श्लोक 1-2
अथातो दोषधातुमलक्षयवृद्धिविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
दोषधातुमलमूलं हि शरीरं, तस्मादेतेषां लक्षणमुच्यमानमुपधारय ||३||
श्लोक 4(1)
तत्र प्रस्पन्दनोद्वहनपूरणविवेकधारणलक्षणो वायुः पञ्चधा प्रविभक्तः शरीरं धारयति (१) |४|
श्लोक 4(2)
रागपक्त्योजस्तेजोमेधोष्मकृत् पित्तं पञ्चधा प्रविभक्तमग्निकर्मणाऽनुग्रहं करोति;
(२) |४|
श्लोक 4
सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्यकृच्छ्लेष्मा पञ्चधा प्रविभक्त उदककर्मणाऽनुग्रहं करोति ||४||
श्लोक 5(1)
रसस्तुष्टिं प्रीणनं रक्तपुष्टिं च करोति, रक्तं वर्णप्रसादं मांसपुष्टिं जीवयति च, मांसं शरीरपुष्टिं मेदसश्च, मेदः स्नेहस्वेदौ दृढत्वं पुष्टिमस्थ्नां च, अस्थीनि देहधारणं मज्ज्ञः पुष्टिं च, मज्जा स्नेहं बलं शुक्रपुष्टिं पूरणमस्थ्नां च करोति, शुक्रं धैर्यं च्यवनं प्रीतिं देहबलं हर्षं बीजार्थं च; (१) |५|
श्लोक 5(2)
पुरीषमुपस्तम्भं वाय्वग्निधारणं च, बस्तिपूरणविक्लेदकृन्मूत्रं, स्वेदः क्लेदत्वक्सौकुमार्यकृत्; (२) |५|
श्लोक 5
रक्तलक्षणमार्तवं गर्भकृच्च, गर्भो गर्भलक्षणं, स्तन्यं स्तनयोरापीनत्वजननं जीवनं चेति ||५||
श्लोक 6
तत्र विधिवत् परिरक्षणं कुर्वीत ||६||
श्लोक 7
अत ऊर्ध्वमेषां क्षीणलक्षणं वक्ष्यामः |
तत्र, वातक्षये मन्दचेष्टताऽल्पवाक्त्वमप्रहर्षो मूढसञ्ज्ञता च, पित्तक्षये मन्दोष्माग्निता निष्प्रभता च, श्लेष्मक्षये रूक्षताऽन्तर्दाह आमाशयेतरश्लेष्माशयशून्यता सन्धिशैथिल्यं (तृष्णा दौर्बल्यं प्रजागरणं) च ||७||
श्लोक 8
तत्र स्वयोनिवर्धनान्येव प्रतीकारः ||८||
श्लोक 9
रसक्षये हृत्पीडाकम्पशून्यतास्तृष्णा च, शोणितक्षये त्वक्पारुष्यमम्लशीतप्रार्थना सिराशैथिल्यं च, मांसक्षये स्फिग्गण्डौष्ठोपस्थोरुवक्षःकक्षापिण्डिकोदरग्रीवाशुष्कता रौक्ष्यतोदौ गात्राणां सदनं धमनीशैथिल्यं च, मेदःक्षये प्लीहाभिवृद्धिः सन्धिशून्यता रौक्ष्यं मेदुरमांसप्रार्थना च, अस्थिक्षयेऽस्थिशूलं दन्तनखभङ्गो रौक्ष्यं च, मज्जक्षयेऽल्पशुक्रता पर्वभेदोऽस्थिनिस्तोदोऽस्थिशून्यता च, शुक्रक्षये मेढ्रवृषणवेदनाऽशक्तिर्मैथुने चिराद्वा प्रसेकः प्रसेके चाल्परक्तशुक्रदर्शनम् ||९||
श्लोक 10
तत्रापि स्वयोनिवर्धनद्रव्योपयोगः (प्रतीकारः ) ||१०||
श्लोक 11
पुरीषक्षये हृदयपार्श्वपीडा सशब्दस्य च वायोरूर्ध्वगमनं कुक्षौ सञ्चरणं च, मूत्रक्षये बस्तितोदोऽल्पमूत्रता च; अत्रापि स्वयोनिवर्धनद्रव्योपयोगः |
स्वेदक्षये स्तब्धरोमकूपता त्वक्शोषः स्पर्शवैगुण्यं स्वेदनाशश्च; तत्राभ्यङ्गः स्वेदोपयोगश्च ||११||
श्लोक 12
आर्तवक्षये यथोचितकालादर्शनमल्पता वा योनिवेदना च; तत्र संशोधनमाग्नेयानां च द्रव्याणां विधिवदुपयोगः |
स्तनक्षये स्तनयोर्म्लानता स्तन्यासम्भवोऽल्पता वा; तत्र श्लेष्मवर्धनद्रव्योपयोगः |
गर्भक्षये गर्भास्पन्दनमनुन्नतकुक्षिता च; तत्र प्राप्तबस्तिकालायाः क्षीरबस्तिप्रयोगो मेद्यान्नोपयोगश्चेति ||१२||
श्लोक 13
अत ऊर्ध्वमतिवृद्धानां दोषधातुमलानां लक्षणं वक्ष्यामः |
वृद्धिः पुनरेषां स्वयोनिवर्धनात्युपसेवनाद्भवति |
तत्र, वातवृद्धौ वाक्पारुष्यं कार्श्यं कार्ष्ण्यं गात्रस्फुरणमुष्णकामि(म)ता निद्रानाशोऽल्पबलत्वं गाढवर्चस्त्वं च; पित्तवृद्धौ पीतावभासता सन्तापः शीतकामित्वमल्पनिद्रता मूर्च्छा बलहानिरिन्द्रियदौर्बल्यं पीतविण्मूत्रनेत्रत्वं च; श्लेष्मवृद्धौ शौक्ल्यं शैत्यं स्थैर्यं गौरवमवसादस्तन्द्रा निद्रा सन्धिविश्लेषश्च ||१३||
श्लोक 14
रसोऽतिवृद्धो हृदयोत्क्लेदं प्रसेकं चापादयति; रक्तं रक्ताङ्गाक्षितां सिरापूर्णत्वं च; मांसं स्फिग्गण्डौष्ठोपस्थोरुबाहुजङ्घासु वृद्धिं गुरुगात्रतां च; मेदःस्निग्धाङ्गतामुदरपार्श्ववृद्धिं कासश्वासादीन् दौर्गन्ध्यं च; अस्थ्यध्यस्थीन्यधिदन्तांश्च; मज्जा सर्वाङ्गनेत्रगौरवं च; शुक्रं शुक्राश्मरीमतिप्रादुर्भावं च ||१४||
श्लोक 15
पुरीषमाटोपं कुक्षौ शूलं च; मूत्रं मूत्रवृद्धिं मुहुर्मुहुः प्रवृत्तिं बस्तितोदमाध्मानं च; स्वेदस्त्वचो दौर्गन्ध्यं कण्डूं च ||१५||
श्लोक 16
आर्तवमङ्गमर्दमतिप्रवृत्तिं दौर्गन्ध्यं च; स्तन्यं स्तनयोरापीनत्वं मुहुर्मुहुः प्रवृत्तिं तोदं च; गर्भो जठराभिवृद्धिं स्वेदं च ||१६||
श्लोक 17
तेषां यथास्वं संशोधनं क्षपणं च क्षयादविरुद्धैः क्रियाविशेषैः प्रकुर्वीत ||१७||
श्लोक 18
पूर्वः पूर्वोऽतिवृद्धत्वाद्वर्धयेद्धि परं परम् |
तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम् ||१८||
श्लोक 19
बललक्षणं बलक्षयलक्षणं चात ऊर्ध्वमुपदेक्ष्यामः |
तत्र रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खल्वोजस्तदेव बलमित्युच्यते, स्वशास्त्रसिद्धान्तात् ||१९||
श्लोक 20
तत्र बलेन स्थिरोपचितमांसता सर्वचेष्टास्वप्रतिघातः स्वरवर्णप्रसादो बाह्यानामाभ्यन्तराणां च करणानामात्मकार्यप्रतिपत्तिर्भवति ||२०||
श्लोक 21-22
भवन्ति चात्र-
ओजः सोमात्मकं स्निग्धं शुक्लं शीतं स्थिरं सरम् |
विविक्तं मृदु मृत्स्नं च प्राणायतनमुत्तमम् ||२१||
देहः सावयवस्तेन व्याप्तो भवति देहिनः |
तदभावाच्च शीर्यन्ते शरीराणि शरीरिणाम् ||२२||
श्लोक 23
अभिघातात्क्षयात्कोपाच्छोकाद्ध्यानाच्छ्रमात्क्षुधः |
ओजः सङ्क्षीयते ह्येभ्यो धातुग्रहणनिःसृतम् |
तेजः समीरितं तस्माद्विस्रंसयति देहिनः ||२३||
श्लोक 24
तस्य विस्रंसो व्यापत् क्षय इति (त्रयो दोषाः;) लिङ्गानि भवन्ति सन्धिविश्लेषो गात्राणां सदनं दोषच्यवनं क्रियासन्निरोधश्च विस्रंसे, स्तब्धगुरुगात्रता वातशोफो वर्णभेदो ग्लानिस्तन्द्रा निद्रा च व्यापन्ने, मूर्च्छा मांसक्षयो मोहः प्रलापो मरणमिति च क्षये ||२४||
श्लोक 25-28
भवन्ति चात्र-
त्रयो दोषा बलस्योक्ता व्यापद्विस्रंसनक्षयाः |
विश्लेषसादौ गात्राणां दोषविस्रंसनं श्रमः ||२५||
अप्राचुर्यं क्रियाणां च बलविस्रंसलक्षणम् |
गुरुत्वं स्तब्धताऽङ्गेषु ग्लानिर्वर्णस्य भेदनम् ||२६||
तन्द्रा निद्रा वातशोफो बलव्यापदि लक्षणम् |
मूर्च्छा मांसक्षयो मोहः प्रलापोऽज्ञानमेव च ||२७||
पूर्वोक्तानि च लिङ्गानि मरणं च बलक्षये |२८|
श्लोक 28
तत्र विस्रंसे व्यापन्ने च क्रियाविशेषैरविरुद्धैर्बलमाप्याययेत् ; इतरं तु मूढसञ्ज्ञं वर्जयेत् ||२८||
श्लोक 29-31
दोषधातुमलक्षीणो बलक्षीणोऽपि वा नरः |
स्वयोनिवर्धनं यत्तदन्नपानं प्रकाङ्क्षति ||२९||
यद्यदाहारजातं तु क्षीणः प्रार्थयते नरः |
तस्य तस्य स लाभे तु तं तं क्षयमपोहति ||३०||
यस्य धातुक्षयाद्वायुः सञ्ज्ञां कर्म च नाशयेत् |
प्रक्षीणं च बलं यस्य नासौ शक्यश्चिकित्सितुम् ||३१||
श्लोक 32
रसनिमित्तमेव स्थौल्यं कार्श्यं च |
तत्र श्लेष्मलाहारसेविनोऽध्यशनशीलस्याव्यायामिनो दिवास्वप्नरतस्य चाम एवान्नरसो मधुरतरश्च शरीरमनुक्रामन्नतिस्नेहान्मेदो जनयति, तदतिस्थौल्यमापादयति ; तमतिस्थूलं क्षुद्रश्वासपिपासाक्षुत्स्वप्नस्वेदगात्रदौर्गन्ध्यक्रथ-नगात्रसादगद्गदत्वानि क्षिप्रमेवाविशन्ति, सौकुमार्यान्मेदसः सर्वक्रियास्वसमर्थः, कफमेदोनिरुद्धमार्गत्वाच्चाल्पव्यवायो भवति, आवृतमार्गत्वादेव शेषा धातवो नाप्यायन्तेऽत्यर्थमतोऽल्पप्राणो भवति, प्रमेहपिडकाज्वरभगन्दरविद्रधिवातविकाराणामन्यतमं प्राप्य पञ्चत्वमुपयाति, सर्व एव चास्य रोगा बलवन्तो भवन्त्यावृतमार्गत्वात् स्रोतसाम्; अतस्तस्योत्पत्तिहेतुं परिहरेत् |
उत्पन्ने तु शिलाजतुगुग्गुलुगोमूत्रत्रिफलालोहरजोरसाञ्जनमधुयवमुद्गको-रदूषकश्यामाकोद्दालकादीनां विरूक्षणच्छेदनीयानां च द्रव्याणां विधिवदुपयोगो व्यायामो लेखनबस्त्युपयोगश्चेति ||३२||
श्लोक 33
तत्र पुनर्वातलाहारसेविनोऽतिव्यायामव्यवायाध्ययनभयशोकध्यानरात्रि-जागरणपिपासाक्षु त्कषायाल्पाशनप्रभृतिभिरुपशोषितो रसधातुः शरीरमननुक्रामन्नल्पत्वान्न प्रीणाति, तस्मादतिकार्श्यं भवति; सोऽतिकृशः क्षुत्पिपासाशीतोष्णवातवर्षभारादानेष्वसहिष्णुर्वातरोगप्रायोऽल्पप्राणश्च क्रियासु भवति, श्वासकासशोषप्लीहोदराग्निसादगुल्मरक्तपित्तानामन्यत-ममासाद्य मरणमुपयाति, सर्व एव चास्य रोगा बलवन्तो भवन्त्यल्पप्राणत्वात्; अतस्तस्योत्पत्तिहेतुं परिहरेत् |
उत्पन्ने तु पयस्याश्वगन्धाविदारिगन्धाशतावरीबलातिबलानागबलानां मधुराणामन्यासां चौषधीनामुपयोगः, क्षीरदधिघृतमांसशालिषष्टिकय-वगोधूमानां च, दिवास्वप्नब्रह्मचर्याव्यायामबृंहणबस्त्युपयोगश्चेति ||३३||
श्लोक 34
यः पुनरुभयसाधारणान्यासेवेत तस्यान्नरसः शरीरमनुक्रामन् समान् धातूनुपचिनोति, समधातुत्वान्मध्यशरीरो भवति सर्वक्रियासु समर्थः क्षुत्पिपासाशीतोष्णवातवर्षातपसहो बलवांश्च, स सततमनुपालयितव्य इति ||३४||
श्लोक 35
भवन्ति चात्र-
अत्यन्तगर्हितावेतौ सदा स्थूलकृशौ नरौ |
श्रेष्ठो मध्यशरीरस्तु कृशः स्थूलात्तु पूजितः ||३५||
श्लोक 36
दोषः प्रकुपितो धातून् क्षपयत्यात्मतेजसा |
इद्धः स्वतेजसा वह्निरुखागतमिवोदकम् ||३६||
श्लोक 37
वैलक्षण्याच्छरीराणामस्थायित्वात्तथैव च |
दोषधातुमलानां तु परिमाणं न विद्यते ||३७||
श्लोक 38
एषां समत्वं यच्चापि भिषग्भिरवधार्यते |
न तत् स्वास्थ्यादृते शक्यं वक्तुमन्येन हेतुना ||३८||
श्लोक 39
दोषादीनां त्वसमतामनुमानेन लक्षयेत् |
अप्रसन्नेन्द्रियं वीक्ष्य पुरुषं कुशलो भिषक् ||३९||
श्लोक 40
(स्वस्थस्य रक्षणं कुर्यादस्वस्थस्य तु बुद्धिमान्) |
क्षपयेद्बृंहयेच्चापि दोषधातुमलान् भिषक् |
तावद्यावदरोगः स्यादेतत्साम्यस्य लक्षणम् ||४०||
श्लोक 41
समदोषः समाग्निश्च समधातुमलक्रियः |
प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते ||४१||
पुष्पिका
इति सुश्रुतसंहितायां सूत्रस्थाने दोषधातुमलक्षयवृद्धिविज्ञानीयो नाम पञ्चदशोऽध्यायः ||१५||