श्लोक 1-2
अथातस्तस्याशितीयमध्यायं व्याख्यास्यामः ||१|| इति ह स्माह भगवानात्रेयः||२||
श्लोक 3
तस्याशिताद्यादाहाराद्बलं वर्णश्च वर्धते।
यस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम्||३||
श्लोक 4
इह खलु संवत्सरं षडङ्गमृतुविभागेन विद्यात् । तत्रादित्यस्योदगयनमादानं च त्रीनृतूञ्छिशिरादीन् ग्रीष्मान्तान् व्यवस्येत्,
वर्षादीन् पुनर्हेमन्तान्तान् दक्षिणायनं विसर्गं च ||४||
श्लोक 5
विसर्गे पुनर्वायवो नातिरूक्षाः प्रवान्ति, इतरे पुनरादाने; सोमश्चाव्याहतबलः शिशिराभिर्भाभिरापूरयञ्जगदाप्याययति शश्वत्, अतो विसर्गः सौम्यः । आदानं पुनराग्नेयं; तावेतावर्कवायू सोमश्च कालस्वभावमार्गपरिगृहीताः कालर्तुरसदोषदेहबलनिर्वृत्तिप्रत्ययभूताः समुपदिश्यन्ते||५||
श्लोक 6
तत्र रविर्भाभिराददानो जगतः स्नेहं वायवस्तीव्ररूक्षाश्चोपशोषयन्तः शिशिरवसन्तग्रीष्मेषु यथाक्रमं रौक्ष्यमुत्पादयन्तो रूक्षान् रसांस्तिक्तकषायकटुकांश्चाभिवर्धयन्तो नृणां दौर्बल्यमावहन्ति||६||
श्लोक 7
वर्षाशरद्धेमन्तेषु तु दक्षिणाभिमुखेऽर्के कालमार्गमेघवातवर्षाभिहतप्रतापे, शशिनि चाव्याहतबले, माहेन्द्रसलिलप्रशान्तसन्तापे जगति, अरूक्षा रसाः प्रवर्धन्तेऽम्ललवणमधुरा यथाक्रमं तत्र बलमुपचीयते नृणामिति ||७||
श्लोक 8
भवति चात्र-
आदावन्ते च दौर्बल्यं विसर्गादानयोर्नृणाम्।
मध्ये मध्यबलं, त्वन्ते श्रेष्ठमग्रे च निर्दिशेत् ||८||
श्लोक 9-18
शीते शीतानिलस्पर्शसंरुद्धो बलिनां बली | पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः||९||
स यदा नेन्धनं युक्तं लभते देहजं तदा ।
रसं हिनस्त्यतो वायुः शीतः शीते प्रकुप्यति||१०||
तस्मात्तुषारसमये स्निग्धाम्ललवणान् [१] रसान्। औदकानूपमांसानां मेद्यानामुपयोजयेत्||११||
बिलेशयानां मांसानि प्रसहानां भृतानि च। -भक्षयेन्मदिरां शीधुं मधु चानुपिबेन्नरः||१२||
गोरसानिक्षुविकृतीर्वसां तैलं नवौदनम्। हेमन्तेऽभ्यस्यतस्तोयमुष्णं चायुर्न हीयते ||१३||
अभ्यङ्गोत्सादनं मूर्ध्नि तैलं जेन्ताकमातपम्। जेद्भूमिगृहं चोष्णमुष्णं गर्भगृहं तथा||१४||
शीतेषु संवृतं [२] सेव्यं यानं शयनमासनम्| प्रावाराजिनकौषेयप्रवेणीकुथकास्तृतम्||१५||
गुरूष्णवासा दिग्धाङ्गो गुरुणाऽगुरुणा सदा | शयने प्रमदां पीनां विशालोपचितस्तनीम्||१६||
आलिङ्ग्यागुरुदिग्धाङ्गीं सुप्यात् समदमन्मथः| प्रकामं च निषेवेत मैथुनं शिशिरागमे ||१७||
वर्जयेदन्नपानानि वातलानि लघूनि च । प्रातं प्रमिताहारमुदमन्थं हिमागमे ||१८||
श्लोक 19-21
हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्। रौक्ष्यमादानजं शीतं मेघमारुतवर्षजम्||१९||
तस्माद्धैमन्तिकः सर्वः शिशिरे विधिरिष्यते। निवातमुष्णं त्वधिकं शिशिरे गृहमाश्रयेत्||२०||
कटुतिक्तकषायाणि वातलानि लघूनि च| वर्जयेदन्नपानानि शिशिरे शीतलानि च ||२१||
श्लोक 22-26
वसन्ते [१] निचितः श्लेष्मा दिनकृद्भाभिरीरितः । कायाग्निं बाधते रोगांस्ततः प्रकुरुते बहून्||२२||
तस्माद्वसन्ते कर्माणि वमनादीनि कारयेत्। गुर्वम्लस्निग्धमधुरं दिवास्वप्नं च वर्जयेत्||२३||
व्यायामद्वर्तनं धूमं कवलग्रहमञ्जनम्। सुखाम्बुना शौचविधिं शीलयेत् कुसुमागमे||२४||
चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजनः |
शारभं शाशमैणेयं मांसं लावकपिञ्जलम् ||२५||
भक्षयेन्निर्गदं सीधुं पिबेन्माध्वीकमेव वा। वसन्तेऽनुभवेत् स्त्रीणां काननानां च यौवनम्||२६||
श्लोक 27-32
मयूखैर्जगतः स्नेहं ग्रीष्मे पेपीयते रविः । स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम्||२७||
– शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः । घृतं पयः सशाल्यन्नं भजन् ग्रीष्मे न सीदति ||२८||
मद्यमल्पं न वा पेयमथवा सुबहूदकम् | लवणाम्लकटूष्णानि व्यायामं च विवर्जयेत् [१] ||२९||
दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले । भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्यमस्तके ||३०||
व्यजनैः पाणिसंस्पर्शेश्चन्दनोदकशीतलैः । सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः ||३१||
काननानि च शीतानि जलानि कुसुमानि च। ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः ||३२||
श्लोक 33-40
आदानदुर्बले देहे पक्ता भवति दुर्बलः ।
स वर्षास्वनिलादीनां दूषणैर्बाध्यते पुनः ||३३||
भूबाष्पान्मेघनिस्यन्दात् पाकादम्लाज्जलस्य च| वर्षास्वग्निबले क्षीणे कुप्यन्ति पवनादयः ||३४||
तस्मात् साधारणः सर्वो विधिर्वर्षासु शस्यते। उदमन्थं दिवास्वप्नमवश्यायं नदीजलम् ||३५||
व्यायाममातपं चैव व्यवायं चात्र वर्जयेत्। पानभोजनसंस्कारान् प्रायः क्षौद्रान्वितान् भजेत् ||३६||
व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि । विशेषशीते भोक्तव्यं वर्षास्वनिलशान्तये ||३७||
-अग्निसंरक्षणवता यवगोधूमशालयः ।
पुराणा जाङ्गलैर्मासैर्भोज्या यूषैश्च संस्कृतैः ||३८||
पिबेत् क्षौद्रान्वितं चाल्पं माध्वीकारिष्टमम्बु वा | माहेन्द्रं तप्तशीतं वा कौपं सारसमेव वा ||३९||
प्रघर्षोद्वर्तनस्नानगन्धमाल्यपरो भवेत् । लघुशुद्धाम्बरः स्थानं भजेदक्लेदि वार्षिकम् ||४०||
श्लोक 41-48
वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः | तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति || ४१ ||
तत्रान्नपानं मधुरं लघु शीतं सतिक्तकम्। पित्तप्रशमनं सेव्यं मात्रया सुप्रकाङ्क्षितैः||४२||
लावान् कपिञ्जलानेणानुरभ्राञ्छरभान् शशान्| शालीन् सयवगोधूमान् सेव्यानाहुर्घनात्यये||४३||
तिक्तस्य सर्पिषः पानं विरेको रक्तमोक्षणम् | -धाराधरात्यये कार्यमातपस्य च वर्जनम् ||४४||
वसां तैलमवश्यायमौदकानूपमामिषम् । क्षारं दधि दिवास्वप्नं प्राग्वातं चात्र वर्जयेत् ||४५||
दिवा सूर्यांशुसन्तप्तं निशि चन्द्रांशुशीतलम् | कालेन पक्वं निर्दोषमगस्त्येनाविषीकृतम् ||४६||
हंसोदकमिति ख्यातं शारदं विमलं शुचि स्नानपानावगाहेषु हितमम्बु यथाऽमृतम् [१] ||४७||
शारदानि च माल्यानि वासांसि विमलानि च | -शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः ||४८||
श्लोक 49
इत्युक्तमृतुसात्म्यं यच्चेष्टाहारव्यपाश्रयम्|
उपशेते यदौचित्यादोकः सात्म्यं [१] तदुच्यते||४९||
श्लोक 50
देशानामामयानां च विपरीतगुणं गुणैः ।
सात्म्यमिच्छन्ति सात्म्यज्ञाश्चेष्टितं चाद्यमेव च||५०||
श्लोक 51
तत्र श्लोक:-
ऋतावृतौ नृभिः सेव्यमसेव्यं यच्च किञ्चन| तस्याशितीये निर्दिष्टं हेतुमत् सात्म्यमेव च||५१||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तस्याशितीयो नाम षष्ठोऽध्यायः||६||