नासागतरोगविज्ञानीयाध्यायः

श्लोक 1-2

अथातो नासागतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3-5

अपीनसः पूतिनस्यं नासापाकस्तथैव च |
तथा शोणितपित्तं च पूयशोणितमेव च ||३||

क्षवथुर्भ्रंशथुर्दीप्तो नासानाहः परिस्रवः |
नासाशोषेण सहिता दशैकाश्चेरिता गदाः ||४||

चत्वार्यर्शांसि चत्वारः शोफाः सप्तार्बुदानि च |
प्रतिश्यायाश्च ये पञ्च वक्ष्यन्ते सचिकित्सिताः |
एकत्रिंशन्मितास्ते तु नासारोगाः प्रकीर्तिताः ||५||

श्लोक 6-7

आनह्यते यस्य विधूप्यते च प्रक्लिद्यते शुष्यति चापि नासा |
न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन ||६||

तं चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम् |७|

श्लोक 7-8

दोषैर्विदग्धैर्गलतालुमूले संवासितो यस्य समीरणस्तु ||७||

निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनासं प्रवदन्ति रोगम् |८|

श्लोक 8-9

घ्राणाश्रितं पित्तमरूंषि कुर्याद्यस्मिन् विकारे बलवांश्च पाकः ||८||

तं नासिकापाकमिति व्यवस्येद्विक्लेदकोथावपि यत्र दृष्टौ |९|

श्लोक 9

चतुर्विधं द्विप्रभवं द्विमार्गं वक्ष्यामि भूयः खलु रक्तपित्तम् ||९||

श्लोक 10

दोषैर्विदग्धैरथवाऽपि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तु |
नासा स्रवेत् पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् ||१०||

श्लोक 11-12

घ्राणाश्रिते मर्मणि सम्प्रदुष्टे यस्यानिलो नासिकया निरेति ||११||

कफानुयातो बहुशः सशब्दस्तं रोगमाहुः क्षवथुं विधिज्ञाः |१२|

श्लोक 12-13

तीक्ष्णोपयोगादतिजिघ्रतो वा भावान् कटूनर्कनिरीक्षणाद्वा ||१२||

सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्घाटितेऽन्यः क्षवथुर्निरेति |१३|

श्लोक 13-14

प्रभ्रश्यते नासिकयैव यश्च सान्द्रो विदग्धो लवणः कफस्तु ||१३||

प्राक् सञ्चितो मूर्धनि पित्ततप्तस्तं भ्रंशथुं व्याधिमुदाहरन्ति |१४|

श्लोक 14-15

घ्राणे भृशं दाहसमन्विते तु विनिःसरेद्धूम इवेह वायुः ||१४||

नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिं तु तं दीप्तमुदाहरन्ति |१५|

श्लोक 15-16

कफावृतो वायुरुदानसञ्ज्ञो यदा स्वमार्गे विगुणः स्थितः स्यात् ||१५||

घ्राणं वृणोतीव तदा स रोगो नासाप्रतीनाह इति प्रदिष्टः |१६|

श्लोक 16-17

अजस्रमच्छं सलिलप्रकाशं यस्याविवर्णं स्रवतीह नासा ||१६||

रात्रौ विशेषेण हि तं विकारं नासापरिस्रावमिति व्यवस्येत् |१७|

श्लोक 17-18

घ्राणाश्रिते श्लेष्मणि मारुतेन पित्तेन गाढं परिशोषिते च ||१७||

समुच्छ्वसित्यूर्ध्वमधश्च कृच्छ्राद्यस्तस्य नासापरिशोष उक्तः |१८|

श्लोक 18-19

दोषैस्त्रिभिस्तैः पृथगेकशश्च ब्रूयात्तथाऽर्शांसि तथैव शोफान् ||१८||

शालाक्यसिद्धान्तमवेक्ष्य चापि सर्वात्मकं सप्तममर्बुदं तु |१९|

श्लोक 19

रोगः प्रतिश्याय इहोपदिष्टः स वक्ष्यते पञ्चविधः पुरस्तात् ||१९||

श्लोक 20

(नासास्रोतोगता रोगास्त्रिंशदेकश्च कीर्तिताः |२०|

श्लोक 20

स्रोतःपथे यद्विपुलं कोशवच्चार्बुदं भवेत् ) ||२०||

श्लोक 21

शोफास्तु शोफविज्ञाना नासास्रोतोव्यवस्थिताः |
निदानेऽर्शांसि निर्दिष्टान्येवं तानि विभावयेत् ||२१||

पुष्पिका

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे  नासागतरोगविज्ञानीयो नाम द्वाविंशोऽध्यायः ||२२||