नाडीव्रणनिदानम्

श्लोक 1

नाडीव्रणस्य सम्प्राप्तिः

अथ नाडीव्रणनिदानम् |
यः शोथमाममतिपक्वमुपेक्षतेऽज्ञो यो वा व्रणं प्रचुरपूयमसाधुवृत्तः |
अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः सपूयः  ||१||
(सु. नि. अ. १०) |

श्लोक 2

नाडीव्रणस्य निरुक्तिः

तस्यातिमात्रगमनाद्गतिरिष्यते तु नाडीव यद्वहति तेन मता तु नाडी |२|
(सु. नि. अ. १०) |

श्लोक 2

नाडीव्रणसङ्ख्या

दोषैस्त्रिभिर्भवति सा पृथगेकशश्च सम्मूर्छितैरपि च शल्यनिमित्ततोऽन्या ||२||
(सु. नि. अ. १०) |

श्लोक 3

वातजनाडीव्रणलक्षणम्

तत्रानिलात् परुषसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्रवति क्षपासु  |३|
(सु. नि. अ. १०) |

श्लोक 3

पित्तजनाडीव्रणलक्षणम्

पित्तात्तृषाज्वरकरी परिदाहयुक्ता पीतं स्रवत्यधिकमुष्णमहःसु चापि  ||३||
(सु. नि. अ. १०) |

श्लोक 4

कफजनाडीव्रणलक्षणम्

ज्ञेया कफाद्बहुघनार्जुनपिच्छिलास्रा स्तब्धा सकण्डुररुजा रजनीप्रवृद्धा  |४|
(सु. नि. अ. १०) |

श्लोक 4

त्रिदोषजनाडीव्रणलक्षणम्

दाहज्वरश्वसनमूर्छनवक्त्रशोषा यस्यां भवन्त्यभिहितानि च लक्षणानि  ||४||
तामादिशेत् पवनपित्तकफप्रकोपाद्घोरामसुक्षयकरीमिव कालारात्रिम् |
(सु. नि. अ. १०) |

श्लोक 5

शल्यनिमित्तजनाडीव्रणलक्षणम्

नष्टं कथञ्चिदनुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति ||५||
सा फेनिलं मथितमुष्णमसृग्विमिश्रं स्रावं करोति सहसा सरुजा च  नित्यम् |
(सु. नि. अ. १०) |

श्लोक 6

नाडीव्रणस्य साध्यत्वादिलक्षणम्

नाडी त्रिदोषप्रभवा न सिध्येच्छेषाश्चतस्रः खलु यत्नसाध्याः ||६||
(सु. चि. अ. १७) |

पुष्पिका

इति श्रीमाधवकरविरचिते माधवनिदाने नाडीव्रणनिदानं समाप्तम्  ||४५||