छायाविप्रतिपत्त्यध्यायः

श्लोक 1-2

अथातश्छायाविप्रतिपत्तिमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

श्यावा लोहितिका नीला पीतिका वाऽपि मानवम् |
अभिद्रवन्ति यं छायाः स परासुरसंशयम् ||३||

श्लोक 4

ह्रीरपक्रमते यस्य प्रभास्मृतिधृतिश्रियः |
अकस्माद्यं भजन्ते वा स गतासुरसंशयम् ||४||

श्लोक 5-10

यस्याधरौष्ठः पतितः क्षिप्तश्चोर्ध्वं तथोत्तरः |
उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम् ||५||

आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा |
खञ्जनप्रतिमा वाऽपि तं गतायुषमादिशेत् ||६||

कृष्णा स्तब्धाऽवलिप्ता वा जिह्वा शूना च यस्य वै |
कर्कशा वा भवेद्यस्य सोऽचिराद्विजहात्यसून् ||७||

कुटिला स्फुटिता वाऽपि शुष्का वा यस्य नासिका |
अवस्फूर्जति मग्ना वा न स जीवति मानवः ||८||

सङ्क्षिप्ते विषमे स्तब्धे रक्ते स्रस्ते च लोचने |
स्यातां वा प्रस्रुते यस्य स गतायुर्नरो ध्रुवम् ||९||

केशाः सीमन्तिनो यस्य सङ्क्षिप्ते विनते भ्रुवौ |
लुण्डन्ति चाक्षिपक्ष्माणि सोऽचिराद्याति मृत्यवे ||१०||

श्लोक 11-16

नाहरत्यन्नमास्यस्थं न धारयति यः शिरः |
एकाग्रदृष्टिर्मूढात्मा सद्यः प्राणान् जहाति सः ||११||

बलवान् दुर्बलो वाऽपि सम्मोहं योऽधिगच्छति |
उत्थाप्यमानो बहुशस्तं पक्वं भिषगादिशेत् ||१२||

उत्तानः सर्वदा शेते पादौ विकुरुते च यः |
विप्रसारणशीलो वा न स जीवति मानवः ||१३||

शीतपादकरोच्छ्वासश्छिन्नोच्छ्वासश्च यो भवेत् |
काकोच्छ्वासश्च यो मर्त्यस्तं धीरः परिवर्जयेत् ||१४||

निद्रा न छिद्यते यस्य यो वा जागर्ति सर्वदा |
मुह्येद्वा वक्तुकामश्च प्रत्याख्येयः स जानता ||१५||

उत्तरौष्ठं च यो लिह्यादुत्कारांश्च करोति यः |
प्रेतैर्वा भाषते सार्धं प्रेतरूपं तमादिशेत् ||१६||

श्लोक 17-29

खेभ्यः सरोमकूपेभ्यो यस्य रक्तं प्रवर्तते |
पुरुषस्याविषार्तस्य सद्यो जह्यात् स जीवितम् ||१७||

वाताष्ठीला तु हृदये यस्योर्ध्वमनुयायिनी |
रुजान्नविद्वेषकरी स परासुरसंशयम् ||१८||

अनन्योपद्रवकृतः शोफः पादसमुत्थितः |
पुरुषं हन्ति, नारीं तु मुखजो गुह्यजो द्वयम् ||१९||

अतिसारो ज्वरो हिक्का छर्दिः शूनाण्डमेढ्रता |
श्वासिनः कासिनो वाऽपि यस्य तं क्षीणमादिशेत् ||२०||

स्वेदो दाहश्च बलवान् हिक्का श्वासश्च मानवम् |
बलवन्तमपि प्राणैर्वियुञ्जन्ति न संशयः ||२१||

श्यावा जिह्वा भवेद्यस्य सव्यं चाक्षि निमज्जति |
मुखं च जायते पूति यस्य तं परिवर्जयेत् ||२२||

वक्त्रमापूर्यतेऽश्रूणां स्विद्यतश्चरणावुभौ |
चक्षुश्चाकुलतां याति यमराष्ट्रं गमिष्यतः ||२३||

अतिमात्रं लघूनि स्युर्गात्राणि गुरुकाणि वा |
यस्याकस्मात् स विज्ञेयो गन्ता वैवस्वतालयम् ||२४||

पङ्कमत्स्यवसातैलघृतगन्धांश्च ये नराः |
मृष्टगन्धांश्च ये वान्ति गन्तारस्ते यमालयम् ||२५||

यूका ललाटमायान्ति बलिं नाश्नन्ति वायसाः |
येषां चापि रतिर्नास्ति यातारस्ते यमालयम् ||२६||

ज्वरातिसारशोफाः स्युर्यस्यान्योन्यावसादिनः |
प्रक्षीणबलमांसस्य नासौ शक्यश्चिकित्सितम् ||२७||

क्षीणस्य यस्य क्षुत्तृष्णे हृद्यैर्मिष्टैर्हितैस्तथा |
न शाम्यतोऽन्नपानैश्च तस्य मृत्युरुपस्थितः ||२८||

प्रवाहिका शिरःशूलं कोष्ठशूलं च दारुणम् |
पिपासा बलहानिश्च तस्य मृत्युरुपस्थितः ||२९||

श्लोक 30

विषमेणोपचारेण कर्मभिश्च पुराकृतैः |
अनित्यत्वाच्च जन्तूनां जीवितं निधनं व्रजेत् ||३०||

श्लोक 31-32

प्रेता भूताः पिशाचाश्च रक्षांसि विविधानि च |
मरणाभिमुखं नित्यमुपसर्पन्ति मानवम् ||३१||

तानि भेषजवीर्याणि प्रतिघ्नन्ति जिघांसया |
तस्मान्मोघाः क्रियाः सर्वा भवन्त्येव गतायुषाम् ||३२||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने छायाविप्रतिपत्तिर्नामैकत्रिंशत्तमोऽध्यायः  ||३१||