धूमनस्यकवलग्रहचिकित्सितम्

श्लोक 1-2

अथातो धूमनस्यकवलग्रहचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

धूमः पञ्चविधो भवति; तद्यथा- प्रायोगिकः, स्नैहिको, वैरेचनिकः,  कासघ्नो, वामनीयश्चेति ||३||

श्लोक 4

तत्रैलादिना कुष्ठतगरवर्ज्येन श्लक्ष्णपिष्टेन द्वादशाङ्गुलं  शरकाण्डमङ्गुलिपरिणाहं क्षौमेणाष्टाङ्गुलं वेष्टयित्वा लेपयेदेषा वर्तिः प्रायोगिके , स्नेहफलसारमधूच्छिष्टसर्जरसगुग्गुलुप्रभृतिभिः स्नेहमिश्रैः  स्नैहिके, शिरोविरेचनद्रव्यैर्वैरेचने,  बृहतीकण्टकारिकात्रिकटुकासमर्दहिङ्ग्विङ्गुदीत्वङ्मनःशिलाच्छि-न्नरुहाकर्कटशृङ्गीप्रभृतिभिः कासहरैश्च कासघ्ने,  स्नायुचर्मखुरशृङ्गकर्कटकास्थिशुष्कमत्स्यवल्लूरकृमिप्रभृतिभिर्वाम-नीयैश्च वामनीये ||४||

श्लोक 5

तत्र बस्तिनेत्रद्रव्यैर्धूमनेत्रद्रव्याणि व्याख्यातानि भवन्ति |
धूमनेत्रं तु कनिष्ठिकापरिणाहमग्रे कलायमात्रस्रोतो मूलेऽङ्गुष्ठपरिणाहं धूमवर्तिप्रवेशस्रोतोऽङ्गुलान्यष्टचत्वारिंशत् प्रायोगिके, द्वात्रिंशत् स्नेहने,चतुर्विंशतिर्वैरेचने, षोडशाङ्गुलं कासघ्ने वामनीये च |
एतेऽपि कोलास्थिमात्रच्छिद्रे भवतः |
व्रणनेत्रमष्टाङ्गुलं व्रणधूपनार्थं कलायपरिमण्डलं कुलत्थवाहिस्रोत इति ||५||

श्लोक 6-9

अथ सुखोपविष्टः सुमना ऋज्वधोदृष्टिरतन्द्रितः स्नेहाक्तदीप्ताग्रां वर्तिं  नेत्रस्रोतसि प्रणिधाय धूमं पिबेत् ||६||

मुखेन तं पिबेत् पूर्वं नासिकाभ्यां ततः पिबेत् |
मुखपीतं मुखेनैव वमेत् पीतं च नासया ||७||

मुखेन धूममादाय नासिकाभ्यां न निर्हरेत् |
तेन हि प्रतिलोमेन दृष्टिस्तत्र निहन्यते ||८||

विशेषतस्तु प्रायोगिकं घ्राणेनाददीत, स्नैहिकं मुखनासाभ्यां,  नासिकया वैरेचनिकं, मुखेनैवेतरौ ||९||

श्लोक 10

तत्र प्रायोगिके वर्तिं व्यपगतशरकाण्डां  निवातातपशुष्कामङ्गारेष्ववदीप्य नेत्रमूलस्रोतसि प्रयुज्य धूममाहरेति  ब्रूयात्; एवं स्नेहनं वैरेचनिकं च कुर्यादिति |
इतरयोर्व्यपेतधूमाङ्गारे स्थिरे समाहिते शरावे प्रक्षिप्य वर्तिं  मूलच्छिद्रेणान्येन शरावेण पिधाय तस्मिन् छिद्रे नेत्रमूलं संयोज्य  धूममासेवेत, प्रशान्ते धूमे वर्तिमवशिष्टां प्रक्षिप्य पुनरपि धूमं  पाययेदादोषविशुद्धेः; एष धूमपानोपायविधिः ||१०||

श्लोक 11

तत्र शोकश्रमभयामर्षौष्ण्यविषरक्तपित्तमदमूर्च्छादाहपिपासापाण्डु-रोगतालुशोषच्छर्दिशिरोऽभिघातोद्गारापतर्पित-तिमिरप्रमेहोदराध्मानोर्ध्ववातार्ता बालवृद्धदुर्बलविरिक्तास्थापितजा-गरितगर्भिणीरूक्षक्षीणक्षतोरस्क-मधुघृतदधिदुग्धमत्स्यमद्ययवागूपीताल्पकफाश्च न धूममासेवेरन् ||११||

श्लोक 12

अकालपीतः कुरुते भ्रमं मूर्च्छां शिरोरुजम् |
घ्राणश्रोत्राक्षिजिह्वानामुपघातं च दारुणम् ||१२||

श्लोक 13

आद्यास्तु त्रयो धूमा द्वादशसु कालेषूपादेयाः |
तद्यथा-क्षुतदन्तप्रक्षालननस्यस्नानभोजनदिवास्वप्नमैथुनच्छर्दिमूत्रोच्चार-हसितरुषितशस्त्रकर्मान्तेष्विति |
तत्र विभागो-मूत्रोच्चारक्षवथुहसितरुषितमैथुनान्तेषु स्नैहिकः,  स्नानच्छर्दनदिवास्वप्नान्तेषु वैरेचनिकः, दन्तप्रक्षालनस्य  स्नानभोजनशस्त्रकर्मान्तेषु प्रायोगिक इति ||१३||

श्लोक 14

तत्र स्नैहिको वातं शमयति, स्नेहादुपलेपाच्च; वैरेचनः  श्लेष्माणमुत्क्लेश्यापकर्षति, रौक्ष्यात्तैक्ष्ण्यादौष्ण्याद्वैशद्याच्च; प्रायोगिकः श्लेष्माणमुत्क्लेशयत्युत्क्लिष्टं चापकर्षति शमयति वातं साधारणत्वात्  पूर्वाभ्यामिति ||१४||

श्लोक 15-16

भवति चात्र-
नरो धूमोपयोगाच्च प्रसन्नेन्द्रियवाङ्मनाः |
दृढकेशद्विजश्मश्रुः सुगन्धिविशदाननः ||१५||

तथा कासश्वासारोचकास्योपलेपस्वरभेदमुखास्रावक्षवथुवमथुक्रथ-तन्द्रानिद्राहनुमन्यास्तम्भाः पीनसशिरोरोगकर्णाक्षिशूला  वातकफनिमित्ताश्चास्य मुखरोगा न भवन्ति ||१६||

श्लोक 17

तस्य योगायोगातियोगा विज्ञातव्याः |
तत्र योगो रोगप्रशमनः, अयोगो रोगाप्रशमनः,  तालुगलशोषपरिदाहपिपासामूर्च्छाभ्रममदकर्णक्ष्वेडदृष्टिनासारोग-दौर्बल्यान्यतियोगो जनयति ||१७||

श्लोक 18

प्रायोगिकं त्रींस्त्रीनुच्छ्वासानाददीत मुखनासिकाभ्यां च  पर्यायांस्त्रींश्चतुरोवेति, स्नैहिकं यावदश्रुपवृत्तिः, वैरेचनिकमादोषदर्शनात्,तिलतण्डुलयवागूपीतेन पातव्यो वामनीयः, ग्रासान्तरेषु कासघ्न इति  ||१८||

श्लोक 19-20

व्रणधूमं शरावसम्पुटोपनीतेन नेत्रेण व्रणमानयेत्, धूमपानाद्वेदनोपशमो व्रणवैशद्यमास्रावोपशमश्च भवति ||१९||

विधिरेष समासेन धूमस्याभिहितो मया |
नस्यस्यातः प्रवक्ष्यामि विधिं निरवशेषतः ||२०||

श्लोक 21

औषधमौषधसिद्धो वा स्नेहो नासिकाभ्यां दीयत इति नस्यम् |
तद्द्विविधं शिरोविरेचनं, स्नेहनं च |
तद्द्विविधमपि पञ्चधा |
तद्यथा- नस्यं, शिरोविरेचनं, प्रतिमर्शो, अवपीडः, प्रधमनं च |
तेषु नस्यं प्रधानं शिरोविरेचनं च; नस्यविकल्पः प्रतिमर्शः,  शिरोविरेचनविकल्पोऽवपीडः प्रधमनं च; ततो नस्यशब्दः पञ्चधा  नियमितः ||२१||

श्लोक 22

तत्र यः स्नेहनार्थं शून्यशिरसां ग्रीवास्कन्धोरसां च बलजननार्थं  दृष्टिप्रसादजननार्थं वा स्नेहो विधीयते तस्मिन् वैशेषिको नस्यशब्दः |
तत्तु देयं वाताभिभूते शिरसि  दन्तकेशश्मश्रुप्रपातदारुणकर्णशूलकर्णक्ष्वेडतिमिरस्वरोपघात-नासारोगास्यशोषावबाहुकाकालजवलीपलितप्रादुर्भावदारुणप्रबोधेषु  वातपैत्तिकेषु मुखरोगेष्वन्येषु च वातपित्तहरद्रव्यसिद्धेन स्नेहेनेति ||२२||

श्लोक 23

शिरोविरेचनं श्लेष्मणाऽभिव्याप्ततालुकण्ठशिरसामरोचकशिरोगौ-रवशूलपीनसार्धावभेदक-कृमिप्रतिश्यायापस्मारगन्धाज्ञानेष्वन्येषुचोर्ध्वजत्रुगतेषु कफजेषु  विकारेषु शिरोविरेचनद्रव्यैस्तत्सिद्धेन वा स्नेहेनेति ||२३||

श्लोक 24

तत्रैतद्द्विविधमप्यभुक्तवतोऽन्नकाले पूर्वाह्णे श्लेष्मरोगिणां, मध्याह्ने  पित्तरोगिणां, अपराह्णे वातरोगिणाम् ||२४||

श्लोक 25-27

अथ पुरुषाय शिरोविरेचनीयाय त्यक्तमूत्रपुरीषाय भुक्तवते व्यभ्रे  काले दन्तकाष्ठधूमपानाभ्यां विशुद्धवक्त्रस्रोतसे  पाणितापपरिस्विन्नमृदितगलकपोलललाटप्रदेशाय वातातपरजोहीने  वेश्मन्युत्तानशायिने प्रसारितकरचरणाय किञ्चित् प्रविलम्बितशिरसे  वस्त्राच्छादितनेत्राय वामहस्तप्रदेशिन्यग्रोन्नामितनासाग्राय  विशुद्धस्रोतसि दक्षिणहस्तेन स्नेहमुष्णाम्बुना प्रतप्तं  रजतसुवर्णताम्रमणिमृत्पात्रशुक्तीनामन्यतमस्थं शुक्त्या पिचुना वा  सुखोष्णं स्नेहमद्रुतमासिञ्चेदव्यवच्छिन्नधारं यथा नेत्रे न प्राप्नोति ||२५||

स्नेहेऽवसिच्यमाने तु शिरो नैव प्रकम्पयेत् |
न कुप्येन्न प्रभाषेच्च न क्षुयान्न हसेत्तथा ||२६||

एतैर्हि विहतः स्नेहो न सम्यक् प्रतिपद्यते |
ततः कासप्रतिश्यायशिरोऽक्षिगदसम्भवः ||२७||

श्लोक 28

तस्य प्रमाणमष्टौ बिन्दवः प्रदेशिनीपर्वद्वयनिःसृताः प्रथमा मात्रा,  द्वितीया शुक्तिः, तृतीया पाणिशुक्तिः, इत्येतास्तिस्रो मात्रा यथाबलं  प्रयोज्याः ||२८||

श्लोक 29-30

स्नेहनस्यं नोपगिलेत्कथञ्चिदपि बुद्धिमान् ||२९||

शृङ्गाटकमभिप्लाव्य निरेति वदनाद्यथा |
कफोत्क्लेशभयाच्चैनं निष्ठीवेदविधारयन् ||३०||

श्लोक 31

दत्ते च पुनरपि संस्वेद्य गलकपोलादीन् धूममासेवेत,  भोजयेच्चैनमभिष्यन्दि, ततोऽस्याचारिकमादिशेत्;  रजोधूमस्नेहातपमद्यद्रवपानशिरःस्नानातियानक्रोधादीनि च परिहरेत्  ||३१||

श्लोक 32-35

तस्य योगातियोगायोगानामिदं विज्ञानं भवति ||३२||

लाघवं शिरसो योगे सुखस्वप्नप्रबोधनम् |
विकारोपशमः शुद्धिरिन्द्रियाणां मनःसुखम् ||३३||

कफप्रसेकः शिरसो गुरुतेन्द्रियविभ्रमः |
लक्षणं मूर्ध्न्यतिस्निग्धे रूक्षं तत्रावचारयेत् ||३४||

अयोगे वातवैगुण्यमिन्द्रियाणां च रूक्षता |
रोगाशान्तिश्च तत्रेष्टं भूयो नस्यं प्रयोजयेत् ||३५||

श्लोक 36

चत्वारो बिन्दवः षड् वा तथाऽष्टौ वा यथाबलम् |
शिरोविरेकस्नेहस्य प्रमाणमभिनिर्दिशेत् ||३६||

श्लोक 37-43

नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः |
शुद्ध(द्धि)हीनातिसञ्ज्ञानि विशेषाच्छास्त्रचिन्तकैः ||३७||

लाघवं शिरसः शुद्धिः स्रोतसां व्याधिनिर्जयः |
चित्तोन्द्रियप्रसादश्च शिरसः शुद्धिलक्षणम् ||३८||

कण्डूपदेहौ गुरुता स्रोतसां कफसंस्रवः |
मूर्ध्नि हीनविशुद्धे तु लक्षणं परिकीर्तितम् ||३९||

मस्तुलुङ्गागमो वातवृद्धिरिन्द्रियविभ्रमः |
शून्यता शिरसश्चापि मूर्ध्नि गाढविरेचिते ||४०||

हीनातिशुद्धे शिरसि कफवातघ्नमाचरेत् |
सम्यग्विशुद्धे शिरसि सर्पिर्नस्यं निषेचयेत् ||४१||

(एकान्तरं द्व्यन्तरं वा सप्ताहं वा पुनः पुनः |
एकविंशतिरात्रं वा यावद्वा साधु मन्यते ||४२||

मारुतेनाभिभूतस्य वाऽत्यन्तं यस्य देहिनः |
द्विकालं चापि दातव्यं नस्यं तस्य विजानता ) ||४३||

श्लोक 44-45

अवपीडस्तु शिरोविरेचनवदभिष्यण्णसर्पदष्टविसञ्ज्ञेभ्यो  दद्याच्छिरोविरेचनद्रव्याणामन्यतममवपिष्यावपीड्य च,  शर्करेक्षुरसक्षीरघृतमांसरसानामन्यतमं क्षीणानां शोणितपित्ते च  विदध्यात् ||४४||

कृशदुर्बलभीरूणां सुकुमारस्य योषिताम् |
शृताः स्नेहाः शिरःशुद्ध्यै कल्कस्तेभ्यो यथा हितः ||४५||

श्लोक 46

चेतोविकारकृमिविषाभिपन्नानां चूर्णं प्रधमेत् ||४६||

श्लोक 47

नस्येन परिहर्तव्यो भुक्तवानपतर्पितोऽत्यर्थतरुणप्रतिश्यायी गर्भिणी  पीतस्नेहोदकमद्यद्रवोऽजीर्णी दत्तबस्तिः क्रुद्धो गरार्तस्तृषितः  शोकाभिभूतःश्रान्तो बालो वृद्धो वेगावरोधितः शिरःस्नातुकामश्चेति;  अनार्तवे चाभ्रे नस्यधूमौ परिहरेत् ||४७||

श्लोक 48

तत्र हीनातिमात्रातिशीतोष्णसहसाप्रदानादतिप्रविलम्बितशिरस  उच्छिङ्घतो विचलतोऽभ्यवहरतो वा प्रतिषिद्धप्रदानाच्च व्यापदो भवन्ति तृष्णोद्गारादयो दोषनिमित्ताः क्षयजाश्च ||४८||

श्लोक 49

भवतश्चात्र-
नस्ये शिरोविरेके च व्यापदो द्विविधाः स्मृताः |
दोषोत्क्लेशात् क्षयाच्चैव विज्ञेयास्ता यथाक्रमम् ||४९||

श्लोक 50

दोषोक्लेशनिमित्तास्तु जयेच्छमनशोधनैः |
अथ क्षयनिमित्तासु यथास्वं बृंहणं हितम् ||५०||

श्लोक 51-53

प्रतिमर्शश्चतुर्दशसु कालेषूपादेयः; तद्यथा-तल्पोत्थितेन, प्रक्षालितदन्तेन,  गृहान्निर्गच्छता, व्यायामव्यवायाध्वपरिश्रान्तेन, मूत्रोच्चारकवलाञ्जनान्ते, भुक्तवता, छर्दितवता, दिवास्वप्नोत्थितेन,सायं चेति ||५१||

तत्र तल्पोत्थितेनासेवितः प्रतिमर्शो रात्रावुपचितं नासास्रोतोगतं  मलमुपहन्ति मनःप्रसादं च करोति, प्रक्षालितदन्तेनासेवितो दन्तानां  दृढतां वदनसौगन्ध्यं चापादयति, गृहान्निर्गच्छता सेवितो नासास्रोतसः क्लिन्नतया रजोधूमो वा न बाधते, व्यायाममैथुनाध्वपरिश्रान्तेनासेवितः श्रममुपहन्ति, मूत्रोच्चारान्ते सेवितो दृष्टेर्गुरुत्वमपनयति, कवलाञ्जनान्ते सेवितो दृष्टिं प्रसादयति, भुक्तवता सेवितः स्रोतसां विशुद्धिं लघुतां  चापादयति, वान्तेनासेवितः स्रोतोविलग्नं श्लेष्माणमपोह्य  भक्ताकाङ्क्षामापादयति, दिवास्वप्नोत्थितेनासेवितो निद्राशेषं गुरुत्वं  मलं चापोह्य चित्तैकाग्र्यं जनयति, सायं चासेवितः सुखनिद्राप्रबोधं चेति  ||५२||

ईषदुच्छिङ्घतः स्नेहो यावद्वक्त्रं प्रपद्यते |
नस्ये निषिक्तं तं विद्यात् प्रतिमर्शं प्रमाणतः ||५३||

श्लोक 54-55

नस्येन रोगाः शाम्यन्ति नराणामूर्ध्वजत्रुजाः |
इन्द्रियाणां च वैमल्यं कुर्यादास्यं सुगन्धि च ||५४||

हनुदन्तशिरोग्रीवात्रिकबाहूरसां बलम् |
वलीपलितखालित्यव्यङ्गानां चाप्यसम्भवम् ||५५||

श्लोक 56-57

तैलं कफे सवाते स्यात् केवले पवने वसाम् |
दद्यात्सर्पिः सदा पित्ते मज्जानं च समारुते ||५६||

चतुर्विधस्य स्नेहस्य विधिरेवं प्रकीर्तितः |
श्लेष्मस्थानाविरोधित्वात्तेषु तैलं विधीयते ||५७||

श्लोक 58-60

अतः परं प्रवक्ष्यामि कवलग्रहणे विधिम् |
चतुर्धा कवलः स्नेही प्रसादी शोधिरोपणौ ||५८||

स्निग्धोष्णैः स्नैहिको वाते, स्वादुशीतैः प्रसादनः |
पित्ते, कट्वम्ललवणै रूक्षोष्णैः शोधनः कफे ||५९||

कषायतिक्तमधुरैः कटूष्णै रोपणो व्रणे |
चतुर्विधस्य चैवास्य विशेषोऽयं प्रकीर्तितः ||६०||

श्लोक 61

तत्र त्रिकटुकवचासर्षपहरीतकीकल्कमालोड्य  तैलशुक्तसुरामूत्रक्षारमधूनामन्यतमेन  सलवणमभिप्रतप्तमुपस्विन्नमृदितगलकपोलललाटप्रदेशो धारयेत्  ||६१||

श्लोक 62

सुखं सञ्चार्यते या तु मात्रा स (सा) कवलः स्मृतः |
असञ्चार्या तु या मात्रा गण्डूषः स प्रकीर्तितः ||६२||

श्लोक 63

तावच्च धारयितव्योऽनन्यमनसोन्नतदेहेन यावद्दोषपरिपूर्णकपोलत्वं  नासास्रोतोनयनपरिप्लावश्च भवति तदा विमोक्तव्यः, पुनश्चान्यो  ग्रहीतव्य इति ||६३||

श्लोक 64

एवं स्नेहपयःक्षौद्ररसमूत्राम्लसम्भृताः |
कषायोष्णोदकाभ्यां च कवला दोषतो हिताः ||६४||

श्लोक 65-67

व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम् |
इन्द्रियाणां प्रसादश्च कवले शुद्धिलक्षणम् ||६५||

हीने जाड्यकफोत्क्लेशावरसज्ञानमेव च |
अतियोगान्मुखे पाकः शोषतृष्णारुचिक्लमाः ||६६||

शोधनीये विशेषेण भवन्त्येव न संशयः |६७|

श्लोक 67-68

तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च ||६७||

सक्षौद्रो दग्धवक्त्रस्य गण्डूषो दाहनाशनः |
कवलस्य विधिर्ह्येष समासेन प्रकीर्तितः ||६८||

श्लोक 69-70

विभज्य भेषजं बुद्ध्या कुर्वीत प्रतिसारणम् |
कल्को रसक्रिया क्षौद्रं चूर्णं चेति चतुर्विधम् ||६९||

अङ्गुल्यग्रप्रणीतं तु यथास्वं मुखरोगिणाम् |७०|

श्लोक 70-71

तस्मिन् योगमयोगं च कवलोक्तं विभावयेत् ||७०||

तानेव शमयेद् व्याधीन् कवलो यानपोहति |
दोषघ्नमनभिष्यन्दि भोजयेच्च तथा नरम् ||७१||

पुष्पिका

इति सुश्रुतसंहितायां चिकित्सास्थाने धूमनस्यकवलग्रहचिकित्सितं नाम चत्वारिंशोऽध्यायः ||४०||
इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन  विरचितायां सुश्रुतसंहितायां चतुर्थं चिकित्सास्थानं समाप्तम्|
error: Content is protected !!