श्लोक 1-2
अथातो दशप्राणायतनीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः ||२||
श्लोक 3-4
दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः [१] | शङ्खौ मर्मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम् ||३||
तानीन्द्रियाणि विज्ञानं चेतनाहेतुमामयान्।
जानीते यः स वै विद्वान् प्राणाभिसर उच्यते||४||
श्लोक 5
द्विविधास्तु [१] खलु भिषजो भवन्त्यग्निवेश! प्राणानामेकेऽभिसरा हन्तारो रोगाणां,
रोगाणामेकेऽभिसरा हन्तारः प्राणानामिति ||५||
श्लोक 6-7
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच – भगवंस्ते कथमस्माभिर्वेदितव्या भवेयुरिति||६||
भगवानुवाच- य इमे कुलीनाः पर्यवदातश्रुताः परिदृष्टकर्माणो दक्षाः शुचयो जितहस्ता जितात्मानः सर्वोपकरणवन्तः सर्वेन्द्रियोपपन्नाः प्रकृतिज्ञाः [१] प्रतिपत्तिज्ञाश्च ते ज्ञेयाः प्राणानामभिसरा हन्तारो रोगाणां; तथाविधा हि केवले शरीरज्ञाने शरीराभिनिर्वृत्तिज्ञाने प्रकृतिविकारज्ञाने च निःसंशयाः, सुखसाध्यकृच्छ्रसाध्ययाप्यप्रत्याख्येयानां च रोगाणां समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषज्ञाने व्यपगतसन्देहाः, त्रिविधस्यायुर्वेदसूत्रस्य ससङ्ग्रहव्याकरणस्य सत्रिविधौषधग्रामस्य प्रवक्तारः [२], पञ्चत्रिंशतो मूलफलानां चतुर्णां च स्नेहानां पञ्चानां च लवणानामष्टानां च मूत्राणामष्टानां च क्षीराणां क्षीरत्वग्वृक्षाणां च षण्णां शिरोविरेचनादेश्च पञ्चकर्माश्रयस्यौषधगणस्याष्टाविंशतेश्च यवागूनां द्वात्रिंशतश्चर्णप्रदेहानां षण्णं च विरेचनशतानां पञ्चानां च कषायशतानां प्रयोक्तारः,
स्वस्थवृत्तविहितभोजनपाननियमस्थानचङ्क्रमणशयनासनमात्राद्रव्याञ्ज
नधूमनावनाभ्यञ्जन-
परिमार्जनवेगाविधारणविधारणव्यायामसात्म्येन्द्रियपरीक्षोपक्रमणसद्वृत्तकु शलाः [३], चतुष्पादोपगृहीते च भेषजे षोडशकले सविनिश्चये सत्रिपर्येषणे सवातकलाकलज्ञाने व्यपगतसन्देहाः, चतुर्विधस्य च स्नेहस्य चतुर्विंशत्युपनयस्योपकल्पनीयस्य [४] चतुःषष्टिपर्यन्तस्य [५] च व्यवस्थापयितारः, बहुविधविधानयुक्तानां च स्नेह्यस्वेद्यवम्यविरेच्यविविधौषधोपचाराणां च कुशलाः, शिरोरोगादेर्दोषांशविकल्पजस्य च व्याधिसङ्ग्रहस्य
सक्षयपिडकाविद्रधेस्त्रयाणां च शोफानां
बहुविधशोफानुबन्धानामष्टचत्वारिंशतश्च रोगाधिकरणानां चत्वारिंशदुत्तरस्य च नानात्मजस्य व्याधिशतस्य तथा विगर्हितातिस्थूलातिकृशानां सहेतुलक्षणोपक्रमाणां स्वप्नस्य च हिताहितस्यास्वप्नातिस्वप्नस्य च सहेतूपक्रमस्य षण्णां च लङ्घनादीनामुपक्रमाणां सन्तर्पणापतर्पणजानां च रोगाणां सरूपप्रशमनानां शोणितजानां च व्याधीनां मदमूर्च्छायसन्न्यासानां च सकारणरूपौषधोपचाराणां कुशलाः, कुशलाश्चाहारविधिविनिश्चयस्य प्रकृत्या हिताहितानामाहारविकाराणामग्र्यसङ्ग्रहस्यासवानां च
चतुरशीतेर्द्रव्यगुणकर्मविनिश्चयस्य रसानुरससंश्रयस्य
सविकल्पवैरोधिकस्य द्वादशवर्गाश्रयस्य चान्नपानस्य सगुणप्रभावस्य सानुपानगुणस्य नवविधस्यार्थसङ्ग्रहस्याहारगतेश्च
हिताहितोपयोगविशेषात्मकस्य च शुभाशुभविशेषस्य धात्वाश्रयाणां च रोगाणां सौषधसङ्ग्रहाणां दशानां च प्राणायतनानां यं च वक्ष्याम्यर्थेदशमहामूलीये त्रिंशत्तमाध्याये तत्र च कृत्स्नस्य तन्त्रोद्देशलक्षणस्य तन्त्रस्य च
ग्रहणधारणविज्ञानप्रयोगकर्मकार्यकालकर्तृकरणकुशलाः [६], कुशलाश्च स्मृतिमतिशास्त्रयुक्तिज्ञानस्यात्मनः शीलगुणैरविसंवादनेन च सम्पादनेन सर्वप्राणिषु चेतसो मैत्रस्य मातापितृभ्रातृबन्धुवत्, एवंयुक्ता [७] भवन्त्यग्निवेश! प्राणानामभिसरा हन्तारो रोगाणामिति||७||
श्लोक 8-9
अतो विपरीता रोगाणामभिसरा हन्तारः प्राणानां, भिषक्छद्मप्रतिच्छन्नाः [१] कण्टकभूता लोकस्य प्रतिरूपकसधर्माणो राज्ञां प्रमादाच्चरन्ति राष्ट्राणि ||८||
तेषामिदं विशेषविज्ञानं भवति अत्यर्थं वैद्यवेशेन श्लाघमाना विशिखान्तरमनुचरन्ति कर्मलोभात्, श्रुत्वा च कस्यचिदातुर्यमभितः परिपतन्ति, संश्रवणे चास्यात्मनो वैद्यगुणानुच्चैर्वदन्ति, यश्चास्य वैद्यः प्रतिकर्म करोति तस्य च दोषान्मुहुर्मुहुरुदाहरन्ति, आतुरमित्राणि च प्रहर्षणोपजापोपसेवादिभिरिच्छन्त्यात्मीकर्तुं, स्वल्पेच्छ्रुतां
चात्मनः ख्यापयन्ति, कर्म चासाद्य मुहुर्मुहुरवलोकयन्ति दाक्ष्येणाज्ञानमात्मनः प्रच्छादयितुकामाः, व्याधिं चापावर्तयितुमशक्नुवतो
व्याधितमेवानुपकरणमपरिचारकमनात्मवन्तमुपदिशन्ति [२],
अन्तगतं चैनमभिसमीक्ष्यान्यमाश्रयन्ति देशमपदेशमात्मनः कृत्वा, प्राकृतजनसन्निपाते चात्मनः कौशलमकुशलवद्वर्णयन्ति, -अधीरवच्च धैर्यमपवदन्ति धीराणां विद्वज्जनसन्निपातं (चाभिसमीक्ष्य) प्रतिभयमिव कान्तारमध्वगाः परिहरन्ति दूरात्, यश्चैषां कश्चित् सूत्रावयवो भवत्युपयुक्तस्तमप्रकृते प्रकृतान्तरे वा सततमुदाहरन्ति, न चानुयोगमिच्छन्त्यनुयोक्तुं वा, मृत्योरिव चानुयोगादुद्विजन्ते, न चैषामाचार्यः शिष्यः सब्रह्मचारी वैवादिको वा कश्चित् प्रज्ञायत इति||९||
श्लोक 10-14
भवन्ति चात्र-
भिषक्छद्म प्रविश्यैवं व्याधितांस्तर्कयन्ति ये| वीतंसमिव संश्रित्य वने शाकुन्तिका द्विजान्||१०||
श्रुतदृष्टक्रियाकालमात्राज्ञानबहिष्कृताः। वर्जनीया हि ते मृत्योश्चरन्त्यनुचरा भुवि ||११||
वृत्तिहेतोर्भिषङ्गानपूर्णान् मूर्खविशारदान्। वर्जयेदातुरो विद्वान् सर्पास्ते पीतमारुताः||१२||
ये तु शास्त्रविदो दक्षाः शुचयः कर्मकोविदाः। जितहस्ता जितात्मानस्तेभ्यो नित्यं कृतं नमः ||१३||
तत्र श्लोक:-
दशप्राणायतनिके श्लोकस्थानार्थसङ्ग्रहः |
द्विविधा भिषजश्चोक्ताः प्राणस्यायतनानि च ||१४||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने दशप्राणायतनीयो नामोनत्रिंशोऽध्यायः||२९||