द्रव्यरसगुणवीर्यविपाकविज्ञानीयाध्यायः

श्लोक 1-2

अथातो द्रव्यरसगुणवीर्यविपाकविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

केचिदाचार्या ब्रुवते-द्रव्यं प्रधानं, कस्मात्? व्यवस्थितत्वात्, इह खलु द्रव्यं  व्यवस्थितं न रसादयः, यथा आमे फले ये रसादयस्ते पक्वे न सन्ति;  नित्यत्वाच्च, नित्यं हि द्रव्यमनित्या गुणाः, यथा कल्कादिप्रविभागः, स एव  सम्पन्नरसगन्धो व्यापन्नरसगन्धो [वा भवति; स्वजात्यवस्थानाच्च, यथा हि  पार्थिवं द्रव्यमन्यभावं न गच्छत्येवं शेषाणि; पञ्चेन्द्रियग्रहणाश्च,  पञ्चभिरिन्द्रियैर्गृह्यते द्रव्यं न रसादयः; आश्रयत्वाच्च, द्रव्यमाश्रिता रसादयः; आरम्भसामर्थ्याच्च, द्रव्याश्रित आरम्भः, यथा-विदारिगन्धादिमाहृत्य सङ्क्षुद्य विपचेत्’ इत्येवमादिषु न रसादिष्वारम्भः; शास्त्रप्रामाण्याच्च, शास्त्रे हि द्रव्यं प्रधानमुपदेशे योगानां, यथा-‘ मातुलुङ्गाग्निमन्थौ च’ इत्यादौ न रसादय उपदिश्यन्ते; क्रमापेक्षितत्वाच्च  रसादीनां, रसादयो हि द्रव्यक्रममपेक्षन्ते, यथा-तरुणे तरुणाः सम्पूर्णे सम्पूर्णा इति; एकदेशसाध्यत्वाच्च,  द्रव्याणामेकदेशेनापि व्याधयः साध्यन्ते, यथा-महावृक्षक्षीरेणेति; तस्माद्द्रव्यं प्रधानं, न रसादयः, कस्मात्? निरवयवत्वात् |
द्रव्यलक्षणं तु ‘क्रियागुणवत् समवायिकारणम्’ इति ||३||

श्लोक 4

नेत्याहुरन्ये , रसास्तु प्रधानं; कस्मात्? आगमात्, आगमो हि शास्त्रमुच्यते; शास्त्रे हि रसा अधिकृताः, यथा-रसायत्त आहार इति, तस्मिंस्तु प्राणाः;  उपदेशाच्च, उपदिश्यन्ते हि रसाः, यथा-मधुराम्ललवणा वातं शमयन्ति;  अनुमानाच्च, रसेन ह्यनुमीयते द्रव्यं, यथा-मधुरमिति; ऋषिवचनाच्च, ऋषिवचनं वेदो यथा-किञ्चिदिज्यार्थं मधुरमाहरेदिति, तस्माद्रसाः प्रधानं; रसेषु गुणसञ्ज्ञा |
रसलक्षणमन्यत्रोपदेक्ष्यामः ||४||

श्लोक 5

नेत्याहुरन्ये , वीर्यं प्रधानमिति |
कस्मात्? तद्वशेनौषधकर्मनिष्पत्तेः |
इहौषधकर्माण्यूर्ध्वाधोभागोभयभागसंशोधनसंशमनसङ्ग्राहिकाग्निदी-पनपीडनलेखनबृंहण-रसायनवाजीकरणश्वयथुकरविलयनदहनदारणमादनप्राणघ्नविषप्रशम-नादीनि वीर्यप्राधान्याद्भवन्ति |
तच्च वीर्यं द्विविधमुष्णं शीतं च, अग्नीषोमीयत्वाज्जगतः |
केचिदष्टविधमाहुः- शीतमुष्णं स्निग्धं रूक्षं विशदं पिच्छिलं मृदु तीक्ष्णं चेति |
एतानि वीर्याणि स्वबलगुणोत्कर्षाद्रसमभिभूयात्मकर्म कुर्वन्ति |
यथा तावन्महत्पञ्चमूलं कषायं तिक्तानुरसं वातं शमयति, उष्णवीर्यत्वात्;  तथा कुलत्थः कषायः, कटुकः पलाण्डुः, स्नेहभावाच्च; मधुरश्चेक्षुरसो वातं  वर्धयति, शीतवीर्यत्वात्; कटुका पिप्पली पित्तं शमयति, मृदुशीतवीर्यत्वात्; अम्लमामलकं लवणं सैन्धवं च; तिक्ता काकमाची पित्तं वर्धयति,  उष्णवीर्यत्वात्, मधुरा मत्स्याश्च; कटुकं मूलकं श्लेष्माणं वर्धयति,  स्निग्धवीर्यत्वात्; अम्लं कपित्थं श्लेष्माणां शमयति, रूक्षवीर्यत्वात्, मधुरं  क्षौद्रं च; तदेतन्निदर्शनमात्रमुक्तम् ||५||

श्लोक 6-9

भवन्ति चात्र-
ये रसा वातशमना भवन्ति यदि तेषु वै |
रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम् ||६||

ये रसाः पित्तशमना भवन्ति यदि तेषु वै |
तैक्ष्ण्यौष्ण्यलघुताश्चैव न ते तत्कर्मकारिणः ||७||

ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै |
स्नेहगौरवशैत्यानि न ते तत्कर्मकारिणः ||८||

तस्माद्वीर्यं प्रधानमिति ||९||

श्लोक 10

नेत्याहुरन्ये , विपाकः प्रधानमिति |
कस्मात्? सम्यङ्मिथ्याविपक्वत्वात्; इह सर्वद्रवाण्यभ्यवहृतानि  सम्यङ्मिथ्याविपक्वानि गुणं दोषं वा जनयन्ति |
तत्राहुरन्ये- प्रति रसं पाक इति |
केचित्त्रिविधमिच्छन्ति- मधुरमम्लं कटुकं चेति |
तत्तु न सम्यक्, भूतगुणादामाच्चान्योऽम्लो विपाको नास्ति; पित्तं हि  विदग्धमम्लतामुपैत्याग्नेयत्वात्; यद्येवं लवणोऽप्यन्यः पाको भविष्यति,  श्लेष्मा हि विदग्धो लवणतामुपैतीति |
मधुरो मधुरस्याम्लोऽम्लस्यैवं सर्वेषामिति केचिदाहुः; दृष्टान्तं चोपदिशन्ति-यथा तावत् क्षीरमुखागतं पच्यमानं मधुरमेव स्यात्तथा शालियवमुद्गादयः  प्रकीर्णाः स्वभावमुत्तरकालेऽपि न परित्यजन्ति तद्वदिति |
केचिद्वदन्ति- अबलवन्तो बलवतां वशमायान्तीति |
एवमनवस्थितिः, तस्मादसिद्धान्त एषः |
आगमे हि द्विविध एव पाको मधुरः कटुकश्च |
तयोर्मधुराख्यो गुरुः, कटुकाख्यो लघुरिति |
तत्र पृथिव्यप्तेजोवाय्वाकाशानां द्वैविध्यं भवति गुणसाधर्म्याद्गुरुता लघुता च; पृथिव्यापश्च गुर्व्यः, शेषाणि लघूनि; तस्माद्द्विविध एव पाक इति ||१०||

श्लोक 11-12

भवन्ति चात्र-
द्रव्येषु पच्यमानेषु येष्वम्बुपृथिवीगुणाः |
निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते ||११||

तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु |
निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते ||१२||

श्लोक 13

पृथक्त्वदर्शिनामेष वादिनां वादसङ्ग्रहः |
चतुर्णामपि सामग्र्यमिच्छन्त्यत्र विपश्चितः ||१३||

श्लोक 14

तद्द्रव्यमात्मना किञ्चित्किञ्चिद्वीर्येण सेवितम् |
किञ्चिद्रसविपाकाभ्यां दोषं हन्ति करोति वा ||१४||

श्लोक 15

पाको नास्ति विना वीर्याद्वीर्यं नास्ति विना रसात् |
रसो नास्ति विना द्रव्याद्द्रव्यं श्रेष्ठतमं स्मृतम् ||१५||

श्लोक 16-18

जन्म तु द्रव्यरसयोरन्योन्यापेक्षिकं स्मृतम् |
अन्योन्यापेक्षिकं जन्म यथा स्याद्देहदेहिनोः ||१६||

वीर्यसञ्ज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः |
रसेषु न भवन्त्येते निर्गुणास्तु गुणाः स्मृताः ||१७||

द्रव्ये द्रव्याणि यस्माद्धि विपच्यन्ते न षड्रसाः |
श्रेष्ठं द्रव्यमतो ज्ञेयं, शेषा भावास्तदाश्रयाः ||१८||

श्लोक 19

अमीमांस्यान्यचिन्त्यानि प्रसिद्धानि स्वभावतः |
आगमेनोपयोज्यानि भेषजानि विचक्षणैः ||१९||

श्लोक 20-21

प्रत्यक्षलक्षणफलाः प्रसिद्धाश्च स्वभावतः |
नौषधीर्हेतुभिर्विद्वान् परीक्षेत कदाचन ||२०||

सहस्रेणापि हेतूनां नाम्बष्ठादिर्विरचयेत् |
तस्मात्तिष्ठेत्तु मतिमानागमे न तु हेतुषु ||२१||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यगुणरसवीर्यविपाकविज्ञानीयो नाम  चत्वारिंशत्तमोऽध्यायः ||४०||