जलौकावचारणीयाध्यायः

श्लोक 1-2

अथातो जलौकावचारणीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

नृपाढ्यबालस्थविरभीरुदुर्बलनारीसुकुमाराणामनुग्रहार्थं  परमसुकुमारोऽयं शोणितावसेचनोपायोऽभिहितो जलौकसः ||३||

श्लोक 4

तत्र वातपित्तकफदुष्टशोणितं यथासङ्ख्यं  शृङ्गजलौकालाबुभिरवसेचयेत्,  सर्वाणि सर्वैर्वा  (विशेषस्तु विस्राव्यं शृङ्गजलौकालाबुभिर्गृह्णीयात्) ||४||

श्लोक 5-7

भवन्ति चात्र श्लोकाः-
उष्णं समधुरं स्निग्धं गवां शृङ्गं प्रकीर्तितम् |
तस्माद्वातोपसृष्टे तु हितं तदवसेचने ||५||

शीताधिवासा मधुरा जलौका वारिसम्भवा |
तस्मात् पित्तोपसृष्टे तु हिता सा त्ववसेचने ||६||

अलाबु कटुकं रूक्षं तीक्ष्णं च परिकीर्तितम् |
तस्माच्छ्लेष्मोपसृष्टे तु हितं तदवसेचने ||७||

श्लोक 8

तत्र प्रच्छिते तनुबस्तिपटलावनद्धेन शृङ्गेण शोणितमवसेचयेदाचूषणात्,  सान्तर्दीपयाऽलाब्वा (जलायुका वक्ष्यन्ते) ||८||

श्लोक 9

जलमासामायुरिति जलायुकाः, जलमासामोक इति जलौकसः ||९||

श्लोक 10

ता द्वादश; तासां सविषाः षट्, तावत्य एव निर्विषाः ||१०||

श्लोक 11

तत्र सविषाः-कृष्णा, कर्बुरा, अलगर्दा, इन्द्रायुधा, सामुद्रिका, गोचन्दना चेति |
तासु, अञ्जनचूर्णवर्णा पृथुशिराः कृष्णा; वर्मिमत्स्यवदायता  छिन्नोन्नतकुक्षिः कर्बुरा; रोमशा महापार्श्वा कृष्णमुखी अलगर्दा;  इन्द्रायुधवदूर्ध्वराजिभिश्चित्रा इन्द्रायुधा; ईषदसितपीतिका  विचित्रपुष्पाकृतिचित्रा सामुद्रिकाः;  गोवृषणवदधोभागे द्विधाभूताकृतिरणुमुखी गोचन्दनेति |
ताभिर्दष्टे पुरुषे दंशे श्वयथुरतिमात्रं कण्डूर्मूर्च्छा ज्वरो दाहश्छर्दिर्मदः  सदनमिति लिङ्गानि भवन्ति |
तत्र महागदः पानालेपननस्यकर्मादिषूपयोज्यः |
इन्द्रायुधादष्टमसाध्यम् |
इत्येताः सविषाः सचिकित्सिता व्याख्याताः ||११||

श्लोक 12

अथ निर्विषाः-कपिला, पिङ्गला, शङ्कुमुखी, मूषिका, पुण्डरीकमुखी, सावरिका चेति |
तत्र, मनःशिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृष्ठे स्निग्धा मुद्गवर्णा कपिला;  किञ्चिद्रक्ता वृत्तकाया पिङ्गाऽऽशुगा च पिङ्गला; यकृद्वर्णा शीघ्रपायिनी  दीर्घतीक्ष्णमुखी शङ्कुमुखी; मूषिकाकृतिवर्णाऽनिष्टगन्धा च मूषिका;  मुद्गवर्णा पुण्डरीकतुल्यवक्त्रा पुण्डरीकमुखी; स्निग्धा  पद्मपत्रवर्णाऽष्टादशाङ्गुलप्रमाणा सावरिका, सा च पश्वर्थे; इत्येता  अविषा व्याख्याताः ||१२||

श्लोक 13

तासां यवनपाण्ड्यसह्यपौतनादीनि क्षेत्राणि; तेषु महाशरीरा बलवत्यः  शीघ्रपायिन्यो महाशना निर्विषाश्च विशेषेण भवन्ति ||१३||

श्लोक 14-15

तत्र, सविषमत्स्यकीटदर्दुरमूत्रपुरीषकोथजाताः कलुषेष्वम्भसु च  सविषाः; पद्मोत्पलनलिनकुमुदसौगन्धिककुवलयपुण्डरीकशैवलको-थजाता  विमलेष्वम्भःसु च निर्विषाः ||१४||

भवति चात्र-
क्षेत्रेषु विचरन्त्येताः सलिलाढ्यसुगन्धिषु |
न च सङ्कीर्णचारिण्यो न च पङ्केशयाः सुखाः ||१५||

श्लोक 16

तासां ग्रहणमार्द्रचर्मणा, अन्यैर्वा प्रयोगैर्गृह्णीयात् ||१६||

श्लोक 17

अथैनां नवे महति घटे सरस्तडागोदकपङ्कमावाप्य निदध्यात्; भक्ष्यार्थे  चासामुपहरेच्छैवलं वल्लूरमौदकांश्च कन्दांश्चूर्णीकृत्य; शय्यार्थं  तृणमौदकानि च पत्राणि; त्र्यहात्त्र्यहाच्चाभ्योऽन्यज्जलं भक्ष्यं च दद्यात्;  सप्तरात्रात् सप्तरात्राच्च घटमन्यं सङ्क्रामयेत् ||१७||

श्लोक 18

भवति चात्र-
स्थूलमध्याः परिक्लिष्टाः पृथ्व्यो मन्दविचेष्टिताः |
अग्राहिण्योऽल्पपायिन्यः सविषाश्च न पूजिताः ||१८||

श्लोक 19

अथ जलौकोवसेकसाध्यव्याधितमुपवेश्य संवेश्य वा, विरूक्ष्य चास्य  तमवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात् |
गृहीताश्च ताः सर्षपरजनीकल्कोदकप्रदिग्धगात्रीः सलिलसरकमध्ये  मुहूर्तस्थिता विगतक्लमा ज्ञात्वा ताभी रोगं ग्राहयेत् |
श्लणशुक्लार्द्रपिचुप्रोतावच्छन्नां कृत्वा मुखमपावृणुयात्; अगृह्णन्त्यै  क्षीरबिन्दुं शोणितबिन्दुं वा दद्यात्, शस्त्रपदानि वा कुर्वीत; यद्येवमपि न  गृह्णीयात्तदाऽन्यां ग्राहयेत् ||१९||

श्लोक 20

यदा च निविशतेऽश्वखुरवदाननं कृत्वोन्नम्य च स्कन्धं तदा  जानीयाद्गृह्णातीति; गृह्णन्तीं चार्द्रवस्त्रावच्छन्नां कृत्वा धारयेत् ||२०||

श्लोक 21

दंशे तोदकण्डुप्रादुर्भावैर्जानीयाच्छुद्धमियमादत्त इति;  शुद्धमाददानामपनयेतः अथ शोणितगन्धेन न मुञ्चेन्मुखमस्याः  सैन्धवचूर्णेनावकिरेत् ||२१||

श्लोक 22

अथ पतितां तण्डुलकण्डनप्रदिग्धगात्रीं तैललवणाभ्यक्तमुखीं  वामहस्ताङ्गुष्ठाङ्गुलीभ्यां गृहीतपुच्छां दक्षिणहस्ताङ्गुष्ठाङ्गुलिभ्यां शनैः शनैरनुलोममनुमार्जयेदामुखात्, वामयेत् तावद्यावत्  सम्यग्वान्तलिङ्गानीति |
सम्यग्वान्ता सलिलसरके न्यस्ता भोक्तुकामा सती चरेत् |
या सीदती न चेष्टते सा दुर्वान्ता, तां पुनः सम्यग्वामयेत् |
दुर्वान्ताया व्याधिरसाध्य इन्द्रमदो नाम भवति |
अथ सुवान्तां पूर्ववत् सन्निदध्यात् ||२२||

श्लोक 23

शोणितस्य योगायोगानवेक्ष्य शतधौतघृताभ्यङ्गः, तत्पिचुधारणं वा;
जलौकोव्रणान् मधुनाऽवघट्टयेत्, शीताभिरद्भिः परिषेचयेद्बध्नीत वा,  कषायमधुरस्निग्धशीतैश्च प्रदेहैः प्रदिह्यादिति ||२३||

श्लोक 24

भवति चात्र-
क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम् |
जलौकसां च यो वेत्ति तत्साध्यान् स जयेद्गदान् ||२४||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने जलौकावचारणीयो नाम  त्रयोदशोऽध्यायः  ||१२||