दृष्टिगतरोगविज्ञानीयाध्यायः

श्लोक 1-2

अथातो दृष्टिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3-4

मसूरदलमात्रां तु पञ्चभूतप्रसादजाम् |
खद्योतविस्फुलिङ्गाभामिद्धां तेजोभिरव्ययैः ||३||

आवृतां पटलेनाक्ष्णोर्बाह्येन विवराकृतिम् |
शीतसात्म्यां नृणां दृष्टिमाहुर्नयनचिन्तकाः ||४||

श्लोक 5

रोगांस्तदाश्रयान् घोरान् षट् च षट् च प्रचक्ष्महे |
पटलानुप्रविष्टस्य तिमिरस्य च लक्षणम् ||५||

श्लोक 6-7

सिराभिरभिसम्प्राप्य विगुऽभ्यन्तरे भृशम् |
प्रथमे पटले दोषो यस्य दृष्टौ व्यवस्थितः ||६||

अव्यक्तानि स रूपाणि सर्वाण्येव प्रपश्यति |७|

श्लोक 7-10

दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते ||७||

मक्षिका मशकान् केशाञ्जालकानि च पश्यति |
मण्डलानि पताकांश्च मरीचीः कुण्डलानि च ||८||

परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि च |
दूरस्थान्यपि रूपाणि मन्यते च समीपतः ||९||

समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात् |
यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति ||१०||

श्लोक 11-15

ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते |
महान्त्यपि च रूपाणि च्छादितानीव वाससा ||११||

कर्णनासाक्षियुक्तानि विपरीतानि वीक्षते |
यथादोषं च रज्येत दृष्टिर्दोषे बलीयसि ||१२||

अधःस्थिते समीपस्थं दूरस्थं चोपरिस्थिते |
पार्श्वस्थिते तथा दोषे पार्श्वस्थानि न पश्यति ||१३||

समन्ततः स्थिते दोषे सङ्कुलानीव पश्यति |
दृष्टिमध्यगते दोषे स एकं मन्यते द्विधा ||१४||

द्विधास्थिते त्रिधा पश्येद्बहुधा चानवस्थिते |
तिमिराख्यः स वै दोषः… |१५|

श्लोक 15-17

… चतुर्थं पटलं गतः ||१५||

रुणद्धि सर्वतो दृष्टिं लिङ्गनाशः स उच्यते |
तस्मिन्नपि तमोभूते नातिरूढे महागदे ||१६||

चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः |
निर्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति ||१७||

श्लोक 18

स एव लिङ्गनाशस्तु नीलिकाकाचसञ्ज्ञितः |१८|

श्लोक 18-19

तत्र वातेन रूपाणि भ्रमन्तीव स पश्यति ||१८||

आविलान्यरुणाभानि व्याविद्धानि च मानवः |१९|

श्लोक 19-20

पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान् ||१९||

शिखिबर्हविचित्राणि नीलकृष्णानि पश्यति |२०|

श्लोक 20-22

कफेन पश्येद्रूपाणि स्निग्धानि च सितानि च ||२०||

गौरचामरगौराणि श्वेताभ्रप्रतिमानि च |
पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसम्प्लवम् ||२१||

सलिलप्लावितानीव परिजाड्यानि मानवः |२२|

श्लोक 22-23

तथा रक्तेन रक्तानि तमांसि विविधानि च ||२२||

हरितश्यावकृष्णानि धूमधूम्राणि चेक्षते |२३|

श्लोक 23-24

सन्निपातेन चित्राणि विप्लुतानि च पश्यति ||२३||

बहुधा वा द्विधा वाऽपि सर्वाण्येव समन्ततः |
हीनाधिकाङ्गान्यथवा ज्योतींष्यपि च पश्यति ||२४||

श्लोक 25-26

पित्तं कुर्यात् परिम्लायि मूर्च्छितं रक्ततेजसा |
पीता दिशस्तथोद्यन्तमादित्यमिव पश्यति ||२५||

विकीर्यमाणान् खद्योतैर्वृक्षांस्तेजोभिरेव च |२६|

श्लोक 26

वक्ष्यामि षड्विधं रागैर्लिङ्गनाशमतः परम् ||२६||

श्लोक 27

रागोऽरुणो मारुतजः प्रदिष्टः पित्तात् परिम्लाय्यथवाऽपि नीलः |
कफात् सितः शोणितजस्तु रक्तः समस्तदोषोऽथ विचित्ररूपः ||२७||

श्लोक 28-29

रक्तजं मण्डलं दृष्टौ स्थूलकाचानलप्रभम् |
परिम्लायिनि रोगे स्यान्म्लाय्यानीलं च मण्डलम् ||२८||

दोषक्षयात् कदाचित् स्यात्स्वयं तत्र च दर्शनम् |२९|

श्लोक 29-33

अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा ||२९||

पित्तान्मण्डलमानीलं कांस्याभं पीतमेव वा |
श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम् ||३०||

चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः |
सङ्कुचत्यातपेऽत्यर्थं छायायां विस्तृतो भवेत् ||३१||

मृद्यमाने च नयने मण्डलं तद्विसर्पति |
प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् ||३२||

दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे |
यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि ||३३||

श्लोक 34-35

षड् लिङ्गनाशाः षडिमे च रोगा दृष्ट्याश्रयाः षट् च षडेव च स्युः |
तथा नरः पित्तविदग्धदृष्टिः कफेन चान्यस्त्वथ धूमदर्शी ||३४||

यो ह्रस्वजाड्यो(त्यो) नकुलान्धता च गम्भीरसञ्ज्ञा च तथैव दृष्टिः |३५|

श्लोक 35-37

पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद्यस्य नरस्य दृष्टिः ||३५||

पीतानि रूपाणि च मन्यते यः स मानवः पित्तविदग्धदृष्टिः |
प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि वीक्षते च ||३६||

(रात्रौ स शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत्) |३७|

श्लोक 37-38

तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि हि मन्यते तु ||३७||

त्रिषु स्थितोल्पः पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य |
दिवा स सूर्यानुगृहीतचक्षुरिक्षेत रूपाणि कफाल्पभावात् ||३८||

श्लोक 39

शोकज्वरायासशिरोभितापैरभ्याहता यस्य नरस्य दृष्टिः |
सधूमकान् पश्यति सर्वभावांस्तं धूमदर्शीति वदन्ति रोगम् ||३९||

श्लोक 40

स ह्रस्वजाड्यो दिवसेषु कृच्छ्राद्ध्रस्वानि रूपाणि च येन पश्येत् |४०|

श्लोक 40-41

विद्योतते येन नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत् ||४०||

चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसञ्ज्ञः |४१|

श्लोक 41-42

दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कुच्यतेऽभ्यन्तरतश्च याति ||४१||

रुजावगाढा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः |४२|

श्लोक 42-43

बाह्यौ पुनर्द्वाविह सम्प्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च ||४२||

निमित्ततस्तत्र शिरोभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैश्च |४३|

श्लोक 43-44

सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्वराणाम् ||४३||

हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसञ्ज्ञः |
तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः ||४४||

श्लोक 45

विदीर्यते सीदति हीयते वा नृणामभीघातहता तु दृष्टिः ||४५||

श्लोक 46

इत्येते नयनगता मया विकाराः सङ्ख्याताः पृथगिह षट् च सप्ततिश्च |
एतेषां पृथगिह विस्तरेण सर्वं वक्ष्येऽहं तदनु चिकित्सितं यथावत् ||४६||

पुष्पिका

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे
दृष्टिगतरोगविज्ञानीयो नाम सप्तमोऽध्यायः ||७||