धामार्गवकल्पः

श्लोक 1-2

अथातो धामार्गवकल्पं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

कर्कोटकी कोठफला महाजालिनिरेव च|
धामार्गवस्य पर्याया राजकोशातकी तथा||३||

श्लोक 4-5

गरे गुल्मोदरे कासे वाते श्लेष्माशयस्थिते|
कफे च कण्ठवक्रस्थे कफसञ्चयजेषु च||४||

रोगेष्वेषु प्रयोज्यं स्यात् स्थिराश्च गुरवश्च ये|५|

श्लोक 5

फलं पुष्पं प्रवालं च विधिना तस्य संहरेत्||५||

श्लोक 6

प्रवालस्वरसं शुष्कं कृत्वा च गुलिकाः पृथक्|
कोविदारादिभिः पेयाः कषायैर्मधुकस्य च||६||

श्लोक 7

पुष्पादिषु पयोयोगाश्चत्वारः पञ्चमी सुरा|
पूर्ववत्…|७|

श्लोक 7-9

… जीर्णशुष्काणामतः कल्पः प्रवक्ष्यते||७||

मधुकस्य कषायेण बीजकण्ठोद्धृतं फलम्|
सगुडं व्युषितं रात्रिं कोविदारादिभिस्तथा||८||

दद्याद्गुल्मोदरार्तेभ्यो ये चाप्यन्ये कफामयाः|९|

श्लोक 9

दद्यादन्नेन संयुक्तं छर्दिहृद्रोगशान्तये||९||

श्लोक 10

चूर्णैर्वाऽप्युत्पलादीनि भावितानि प्रभूतशः|
रसक्षीरयवाग्वादितृप्तो घ्रात्वा वमेत् सुखम्||१०||

श्लोक 11-12

चूर्णीकृतस्य वर्तिं वा कृत्वा बदरसम्मिताम्|
विनीयाञ्जलिमात्रे तु पिबेद्गोऽश्वशकृद्रसे ||११||

पृषतर्ष्यकुरङ्गाह्वगजोष्ट्राश्वतराविके|
श्वदंष्ट्रखरखङ्गानां चैवं पेया शकृद्रसे ||१२||

श्लोक 13-15

जीवकर्षभकौ वीरामात्मगुप्तां शतावरीम्|
काकोलीं श्रावणीं मेदां महामेदां मधूलिकाम्||१३||

एकैकशोऽभिसञ्चूर्ण्य सह धामार्गवेण ते|
शर्करामधुसंयुक्ता लेहा हृद्दाहकासिनाम्||१४||

सुखोदकानुपानाः स्युः पित्तोष्मसहिते कफे|१५|

श्लोक 15

धान्यतुम्बुरुयूषेण कल्कः सर्वविषापहः||१५||

श्लोक 16-18

जात्याः सौमनसायिन्या रजन्याश्चोरकस्य च|
वृश्चीरस्य महाक्षुद्रसहाहैमवतस्य च||१६||

बिम्ब्याः पुनर्नवाया वा कासमर्दस्य वा पृथक् |
एकं धामार्गवं द्वे वा कषाये परिमृद्य तु||१७||

पूतं मनोविकारेषु पिबेद्वमनमुत्तमम्|१८|

श्लोक 18

तच्छृतक्षीरजं सर्पिः साधितं वा फलादिभिः||१८||

श्लोक 19-20

तत्र श्लोकौ-
पल्लवे नव चत्वारः क्षीर एकः सुरासवे|
कषाये विंशतिः कल्के दश द्वौ च शकृद्रसे||१९||

अन्न एकस्तथा घ्रेये दश लेहास्तथा घृतम्|
कल्पे धामार्गवस्योक्ताः षष्टिर्योगा महर्षिणा||२०||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते  कल्पस्थाने  धामार्गवकल्पो नाम चतुर्थोऽध्यायः||४||