तिस्रैषणीयोऽध्यायः

श्लोक 1-2

अथातस्तिस्रैषणीयमध्यायं व्याख्यास्यामः ||१|| इति ह स्माह भगवानात्रेयः ||२||

श्लोक 3

इह खलु पुरुषेणानुपहतसत्त्वबुद्धिपौरुषपराक्रमेण हितम चामुष्मिंश्च लोके समनुपश्यता तिस्र एषणाः पर्येष्टव्या भवन्ति ।
तद्यथा- प्राणैषणा, धनैषणा, परलोकैषणेति ||३||

श्लोक 4

आसां तु खल्वेषणानां प्राणैषणां तावत् पूर्वतरमापद्येत। कस्मात् ? प्राणपरित्यागे हि सर्वत्यागः ।
तस्यानुपालनं-
स्वस्थस्य स्वस्थवृत्तानुवृत्तिः, आतुरस्य विकारप्रशमनेऽप्रमादः, तदुभयमेतदुक्तं वक्ष्यते च; तद्यथोक्तमनुवर्तमानः
प्राणानुपालनाद्दीर्घमायुरवाप्नोतीति प्रथमैषणा व्याख्याता भवति||४||

श्लोक 5

अथ द्वितीयां धनैषणमापद्येत, प्राणेभ्यो ह्यनन्तरं धनमेव पर्येष्टव्यं भवति [१] ; न ह्यतः पापात् पापीयोऽस्ति यदनुपकरणस्य दीर्घमायुः, तस्मादुपकरणानि पर्येष्टुं यतेत । तत्रोपकरणोपायाननुव्याख्यास्यामः; तद्यथा- कृषिपाशुपाल्यवाणिज्यराजोपसेवादीनि यानि चान्यान्यपि सतामविगर्हितानि कर्माणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुं; तथा कुर्वन् दीर्घजीवितं जीवत्यनवमतः पुरुषो भवति [२] | इति द्वितीया धनैषणा व्याख्याता भवति ||५||

श्लोक 6

अथ तृतीयां परलोकैषणामापद्येत ।
संशयश्चात्र, कथं? भविष्याम इतश्च्युता नवेति; कुतः पुनः संशय इति,
उच्यते- सन्ति ह्येके प्रत्यक्षपराः परोक्षत्वात् पुनर्भवस्य नास्तिक्यमाश्रिताः, सन्ति चागमप्रत्ययादेव पुनर्भवमिच्छन्ति; श्रुतिभेदाच्च-
‘मातरं पितरं चैके मन्यन्ते जन्मकारणम् |
स्वभावं परनिर्माणं यदृच्छां चापरे जनाः’ || इति |
अतः संशयः- किं नु खल्वस्ति पुनर्भवो न वेति||६||

श्लोक 7

तत्र बुद्धिमान्नास्तिक्यबुद्धिं जह्याद्विचिकित्सां च| कस्मात् ? प्रत्यक्षं ह्यल्पम्; अनल्पमप्रत्यक्षमस्ति, यदागमानुमानयुक्तिभिरुपलभ्यते; यैरेव तावदिन्द्रियैः प्रत्यक्षमुपलभ्यते, तान्येव सन्ति चाप्रत्यक्षाणि||७||

श्लोक 8

सतां च रूपाणामतिसन्निकर्षादतिविप्रकर्षादावरणात् करणदौर्बल्यान्म नोनवस्थानात् समानाभिहारादभिभवादतिसौक्ष्म्याच्च
प्रत्यक्षानुपलब्धिः; तस्मादपरीक्षितमेतदुच्यते-
प्रत्यक्षमेवास्ति, नान्यदस्तीति||८||

श्लोक 9-10

श्रुतयश्चैता न कारणं, युक्तिविरोधात्| आत्मा मातुः पितुर्वा यः सोऽपत्यं यदि सञ्चरेत्| द्विविधं सञ्चरेदात्मा सर्वोवाऽवयवेन वा||९|| सर्वश्चेत् सञ्चरेन्मातुः पितुर्वा मरणं भवेत्। निरन्तरं, नावयवः कश्चित्सूक्ष्मस्य चात्मनः||१०||

श्लोक 11

बुद्धिर्मनश्च निर्णीते यथैवात्मा तथैव ते।
येषां चैषा मतिस्तेषां योनिर्नास्ति चतुर्विधा||११||

श्लोक 12

विद्यात् स्वाभाविकं षण्णां धातूनां यत् स्वलक्षणम्। संयोगे च वियोगे [१] च तेषां कर्मैव कारणम् ||१२||

श्लोक 13

अनादेश्चेतनाधातोर्नेष्यते परनिर्मितिः।
पर आत्मा स चेद्धेतुरिष्टोऽस्तु [१] परनिर्मितिः||१३||

श्लोक 14-15

न परीक्षा न परीक्ष्यं न कर्ता कारणं न च | न देवा नर्षयः सिद्धाः कर्म कर्मफलं न च||१४||
नास्तिकस्यास्ति नैवात्मा यदृच्छोपहतात्मनः। पातकेभ्यः परं चैतत् पातकं नास्तिकग्रहः||१५||

श्लोक 16

तस्मान्मतिं विमुच्यैताममार्गप्रसृतां बुधः।
सतां बुद्धिप्रदीपेन पश्येत्सर्वं यथातथम्||१६||

श्लोक 17

द्विविधमेव खलु सर्वं सच्चासच्च; तस्य चतुर्विधा परीक्षा- आप्तोपदेशः, प्रत्यक्षम्, अनुमानं, युक्तिश्चेति||१७||

श्लोक 18-19

आप्तास्तावत्-
रजस्तमोभ्यां निर्मुक्तास्तपोज्ञानबलेन ये। येषां त्रिकालममलं ज्ञानमव्याहतं सदा ||१८||
आप्ताः शिष्टा विबुद्धास्ते तेषां वाक्यमसंशयम्। सत्यं, वक्ष्यन्ति ते कस्मादसत्यं नीरजस्तमाः [१] ||१९||

श्लोक 20

आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते।
व्यक्ता तदात्वे या बुद्धिः प्रत्यक्षं स निरुच्यते||२०||

श्लोक 21-22

प्रत्यक्षपूर्वं त्रिविधं त्रिकालं चानुमीयते । वह्निर्निगूढो धूमेन मैथुनं गर्भदर्शनात्||२१||
एवं व्यवस्यन्त्यतीतं बीजात् फलमनागतम्। दृष्ट्वा बीजात् फलं जातमिहैव सदृशं बुधाः||२२||

श्लोक 23-24

जलकर्षणबीजर्तुसंयोगात् सस्यसम्भवः । युक्तिः षड्धातुसंयोगाद्गर्भाणां सम्भवस्तथा||२३||
मध्यमन्थन (क) मन्थानसंयोगादग्निसम्भवः। युक्तियुक्ता चतुष्पादसम्पद्व्याधिनिबर्हणी||२४||

श्लोक 25

बुद्धिः पश्यति या भावान् बहुकारणयोगजान्। युक्तिस्त्रिकाला सा ज्ञेया त्रिवर्गः साध्यते यया ||२५||

श्लोक 26

एषा परीक्षा नास्त्यन्या यया सर्वं परीक्ष्यते। परीक्ष्यं सदसच्चैवं तया चास्ति पुनर्भवः||२६||

श्लोक 27

तत्राप्तागमस्तावद्वेदः[१], यश्चान्योऽपि कश्चिद्वेदार्थादविपरीतः परीक्षकैः प्रणीतः शिष्टानुमतो लोकानुग्रहप्रवृत्तः शास्त्रवादः, स चाऽऽप्तागमः; आप्तागमादुपलभ्यतेदानतपोयज्ञसत्याहिंसाब्रह्मचर्याण्यभ्युदयनिः
श्रेयसकराणीति||२७||

श्लोक 28

न चानतिवृत्तसत्त्वदोषाणामदोषैरपुनर्भवो धर्मद्वारेषूपदिश्यते
||२८||

श्लोक 29

धर्मद्वारावहितैश्च व्यपगतभयरागद्वेषलोभमोहमानैर्ब्रह्मपरैराप्तैः कर्मविद्भिरनुपहतसत्त्वबुद्धिप्रचारैः पूर्वैः पूर्वतरैर्महर्षिभिर्दिव्यचक्षुभिर्दृष्ट्वोपदिष्टः पुनर्भव इति व्यवस्येदेवम् [१] ||२९||

श्लोक 30

प्रत्यक्षमपि चोपलभ्यते-
मातापित्रोर्विसदृशान्यपत्यानि, तुल्यसम्भवानां वर्णस्वराकृतिसत्त्वबुद्धिभाग्यविशेषाः, प्रवरावरकुलजन्म, दास्यैश्वर्यं, सुखासुखमायुः, आयुषो वैषम्यम्, इह कृतस्यावाप्तिः, अशिक्षितानां च रुदितस्तनपानहासत्रासादीनां प्रवृत्तिः, लक्षणोत्पत्तिः, कर्मसादृश्ये [१] फलविशेषः, मेधा क्वचित् क्वचित् कर्मण्यमेधा, जातिस्मरणम्- इहागमनमितश्च्युतानामिति [२], समदर्शने प्रियाप्रियत्वम्||३०||

श्लोक 31

-अत एवानुमीयते – यत्-
स्वकृतमपरिहार्यमविनाशि पौर्वदेहिकं दैवसञ्ज्ञकमानुबन्धिकं कर्म, तस्यैतत् फलम्; इतश्चान्यद्भविष्यतीति; फलद्बीजमनुमीयते फलं च बीजात्||३१||

श्लोक 32

युक्तिश्चैषा-
षड्धातुसमुदयाद्गर्भजन्म, कर्तृकरणसंयोगात् क्रिया;कृतस्य कर्मणःफलं नाकृतस्य, नाङ्कुरोत्पत्तिरबीजात्; कर्मसदृशं फलं, नान्यस्माद्बीजादन्य स्योत्पत्तिः; इति युक्तिः ||३२||

श्लोक 33

एवं प्रमाणैश्चतुर्भिरुपदिष्टे पुनर्भवे धर्मद्वारेष्ववधीयेत; तद्यथा- गुरुशुश्रूषायामध्ययने व्रतचर्यायां दारक्रियायामपत्योत्पादने भृत्यभरणेऽतिथिपूजायां दानेऽनभिध्यायां तपस्यनसूयायां देहवामानसे कर्मण्यक्लिष्टे देहेन्द्रियमनोर्थबुद्ध्यात्मपरीक्षायां मनःसमाधाविति; यानि चान्यान्यप्येवंविधानि कर्माणि सतामविगर्हितानि स्वर्ग्याणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुं; तथा कुर्वन्निह चैव यशो लभते प्रेत्य च स्वर्गम्।
इति तृतीया परलोकैषणा व्याख्याता भवति ||३३||

श्लोक 34

अथ खलु त्रय उपस्तम्भाः, त्रिविधं बलं, त्रीण्यायतनानि, त्रयो रोगाः, त्रयो रोगमार्गाः, त्रिविधा भिषजः, त्रिविधमौषधमिति||३४||

श्लोक 35

त्रय उपस्तम्भा इति- आहारः, स्वप्नो, ब्रह्मचर्यमिति; एभिस्त्रिभिर्युक्तियुक्तैरुपस्तब्धमुपस्तम्भैः शरीरं बलवर्णोपचयोपचितमनुवर्तते यावदायुःसंस्कारात् संस्कारमहितमनुपसेवमानस्य [१], य इहैवोपदेक्ष्यते||३५||

श्लोक 36

त्रिविधं बलमिति – सहजं, कालजं, युक्तिकृतं च| सहजं यच्छरीरसत्त्वयोः प्राकृतं, च, युक्तिकृतं पुनस्तद्यदाहारचेष्टायोगजम्||३६||

श्लोक 37

त्रीण्यायतनानीति- अर्थानां कर्मणः कालस्य चातियोगायोगमिथ्यायोगाः । तत्रातिप्रभावतां दृश्यानामतिमात्रं दर्शनमतियोगः, सर्वशोऽदर्शनमयोगः, अतिश्लिष्टातिविप्रकृष्टरौद्रभैरवाद्भुतद्विष्टबीभत्सनविकृतवित्रासनादिरूपदर्शनं [१] [२] मिथ्यायोगः; तथाऽतिमात्रस्तनितपटहोत्क्रुष्टादीनां शब्दानामतिमात्रं श्रवणमतियोगः, सर्वशोऽश्रवणमयोगः, परुषेष्टविनाशोपघातप्रधर्षणभीषणादिशब्दश्रवणं मिथ्यायोगः; तथाऽतितीक्ष्णोग्राभिष्यन्दिनां गन्धानामतिमात्रं घ्राणमतियोगः, सर्वशोऽघ्राणमयोगः, पूतिद्विष्टामेध्यक्लिन्नविषपवनकुणपगन्धादिघ्राणं मिथ्यायोगः; तथा रसानामत्यादानमतियोगः, सर्वशोऽनादानमयोगः, मिथ्यायोगो राशिवर्ज्येष्वाहारविधिविशेषायतनेषूपदेक्ष्यते; तथाऽतिशीतोष्णानां स्पृश्यानां स्नानाभ्यङ्गोत्सादनादीनां चात्युपसेवनमतियोगः, सर्वशोऽनुपसेवनमयोगः, स्नानादीनां शीतोष्णादीनां च स्पृश्यानामनानुपूर्व्योपसेवनं विषमस्थानाभिघाताशुचिभूतसंस्पर्शादयश्चेति मिथ्यायोगः||३७||,

श्लोक 38

तत्रैकं स्पर्शनमिन्द्रियाणामिन्द्रियव्यापकं [ १ ], चेतः समवायि, स्पर्शनव्याप्तेर्व्यापकमपि च चेतः; तस्मात् सर्वेन्द्रियाणां व्यापकस्पर्शकृतो यो भावविशेषः, सोऽयमनुपशयात् पञ्चविधस्त्रिविधविकल्पो भवत्यसात्म्येन्द्रियार्थसंयोगः; सात्म्यार्थो ह्युपशयार्थः||३८||

श्लोक 39

तत्र वाङ्मनःशरीरातिप्रवृत्तिरतियोगः; सर्वशोऽप्रवृत्तिरयोगः;
वेगधारणोदीरणविषमस्खलनपतनाङ्गप्रणिधानाङ्गप्रदूषणप्रहारमर्दनप्राणोपरोधसङ्क्लेशनदिः शारीरो मिथ्यायोगः, सूचकानृताकालकलहाप्रियाबद्धानुपचारपरुषवचनादिर्वाङ्गिथ्यायोगः, भयशोकक्रोधलोभमोहमानेर्ष्यामिथ्यादर्शनादिर्मानसो मिथ्यायोगः ||३९||

श्लोक 40

सङ्ग्रहेण चातियोगायोगवर्जं कर्म वाङ्मनः शरीरजमहितमनुपदिष्टं यत्तच्च मिथ्यायोगं विद्यात् ||४०||

श्लोक 41

इति त्रिविधविकल्पं त्रिविधमेव कर्म प्रज्ञापराध इति
व्यवस्येत्||४१||

श्लोक 42

शीतोष्णवर्षलक्षणाः पुनर्हेमन्तग्रीष्मवर्षाः संवत्सरः, स कालः। तत्रातिमात्रस्वलक्षणः कालः कालातियोगः, हीनस्वलक्षणः (कालः) कालायोगः, यथास्वलक्षणविपरीतलक्षणस्तु (कालः) कालमिथ्यायोगः | कालः पुनः परिणाम उच्यते||४२||

श्लोक 43

इत्यसात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति त्रयस्त्रिविधविकल्पा हेतवो विकाराणां; समयोगयुक्तास्तु प्रकृतिहेतवो भवन्ति ||४३||

श्लोक 44

सर्वेषामेव भावानां भावाभावौ नान्तरेण योगायोगातियोगमिथ्यायोगान् समुपलभ्येते; यथास्वयुक्त्यपेक्षिणौ हि भावाभावौ||४४||

श्लोक 45

त्रयो रोगा इति- निजागन्तुमानसाः। तत्र निजः शारीरदोषसमुत्थः, आगन्तुर्भूतविषवाय्वग्निसम्प्रहारादिस मुत्थः, मानसः पुनरिष्टस्य लाभाल्लाभाच्चानिष्टस्योपजायते||४५||

श्लोक 46

तत्र
बुद्धिमता मानसव्याधिपरीतेनापि सता बुद्ध्या हिताहितमवेक्ष्यावेक्ष्य धर्मार्थकामानामहितानामनुपसेवने
हितानां चोपसेवने प्रयतितव्यं, न ह्यन्तरेण लोके
त्रयमेतन्मानसं किञ्चिन्निष्पद्यते सुखं वा दुःखं वा;
तस्मादेतच्चानुष्ठेयं
तद्विद्यानां [१]

श्लोक 47

भवति चात्र-
मानसं प्रति भैषज्यं त्रिवर्गस्यान्ववेक्षणम्|
तद्विद्यसेवा विज्ञानमात्मादीनां च सर्वशः||४७||

श्लोक 48

त्रयो रोगमार्गा इति- शाखा, मर्मास्थिसन्धयः, कोष्ठश्च|
तत्र शाखा रक्तादयो धातवस्त्वक् च, स बाह्यो रोगमार्गः; मर्माणि  पुनर्बस्तिहृदयमूर्धादीनि, अस्थिसन्धयोऽस्थिसंयोगास्तत्रोपनिबद्धाश्च  स्नायुकण्डराः , स मध्यमो रोगमार्गः; कोष्ठः पुनरुच्यते महास्रोतः  शरीरमध्यं महानिम्नमामपक्वाशयश्चेति पर्यायशब्दैस्तन्त्रे, स रोगमार्ग  आभ्यन्तरः||४८||

श्लोक 49

तत्र, गण्डपिडकालज्यपचीचर्मकीलाधिमांसमषककुष्ठव्यङ्गादयो  विकारा बहिर्मार्गजाश्च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयः  शाखानुसारिणो भवन्ति रोगाः;  पक्षवधग्रहापतानकार्दितशोषराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयः  शिरोहृद्बस्तिरोगादयश्च मध्यममार्गानुसारिणो भवन्ति रोगाः;  ज्वरातीसारच्छर्द्यलसकविसूचिकाकासश्वासहिक्कानाहोदरप्लीहाद-योऽन्तर्मार्गजाश्च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयः कोष्ठानुसारिणो  भवन्ति रोगाः||४९||

श्लोक 50-53

त्रिविधा भिषज इति-
भिषक्छद्मचराः सन्ति सन्त्येके सिद्धसाधिताः|
सन्ति वैद्यगुणैर्युक्तास्त्रिविधा भिषजो भुवि||५०||

वैद्यभाण्डौषधैः पुस्तैः पल्लवैरवलोकनैः|
लभन्ते ये भिषक्शब्दमज्ञास्ते प्रतिरूपकाः||५१||

श्रीयशोज्ञानसिद्धानां व्यपदेशादतद्विधाः|
वैद्यशब्दं लभन्ते ये ज्ञेयास्ते सिद्धसाधिताः||५२||

प्रयोगज्ञानविज्ञानसिद्धिसिद्धाः सुखप्रदाः|
जीविताभिसरास्ते स्युर्वैद्यत्वं तेष्ववस्थितमिति||५३||

श्लोक 54

त्रिविधमौषधमिति- दैवव्यपाश्रयं, युक्तिव्यपाश्रयं, सत्त्वावजयश्च|
तत्र दैवव्यपाश्रयं-मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्यय-नप्रणिपातगमनादि, युक्तिव्यपाश्रयं-पुनराहारौषधद्रव्याणां योजना, सत्त्वावजयः-पुनरहितेभ्योऽर्थेभ्यो मनोनिग्रहः||५४||

श्लोक 55

शरीरदोषप्रकोपे खलु शरीरमेवाश्रित्य प्रायशस्त्रिविधमौषधमिच्छन्ति-अन्तःपरिमार्जनं, बहिःपरिमार्जनं, शस्त्रप्रणिधानं चेति|
तत्रान्तःपरिमार्जनं यदन्तःशरीरमनुप्रविश्यौषधमाहारजातव्याधीन्  प्रमार्ष्टि, यत्पुनर्बहिःस्पर्शमाश्रित्याभ्यङ्गस्वेदप्रदेहपरिषेकोन्मर्दनाद्यै-रामयान् प्रमार्ष्टि तद्बहिःपरिमार्जनं, शस्त्रप्रणिधानं पुनश्छेदनभेदन-व्यधनदारणलेखनोत्पाटनप्रच्छनसीवनैषणक्षारजलौकसश्चेति||५५||

श्लोक 56-63

भवन्ति चात्र-
प्राज्ञो रोगे समुत्पन्ने बाह्येनाभ्यन्तरेण वा|
कर्मणा लभते शर्म शस्त्रोपक्रमणेन वा||५६||

बालस्तु खलु मोहाद्वा प्रमादाद्वा न बुध्यते|
उत्पद्यमानं प्रथमं रोगं शत्रुमिवाबुधः||५७||

अणुर्हि प्रथमं भूत्वा रोगः पश्चाद्विवर्धते|
स जातमूलो मुष्णाति बलमायुश्च दुर्मतेः||५८||

न मूढो लभते सञ्ज्ञां तावद्यावन्न पीड्यते|
पीडितस्तु मतिं पश्चात् कुरुते व्याधिनिग्रहे||५९||

अथ पुत्रांश्च दारांश्च ज्ञातींश्चाहूय भाषते|
सर्वस्वेनापि मे कश्चिद्भिषगानीयतामिति||६०||

तथाविधं च कः शक्तो दुर्बलं व्याधिपीडितम्|
कृशं क्षीणेन्द्रियं दीनं परित्रातुं गतायुषम्||६१||

स त्रातारमनासाद्य बालस्त्यजति जीवितम्|
गोधा लाङ्गूलबद्धेवाकृष्यमाणा बलीयसा||६२||


तस्मात् प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा|
भेषजैः प्रतिकुर्वीत य इच्छेत् सुखमात्मनः||६३||

श्लोक 64-65

तत्र श्लोकौ-
एषणाः समुपस्तम्भा बलं कारणमामयाः|
तिस्रैषणीये मार्गाश्च भिषजो भेषजानि च||६४||

त्रित्वेनाष्टौ समुद्दिष्टाः कृष्णात्रेयेण धीमता|
भावा, भावेष्वसक्तेन येषु सर्वं प्रतिष्ठितम्||६५||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तिस्रैषणीयो  नामैकादशोऽध्यायः||११||