श्लोक 1-2
अथातो दन्तीद्रवन्तीकल्पं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
श्लोक 3
दन्त्युदुम्बरपर्णी स्यान्निकुम्भोऽथ मुकूलकः|
द्रवन्ती नामतश्चित्रा न्यग्रोधी मूषिकाह्वया||३||
(तथा मूषिकपर्णी चाप्युपचित्रा च शम्बरी|
प्रत्यक्श्रेणी सुतश्रेणी दन्ती र(च)ण्डा च कीर्तिता )|
श्लोक 4
तयोर्मूलानि सङ्गृह्य स्थिराणि बहलानि च|
हस्तिदन्तप्रकाराणि श्यावताम्राणि बुद्धिमान्||४||
श्लोक 5
पिप्पलीमधुलिप्तानि स्वेदयेन्मृत्कुशान्तरे|
शोषयेदातपेऽग्न्यर्कौ हतो ह्येषां विकाशिताम्||५||
श्लोक 6
तीक्ष्णोष्णान्याशुकारीणि विकाशीनि गुरूणि च|
विलाययन्ति दोषौ द्वौ मारुतं कोपयन्ति च||६||
श्लोक 7-14
दधितक्रसुरामण्डैः पिण्डमक्षसमं तयोः|
प्रियालकोलबदरपीलुशीधुभिरेव च||७||
पिबेद्गुल्मोदरी दोषैरभिखिन्नश्च यो नरः|
गोमृगाजरसैः पाण्डुः कृमिकोष्ठी भगन्दरी||८||
तयोः कल्के कषाये च दशमूलरसायुते|
कक्ष्यालजीविसर्पेषु दाहे च विपचेद्घृतम्||९||
तैलं मेहे च गुल्मे च सोदावर्ते कफानिले|
चतुःस्नेहं शकृच्छुक्रवातसङ्गानिलार्तिषु||१०||
रसे दन्त्यजशृङ्गयोश्च गुडक्षौद्रघृतान्वितः|
लेहः सिद्धो विरेकार्थे दाहसन्तापमेहनुत् ||११||
वाततर्षे ज्वरे पैत्ते स्यात् स एवाजगन्धया|
दन्तीद्रवन्त्योर्मूलानि पचेदामलकीरसे||१२||
त्रींस्तु तस्य कषायस्य भागौ द्वौ फाणितस्य च|
तप्ते सर्पिषि तैले वा भर्जयेत्तत्र चावपेत्||१३||
कल्कं दन्तीद्रवन्त्योश्च श्यामादीनां च भागशः|
तत्सिद्धं प्राशयेल्लेहं सुखं तेन विरिच्यते||१४||
श्लोक 15-19
रसे च दशमूलस्य तथा बैभीतके रसे|
हरीतकीरसे चैव लेहानेवं पचेत् पृथक् ||१५||
तयोर्बिल्वसमं चूर्णं तद्रसेनेव भावितम्|
असृष्टे विशि वातोत्थे गुल्मे चाम्लयुतं शुभम्||१६||
पाटयित्वेक्षुकाण्डं वा कल्केनालिप्य चान्तरा|
स्वेदयित्वा ततः खादेत् सुखं तेन विरिच्यते||१७||
मूलं दन्तीद्रवन्त्योश्च सह मुद्गैर्विपाचयेत्|
लाववर्तीरकाद्यैश्च ते रसाः स्युर्विरेचने||१८||
तयोर्वाऽपि कषायेण यवागूं जाङ्गलं रसम्|
माषयूषं च संस्कृत्य दद्यात्तैश्च विरिच्यते||१९||
श्लोक 20-35
तत्कषायात्त्रयो भागा द्वौ सितायास्तथैव च|
एको गोधूमचूर्णानां कार्या चोत्कारिका शुभा||२०||
मोदको वाऽस्य कल्पेन कार्यस्तच्च विरेचनम्|
तयोश्चापि कषायेण मद्यान्यस्योपकल्पयेत्||२१||
दन्तीक्वाथेन चालोड्य दन्तीतैलेन साधितान्|
गुडलावणिकान् भक्ष्यान् विविधान् भक्षयेन्नरः||२२||
दन्तीं द्रवन्तीं मरिचं यवानीमुपकुञ्चिकाम्|
नागरं हेमदुग्धां च चित्रकं चेति चूर्णितम्||२३||
सप्ताहं भावयेन्मूत्रे गवां पाणितलं ततः|
पिबेत्घृतेन जीर्णे तु विरिक्तश्चापि तर्पणम्||२४||
सर्वरोगहरं मुख्यं सर्वेष्वृतुषु यौगिकम्|
चूर्णं तदनपायित्वाद्बालवृद्धेषु पूजितम्||२५||
दुर्भक्ताजीर्णपार्श्वार्तिगुल्मप्लीहोदरेषु च|
गण्डमालासु वाते च पाण्डुरोगे च शस्यते||२६||
पलं चित्रकदन्त्योश्च हरीतक्याश्च विंशतिः|
त्रिवृत्पिप्पलिकर्षौ द्वौ गुडस्याष्टपलेन तत्||२७||
विनीय मोदकान् कुर्याद्दशैकं भक्षयेत्ततः|
उष्णाम्बु च पिबेच्चानु दशमे दशमेऽह्नि च||२८||
एते निष्परिहाराः स्युः सर्वरोगनिबर्हणाः|
ग्रहणीपाण्डुरोगार्शःकण्डूकोठानिलापहाः||२९||
दन्तीद्विपलनिर्यूहो द्राक्षार्धप्रस्थसाधितः |
विरेचनं पित्तकासे पाण्डुरोगे च शस्यते||३०||
दन्तीकल्कं समगुडं शीतवारियुतं पिबेत्|
विरेचनं मुख्यतमं कामलाहरमुत्तमम्||३१||
श्यामादन्तीरसे गौडः पिप्पलीफलचित्रकैः|
लिप्तेऽरिष्टोऽनिलश्लेष्मप्लीहपाण्डूदरापहः||३२||
तथा दन्तीद्रवन्त्योश्च कषाये साजगन्धयोः|
गौडः कार्योऽऽजशृङ्ग्या वा स वै सुखविरेचनः||३३||
तच्चूर्णक्वाथमाषाम्बुकिण्वतोयसमुद्भवा|
मदिरा कफगुल्माल्पवह्निपार्श्वकटिग्रहे||३४||
अजगन्धाकषायेण सौवीरकतुषोदके|
सुराकम्पिल्लके योगौ लोध्रवच्च तयोः स्मृतौ||३५||
श्लोक 36-40
तत्र श्लोकाः-
(दध्यादिषु त्रयः पञ्च प्रियालाद्यैस्त्रयो रसे|
स्नेहेषु वै त्रयो लेह्याः षट् चूर्णे त्वेक एव च||३६||
इक्षावेकस्तथा मुद्गमांसानां च रसास्त्रयः|
यवाग्वादौ त्रयश्चैव उक्त उत्कारिकाविधौ||३७||
एकश्च मोदके मद्ये चैकस्तत्क्वाथतैलके|
चूर्णमेकं पुनश्चैको मोदकः पञ्च चासवे||३८||
एकः सौवीरकेऽथैको योगः स्यात्तु तुषोदके|
एका सुरैकः कम्पिल्ले तथा पञ्च घृते स्मृताः )||३९||
दन्तीद्रवन्तीकल्पेऽस्मिन् प्रोक्ताः षोडशकास्त्रयः|
नानाविधानां योगानां भक्तिदोषामयान्प्रति||४०||
श्लोक 41-42
त्रिशतं पञ्चपञ्चाशद्योगानां वमने स्मृतम्|
द्वे शते नवकाः पञ्च योगानां तु विरेचने||४१||
ऊर्ध्वानुलोमभागानामित्युक्तानि शतानि षट्|
प्राधान्यतः समाश्रित्य द्रव्याणि दश पञ्च च||४२||
श्लोक 43-44
भवन्ति चात्र-
यद्धि येन प्रधानेन द्रव्यं समुपसृज्यते|
तत्सञ्ज्ञकः स योगो वै भवतीति विनिश्चयः ||४३||
फलादीनां प्रधानानां गुणभूताः सुरादयः|
ते हि तान्यनुवर्तन्ते मनुजेन्द्रमिवेतरे||४४||
श्लोक 45
विरुद्धवीर्यमप्येषां प्रधानानामबाधकम्|
अधिकं तुल्यवीर्ये हि क्रियासामर्थ्यमिष्यते ||४५||
श्लोक 46
इष्टवर्णरसस्पर्शगन्धार्थं प्रति चामयम्|
अतो विरुद्धवीर्याणां प्रयोग इति निश्चितम्||४६||
श्लोक 47-48
भूयश्चैषां बलाधानं कार्यं स्वरसभावनैः|
सुभावितं ह्यल्पमपि द्रव्यं स्याद्बहुकर्मकृत्||४७||
स्वरसैस्तुल्यवीर्यैर्वा तस्माद्द्रव्याणि भावयेत्|४८|
श्लोक 48-49
अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम्||४८||
कुर्यात् संयोगविश्लेषकालसंस्कारयुक्तिभिः|४९|
श्लोक 49-50
प्रदेशमात्रमेतावद्द्रष्टव्यमिह षट्शतम्||४९||
स्वबुद्ध्यैवं सहस्राणि कोटीर्वाऽपि प्रकल्पयेत्|
बहुद्रव्यविकल्पत्वाद्योगसङ्ख्या न विद्यते||५०||
श्लोक 51-53
तीक्ष्णमध्यमृदूनां तु तेषां शृणुत लक्षणम्|
सुखं क्षिप्रं महावेगमसक्तं यत् प्रवर्तते||५१||
नातिग्लानिकरं पायौ हृदये न च रुक्करम्|
अन्तराशयमक्षिण्वन् कृत्स्नं दोषं निरस्यति||५२||
विरेचनं निरूहो वा तत्तीक्ष्णमिति निर्दिशेत्|५३|
श्लोक 53-56
जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम्||५३||
ईषन्मात्राधिकैर्युक्तं तुल्यवीर्यैः सुभावितम्|
स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजम्||५४||
किञ्चिदेभिर्गुणैर्हीनं पूर्वोक्तैर्मात्रया तथा|
स्निग्धस्विन्नस्य वा सम्यङ्मध्यं भवति भेषजम्||५५||
मन्दवीर्यं विरूक्षस्य हीनमात्रं तु भेषजम्|
अतुल्यवीर्यैः संयुक्तं मृदु स्यान्मन्दवेगवत्||५६||
श्लोक 57
अकृत्स्नदोषहरणादशुद्धी ते बलीयसाम्|
मध्यावरबलानां तु प्रयोज्ये सिद्धिमिच्छता||५७||
श्लोक 58
तीक्ष्णो मध्यो मृदुर्व्याधिः सर्वमध्याल्पलक्षणः|
तीक्ष्णादीनि बलावेक्षी भेषजान्येषु योजयेत्||५८||
श्लोक 59
देयं त्वनिर्हृते पूर्वं पीते पश्चात् पुनः पुनः|
भेषजं वमनार्थीयं प्राय आपित्तदर्शनात्||५९||
श्लोक 60
बलत्रैविध्यमालक्ष्य दोषाणामातुरस्य च|
पुनः प्रदद्याद्भैषज्यं सर्वशो वा विवर्जयेत्||६०||
श्लोक 61
निर्हृते वाऽपि जीर्णे वा दोषनिर्हरणे बुधः|
भेषजेऽन्यत्प्रयुञ्जीत प्रार्थयन्सिद्धिमुत्तमाम्||६१||
श्लोक 62
अपक्वं वमनं दोषं पच्यमानं विरेचनम्|
निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत्||६२||
श्लोक 63
पीते प्रस्रंसने दोषान्न निर्हत्य जरां गते|
वमिते चौषधे धीरः पाययेदौषधं पुनः||६३||
श्लोक 64-65
दीप्ताग्निं बहुदोषं तु दृढस्नेहगुणं नरम्|
दुःशुद्धं तदहर्भुक्तं श्वोभूते पाययेत् पुनः||६४||
दुर्बलो बहुदोषश्च दोषपाकेन यो नरः|
विरिच्यते शनैर्भोज्यैर्भूयस्तमनुसारयेत् ||६५||
श्लोक 66
वमनैश्च विरेकैश्च विशुद्धस्याप्रमाणतः |
भोजनान्तरपानाभ्यां दोषशेषं शमं नयेत्||६६||
श्लोक 67
दुर्बलं शोधितं पूर्वमल्पदोषं च मानवम्|
अपरिज्ञातकोष्ठं च पाययेतौषधं मृदु||६७||
श्लोक 68
श्रेयो मृद्वसकृत्पीतमल्पबाधं निरत्ययम्|
न चातितीक्ष्णं यत् क्षिप्रं जनयेत्प्राणसंशयम्||६८||
श्लोक 69
दुर्बलोऽपि महादोषो विरेच्यो बहुशोऽल्पशः|
मृदुभिर्भेषजैर्दोषा हन्युर्ह्येनमनिर्हृताः||६९||
श्लोक 70-72
यस्योर्ध्वं कफसंसृष्टं पीतं यात्यानुलोमिकम्|
वमितं कवलैः शुद्धं लङ्घितं पाययेत्तु तम्||७०||
विबद्धेऽल्पे चिराद्दोषे स्रवत्युष्णं पिबेज्जलम्|
तेनाध्मानं तृषा च्छर्दिर्विबन्धश्चैव शाम्यति||७१||
भेषजं दोषरुद्धं चेन्नोर्ध्वं नाधः प्रवर्तते|
सोद्गारं साङ्गशूलं च स्वेदं तत्रावचारयेत्||७२||
श्लोक 73
सुविरिक्ते तु सोद्गारमाश्वेवौषधमुल्लिखेत्|
अतिप्रवर्तनं जीर्णे सुशीतैः स्तम्भयेद्भिषक्||७३||
श्लोक 74
कदाचिच्छ्लेष्मणा रुद्धं तिष्ठत्युरसि भेषजम्|
क्षीणे श्लेष्मणि सायाह्ने रात्रौ वा तत्प्रवर्तते||७४||
श्लोक 75
रूक्षानाहारयोर्जीर्णे विष्टभ्योर्ध्वं गतेऽपि वा|
वायुना भेषजे त्वन्यत् सस्नेहलवणं पिबेत्||७५||
श्लोक 76
तृण्मोहभ्रममूर्च्छायाः स्युश्चेज्जीर्यति भेषजे|
पित्तघ्नं स्वादु शीतं च भेषजं तत्र शस्यते||७६||
श्लोक 77
लालाहृल्लासविष्टम्भलोमहर्षाः कफावृते|
भेषजं तत्र तीक्ष्णोष्णं कट्वादि कफनुद्धितम्||७७||
श्लोक 78
सुस्निग्धं क्रूरकोष्ठं च लङ्घयेदविरेचितम्|
तेनास्य स्नेहजः श्लेष्मा सङ्गश्चैवोपशाम्यति||७८||
श्लोक 79-80
रूक्ष-बह्वनिल-क्रूरकोष्ठ-व्यायामशालिनाम् |
दीप्ताग्नीनां च भैषज्यमविरिच्यैव जीर्यति||७९||
तेभ्यो बस्तिं पुरा दत्त्वा पश्चाद्दद्याद्विरेचनम्|
बस्तिप्रवर्तितं दोषं हरेच्छीघ्रं विरेचनम्||८०||
श्लोक 81-82
रूक्षाशनाः कर्मनित्या ये नरा दीप्तपावकाः|
तेषां दोषाः क्षयं यान्ति कर्मवातातपाग्निभिः ||८१||
विरुद्धाध्यशनाजीर्णदोषानपि सहन्ति ते|
स्नेह्यास्ते मारुताद्रक्ष्या नाव्याधौ तान् विशोधयेत् ||८२||
श्लोक 83-85
नातिस्निग्धशरीराय दद्यात् स्नेहविरेचनम्|
स्नेहोत्क्लिष्टशरीराय रूक्षं दद्याद्विरेचनम्||८३||
एवं ज्ञात्वा विधिं धीरो देशकालप्रमाणवित्|
विरेचनं विरेच्येभ्यः प्रयच्छन्नापराध्यति||८४||
विभ्रंशो विषवद्यस्य सम्यग्योगो यथाऽमृतम्|
कालेष्ववश्यं पेयं च तस्माद्यत्नात् प्रयोजयेत्||८५||
श्लोक 86
द्रव्यप्रमाणं तु यदुक्तमस्मिन्मध्येषु तत् कोष्ठवयोबलेषु|
तन्मूलमालम्ब्य भवेद्विकल्प्यं तेषां विकल्प्योऽभ्यधिकोनभावः||८६||
श्लोक 87-98
षड् ध्वंश्यस्तु मरीचिः स्यात् षण्मरीच्यस्तु सर्षपः|
अष्टौ ते सर्षपा रक्तास्तण्डुलश्चापि तद्द्वयम्||८७||
धान्यमाषो भवेदेको धान्यमाषद्वयं यवः|
अण्डिका ते तु चत्वारस्ताश्चतस्रस्तु माषकः||८८||
हेमश्च धान्यकश्चोक्तो भवेच्छाणस्तु ते त्रयः|
शाणौ द्वौ द्रङ्क्षणं विद्यात् कोलं बदरमेव च||८९||
विद्याद्द्वौ द्रङ्क्षणौ कर्षं सुवर्णं चाक्षमेव च|
बिडालपदकं चैव पिचुं पाणितलं तथा||९०||
तिन्दुकं च विजानीयात् कवलग्रहमेव च|
द्वे सुवर्णे पलार्धं स्याच्छुक्तिरष्टमिका तथा||९१||
द्वे पलार्धे पलं मुष्टिः प्रकुञ्चोऽथ चतुर्थिका|
बिल्वं षोडशिका चाम्रं द्वे पले प्रसृतं विदुः||९२||
अष्टमानं तु विज्ञेयं कुडवौ द्वौ तु मानिका|
पलं चतुर्गुणं विद्यादञ्जलिं कुडवं तथा||९३||
चत्वारः कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम्|
पात्रं तदेव विज्ञेयं कंसः प्रस्थाष्टकं तथा||९४||
कंसश्चतुर्गुणो द्रोणश्चार्मणं नल्वणं च तत्|
स एव कलशः ख्यातो घटमुन्मानमेव च||९५||
द्रोणस्तु द्विगुणः शूर्पो विज्ञेयः कुम्भ एव च|
गोणीं शूर्पद्वयं विद्यात् खारीं भारं तथैव च||९६||
द्वात्रिंशतं विजानीयाद्वाहं शूर्पाणि बुद्धिमान्|
तुलां शतपलं विद्यात् परिमाणविशारदः||९७||
शुष्कद्रव्येष्विदं मानमेवमादि प्रकीर्तितम्|९८|
श्लोक 98-99
द्विगुणं तद्द्रवेष्विष्टं तथा सद्योद्धृतेषु च||९८||
यद्धि मानं तुला प्रोक्ता पलं वा तत् प्रयोजयेत्|
अनुक्ते परिमाणे तु तुल्यं मानं प्रकीर्तितम्||९९||
श्लोक 100
द्रवकार्येऽपि चानुक्ते सर्वत्र सलिलं स्मृतम्|
यतश्च पादनिर्देशश्चतुर्भागस्ततश्च सः||१००||
श्लोक 101
जलस्नेहौषधानां तु प्रमाणं यत्र नेरितम् |
तत्र स्यादौषधात् स्नेहः स्नेहात्तोयं चतुर्गुणम्||१०१||
श्लोक 102-103
स्नेहपाकस्त्रिधा ज्ञेयो मृदुर्मध्यः खरस्तथा|
तुल्ये कल्केन निर्यासे भेषजानां मृदुः स्मृतः||१०२||
संयाव इव निर्यासे मध्यो दर्वीं विमुञ्चति|
शीर्यमाणे तु निर्यासे वर्तमाने खरस्तथा||१०३||
श्लोक 104
खरोऽभ्यङ्गे स्मृतः पाको, मृदुर्नस्तःक्रियासु च|
मध्यपाकं तु पानार्थे बस्तौ च विनियोजयेत्||१०४||
श्लोक 105
मानं च द्विविधं प्राहुः कालिङ्गं मागधं तथा|
कालिङ्गान्मागधं श्रेष्ठमेवं मानविदो विदुः||१०५||
श्लोक 106-107
तत्र श्लोकौ-
कल्पार्थः शोधनं सञ्ज्ञा पृथग्घेतुः प्रवर्तने|
देशादीनां फलादीनां गुणा योगशतानि षट्||१०६||
विकल्पहेतुर्नामानि तीक्ष्णमध्याल्पलक्षणम्|
विधिश्चावस्थिको मानं स्नेहपाकश्च दर्शितः||१०७||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते
कल्पस्थाने दन्तीद्रवन्तीकल्पो नाम द्वादशोऽध्यायः||१२||
इति चरकसंहितायां सप्तमं कल्पस्थानं सम्पूर्णम्|