्टौ न शस्त्रपतनं प्रवदन्ति तज्ज्ञाः  ||१०||

श्लोक 11

सम्पश्यतः षडपि येऽभिहितास्तु काचास्ते पक्ष्मकोपसहितास्तु  भवन्ति याप्याः |११|

श्लोक 11

चत्वार एव पवनप्रभवास्त्वसाध्या द्वौ पित्तजौ कफनिमित्तज एक एव |
अष्टार्धका रुधिरजाश्च गदास्त्रिदोषास्तावन्त एव गदितावपि बाह्यजौ  द्वौ ||११||

पुष्पिका

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे
चिकित्सितप्रविभागविज्ञानीयो नामाष्टमोऽध्यायः ||८||