श्लोक 1-2
अथातो नैगमेषप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3-4
बिल्वाग्निमन्थपूतीकाः कार्याः स्युः परिषेचने |
सुरा सबीजं धान्याम्लं परिषेके च शस्यते ||३||
प्रियङ्गुसरलानन्ताशतपुष्पाकुटन्नटैः |
पचेत्तैलं सगोमूत्रैर्दधिमस्त्वम्लकाञ्जिकैः ||४||
श्लोक 5
पञ्चमूलद्वयक्वाथे क्षीरे मधुरकेषु च |
पचेद्घृतं च मेधावी खर्जूरीमस्तकेऽपि वा ||५||
श्लोक 6
वचां वयःस्थां गोलोमीं जटिलां चापि धारयेत् |
उत्सादनं हितं चात्र स्कन्दापस्मारनाशनम् ||६||
श्लोक 7
सिद्धार्थकवचाहिङ्गुकुष्ठं चैवाक्षतैः सह |
भल्लातकाजमोदाश्च हितमुद्धूपनं शिशोः ||७||
श्लोक 8
मर्कटोलूकगृध्राणां पुरीषाणि नवग्रहे |
धूपः सुप्ते जने कार्यो बालस्य हितमिच्छता ||८||
श्लोक 9
तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि |
कुमारपितृमेषाय वृक्षमूले निवेदयेत् ||९||
श्लोक 10-11
अधस्ताद्वटवृक्षस्य स्नपनं चोपदिश्यते |
बलिं न्यग्रोधवृक्षेषु तिथौ षष्ठ्यां निवेदयेत् ||१०||
अजाननश्चलाक्षिभ्रः कामरूपी महायशाः |
बालं बालपिता देवो नैगमेषोऽभिरक्षतु ||११||
पुष्पिका
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे नैगमेषप्रतिषेधो नाम (दशमोऽध्यायः, आदितः) षट्त्रिंशोऽध्यायः ||३६||