पाण्डुरोगचिकित्सितम्

श्लोक 1-2

अथातः पाण्डुरोगचिकित्सितं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः|
चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः||३||

श्लोक 4-6

दोषाः पित्तप्रधानास्तु यस्य कुप्यन्ति धातुषु|
शैथिल्यं तस्य धातूनां गौरवं चोपजायते||४||

ततो वर्णबलस्नेहा ये चान्येऽप्योजसो गुणाः|
व्रजन्ति क्षयमत्यर्थं दोषदूष्यप्रदूषणात्||५||

सोऽल्परक्तोऽल्पमेदस्को निःसारः शिथिलेन्द्रियः|
वैवर्ण्यं भजते, तस्य हेतुं शृणु सलक्षणम्||६||

श्लोक 7-12

क्षाराम्ललवणात्युष्णविरुद्धासात्म्यभोजनात्|
निष्पावमाषपिण्याकतिलतैलनिषेवणात्||७||

विदग्धेऽन्ने दिवास्वप्नाद्व्यायामान्मैथुनात्तथा|
प्रतिकर्मर्तुवैषम्याद्वेगानां च विधारणात्||८||

कामचिन्ताभयक्रोधशोकोपहतचेतसः|
समुदीर्णं यदा पित्तं हृदये समवस्थितम्||९||

वायुना बलिना क्षिप्तं सम्प्राप्य धमनीर्दश|
प्रपन्नं केवलं देहं त्वङ्मांसान्तरमाश्रितम्||१०||

प्रदूष्य कफवातासृक्त्वङ्मांसानि करोति तत्|
पाण्डुहारिद्रहरितान् वर्णान् बहुविधांस्त्वचि||११||

स पाण्डुरोग इत्युक्तः …|१२|

श्लोक 12

… तस्य लिङ्गं भविष्यतः|
हृदयस्पन्दनं रौक्ष्यं स्वेदाभावः श्रमस्तथा||१२||

श्लोक 13-16

सम्भूतेऽस्मिन् भवेत् सर्वः कर्णक्ष्वेडी हतानलः|
दुर्बलः सदनोऽन्नद्विट् श्रमभ्रमनिपीडितः||१३||

गात्रशूलज्वरश्वासगौरवारुचिमान्नरः|
मृदितैरिव गात्रैश्च पीडितोन्मथितैरिव||१४||

शूनाक्षिकूटो हरितः शीर्णलोमा हतप्रभः|
कोपनः शिशिरद्वेषी निद्रालुः ष्ठीवनोऽल्पवाक्||१५||

पिण्डिकोद्वेष्टकट्यूरुपादरुक्सदनानि च|
भवन्त्यारोहणायासैर्विशेषश्चास्य वक्ष्यते||१६||

श्लोक 17-18

आहारैरुपचारैश्च वातलैः कुपितोऽनिलः|
जनयेत्कृष्णपाण्डुत्वं तथा रूक्षारुणाङ्गताम्||१७||

अङ्गमर्दं रुजं तोदं कम्पं पार्श्वशिरोरुजम्|
वर्चःशोषास्यवैरस्यशोफानाहबलक्षयान्||१८||

श्लोक 19-22

पित्तलस्याचितं पित्तं यथोक्तैः स्वैः प्रकोपणैः|
दूषयित्वा तु रक्तादीन् पाण्डुरोगाय कल्पते||१९||

स पीतो हरिताभो वा ज्वरदाहसमन्वितः|
तृष्णामूर्च्छापिपासार्तः पीतमूत्रशकृन्नरः||२०||

स्वेदनः शीतकामश्च न चान्नमभिनन्दति|
कटुकास्यो न चास्योष्णमुपशेतेऽम्लमेव च||२१||

उद्गारोऽम्लो विदाहश्च विदग्धेऽन्नेऽस्य जायते|
दौर्गन्ध्यं भिन्नवर्चस्त्वं दौर्बल्यं तम एव च||२२||

श्लोक 23-25

विवृद्धः श्लेष्मलैः श्लेष्मा पाण्डुरोगं स पूर्ववत्|
करोति गौरवं तन्द्रा छर्दिं श्वेतावभासताम्||२३||

प्रसेकं लोमहर्षं च सादं मूर्च्छां भ्रमं क्लमम्|
श्वासं कासं तथाऽऽलस्यमरुचिं वाक्स्वरग्रहम्||२४||

शुक्लमूत्राक्षिवर्चस्त्वं कटुरूक्षोष्णकामताम्|
श्वयथुं मधुरास्यत्वमिति पाण्ड्वामयः कफात्||२५||

श्लोक 26

सर्वान्नसेविनः सर्वे दुष्टा दोषास्त्रिदोषजम्|
त्रिदोषलिङ्गं कुर्वन्ति पाण्डुरोगं सुदुःसहम्||२६||

श्लोक 27-30

मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः|
कषाया मारुतं, पित्तमूषरा, मधुरा कफम्||२७||

कोपयेन्मृद्रसादींश्च रौक्ष्याद्भुक्तं विरूक्षयेत् |
पूरयत्यविपक्वैव स्रोतांसि निरुणद्धि च||२८||

इन्द्रियाणां बलं हत्वा तेजो वीर्यौजसी तथा|
पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम्||२९||

शूनगण्डाक्षिकूटभ्रूः शूनपान्नाभिमेहनः|
क्रिमिकोष्ठोऽतिसार्येत मलं सासृक् कफान्वितम्||३०||

श्लोक 31-33

पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिध्यति|
कालप्रकर्षाच्छूनो ना यश्च पीतानि पश्यति||३१||

बद्धाल्पविट्कं सकफं हरितं योऽतिसार्यते|
दीनः श्वेतातिदिग्धाङ्गश्छर्दिमूर्च्छातृषार्दितः||३२||

स नास्त्यसृक्क्षयाद्यश्च पाण्डुः श्वेतत्वमाप्नुयात्|
इति पञ्चविधस्योक्तं पाण्डुरोगस्य लक्षणम्||३३||

श्लोक 34-39

पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते|
तस्य पित्तमसृग्मांसं दग्ध्वा रोगाय कल्पते||३४||

हारिद्रनेत्रः स भृशं हारिद्रत्वङ्नखाननः|
रक्तपीतशकृन्मूत्रो भेकवर्णो हतेन्द्रियः||३५||

दाहाविपाकदौर्बल्यसदनारुचिकर्षितः|
कामला बहुपित्तैषा कोष्ठशाखाश्रया मता||३६||

कालान्तरात् खरीभूता कृच्छ्रा स्यात् कुम्भकामला|
कृष्णपीतशकृन्मूत्रो भृशं शूनश्च मानवः||३७||

सरक्ताक्षिमुखच्छर्दिविण्मूत्रो यश्च ताम्यति|
दाहारुचितृषानाहतन्द्रामोहसमन्वितः||३८||

नष्टाग्निसञ्ज्ञः क्षिप्रं हि कामलावान् विपद्यते|३९|

श्लोक 39-43

साध्यानामितरेषां तु प्रवक्ष्यामि चिकित्सितम्||३९||

तत्र पाण्ड्वामयी स्निग्धस्तीक्ष्णैरूर्ध्वानुलोमिकैः|
संशोध्यो मृदुभिस्तिक्तैः कामली तु विरेचनैः||४०||

ताभ्यां संशुद्धकोष्ठाभ्यां पथ्यान्यन्नानि दापयेत्|
शालीन् सयवगोधूमान् पुराणान् यूषसंहितान्||४१||

मुद्गाढकीमसूरैश्च जाङ्गलैश्च रसैर्हितैः|
यथादोषं विशिष्टं च तयोर्भैषज्यमाचरेत्||४२||

पञ्चगव्यं महातिक्तं कल्याणकमथापि वा|
स्नेहनार्थं घृतं दद्यात् कामलापाण्डुरोगिणे||४३||

श्लोक 44-49

दाडिमात् कुडवो धान्यात् कुडवार्धं पलं पलम्|
चित्रकाच्छृङ्गवेराच्च पिप्पल्यष्टमिका तथा||४४||

तैः कल्कैर्विंशतिपलं घृतस्य सलिलाढके|
सिद्धं हृत्पाण्डुगुल्मार्शःप्लीहवातकफार्तिनुत्||४५||

दीपनं श्वासकासघ्नं मूढवाते च शस्यते|
दुःखप्रसविनीनां च वन्ध्यानां चैव गर्भदम्||४६||

इति दाडिमाद्यं घृतम्|
कटुका रोहिणी मुस्तं हरिद्रे वत्सकात् पलम्|
पटोलं चन्दनं मूर्वा त्रायमाणा दुरालभा||४७||

कृष्णा पर्पटको निम्बो भूनिम्बो देवदारु च|
तैः कार्षिकैर्घृतप्रस्थः सिद्धः क्षीरचतुर्गुणः||४८||

रक्तपित्तं ज्वरं दाहं श्वयथुं स भगन्दरम्|
अर्शांस्यसृग्दरं चैव हन्ति विस्फोटकांस्तथा||४९||
इति कटुकाद्यं घृतम्|

श्लोक 50

पथ्याशतरसे पथ्यावृन्तार्धशतकल्कवान्|
प्रस्थः सिद्धो घृतात् पेयः स पाण्ड्वामयगुल्मनुत्||५०||
इति पथ्याघृतम्|

श्लोक 51

दन्त्याश्चतुष्पलरसे पिष्टैर्दन्तीशलाटुभिः|
तद्वत्प्रस्थो घृतात्सिद्धः प्लीहपाण्ड्वर्तिशोफजित्||५१||
इति दन्तीघृतम्|

श्लोक 52

पुराणसर्पिषः प्रस्थो द्राक्षार्धप्रस्थसाधितः|
कामलागुल्मपाण्ड्वर्तिज्वरमेहोदरापहः||५२||
इति द्राक्षाघृतम्|

श्लोक 53

हरिद्रात्रिफलानिम्बबलामधुकसाधितम्|
सक्षीरं माहिषं सर्पिः कामलाहरमुत्तमम्||५३||
इति हरिद्रादिघृतम्|

श्लोक 54-55

गोमूत्रे द्विगुणे दार्व्याः कल्काक्षद्वयसाधितः|
दार्व्याः पञ्चपलक्वाथे कल्के कालीयके परः||५४||

माहिषात् सर्पिषः प्रस्थः पूर्वः पूर्वे परे परः|५५|

श्लोक 55-69

स्नेहैरेभिरुपक्रम्य स्निग्धं मत्वा विरेचयेत्||५५||

पयसा मूत्रयुक्तेन बहुशः केवलेन वा|
दन्तीफलरसे कोष्णे काश्मर्याञ्जलिना शृतम्||५६||

द्राक्षाञ्जलिं मृदित्वा वा दद्यात् पाण्ड्वामयापहम्|
द्विशर्करं त्रिवृच्चूर्णं पलार्धं पैत्तिकः पिबेत्||५७||

कफपाण्डुस्तु गोमूत्रक्लिन्नयुक्तां हरीतकीम्|
आरग्वधं रसेनेक्षोर्विदार्यस्य च||५८||

सत्र्यूषणं बिल्वपत्रं पिबेन्ना कामलापहम्|
दन्त्यर्धपलकल्कं वा द्विगुडं शीतवारिणा||५९||

कामली त्रिवृतां वाऽपि त्रिफलाया रसैः पिबेत्|
विशालात्रिफलामुस्तकुष्ठदारुकलिङ्गकान्||६०||

कार्षिकानर्धकर्षांशां कुर्यादतिविषां तथा|
कर्षौ मधुरसाया द्वौ सर्वमेतत् सुखाम्बुना||६१||

मृदितं तं रसं पूतं पीत्वा लिह्याच्च मध्वनु|
कासं श्वासं ज्वरं दाहं पाण्डुरोगमरोचकम्||६२||

गुल्मानाहामवातांश्च रक्तपित्तं च नाशयेत्|
त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम्||६३||

शीतं मधुयुतं प्रातः कामलार्तः पिबेन्नरः|
क्षीरमूत्रं पिबेत् पक्षं गव्यं माहिषमेव वा||६४||

पाण्डुर्गोमूत्रयुक्तं वा सप्ताहं त्रिफलारसम्|
तरुजान् ज्वलितान्मूत्रे निर्वाप्यामृद्य चाङ्कुरान्||६५||

मातुलुङ्गस्य तत् पूतं पाण्डुशोथहरं पिबेत्|
स्वर्णक्षीरी त्रिवृच्छ्यामे भद्रदारु सनागरम्||६६||

गोमूत्राञ्जलिना पिष्टं मूत्रे वा क्वथितं पिबेत्|
क्षीरमेभिः शृतं वाऽपि पिबेद्दोषानुलोमनम्||६७||

हरीतकीं प्रयोगेण गोमूत्रेणाथवा पिबेत्|
जीर्णे क्षीरेण भुञ्जीत रसेन मधुरेण वा||६८||

सप्तरात्रं गवां मूत्रे भावितं वाऽप्ययोरजः|
पाण्डुरोगप्रशान्त्यर्थं पयसा पाययेद्भिषक्||६९||

श्लोक 70-71

त्र्यूषणत्रिफलामुस्तविडङ्गचित्रकाः समाः|
नवायोरजसो भागास्तच्चूर्णं क्षौद्रसर्पिषा||७०||

भक्षयेत् पाण्डुहृद्रोगकुष्ठार्शःकामलापहम्|
नवायसमिदं चूर्णं कृष्णात्रेयेण भाषितम्||७१||
इति नवायसचूर्णम्|

श्लोक 72-80

गुडनागरमण्डूरतिलांशान्मानतः समान्|
पिप्पलीद्विगुणां कुर्याद्गुटिकां पाण्डुरोगिणे||७२||

त्र्यूषणं त्रिफला मुस्तं विडङ्गं चव्यचित्रकौ|
दार्वीत्वङ्माक्षिको धातुर्ग्रन्थिकं देवदारु च||७३||

एतान् द्विपलिकान्भागांश्चूर्णं कुर्यात् पृथक् पृथक्|
मण्डूरं द्विगुणं चूर्णाच्छुद्धमञ्जनसन्निभम्||७४||

गोमूत्रेऽष्टगुणे पक्त्वा तस्मिंस्तत् प्रक्षिपेत्ततः|
उदुम्बरसमान्कृत्वा वटकांस्तान् यथाग्नि ना||७५||

उपयुञ्जीत तक्रेण सात्म्यं जीर्णे च भोजनम्|
मण्डूरवटका ह्येते प्राणदाः पाण्डुरोगिणाम्||७६||

कुष्ठान्यजीर्णकं शोथमूरुस्तम्भं कफामयान्|
अर्शांसि कामलां मेहं प्लीहानं शमयन्ति च||७७||

इति मण्डूरवटकाः|
ताप्याद्रिजतुरूप्यायोमलाः पञ्चपलाः पृथक्|
चित्रकत्रिफलाव्योषविडङ्गैः पलिकैः सह||७८||

शर्कराष्टपलोन्मिश्राश्चूर्णिता मधुनाऽऽप्लुताः|
अभ्यस्यास्त्वक्षमात्रा हि जीर्णे हितमिताशिना||७९||

कुलत्थकाकमाच्यादिकपोतपरिहारिणा|८०|

श्लोक 80-86

त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च||८०||

भागश्चित्रकमूलस्य विडङ्गानां तथैव च|
पञ्चाश्मजतुनो भागास्तथा रूप्यमलस्य च||८१||

माक्षिकस्य च शुद्धस्य लौहस्य रजसस्तथा|
अष्टौ भागाः सितायाश्च तत्सर्वं सूक्ष्मचूर्णितम्||८२||

माक्षिकेणाप्लुतं स्थाप्यमायसे भाजने शुभे|
उदुम्बरसमां मात्रां ततः खादेद्यथाग्नि ना||८३||

दिने दिने प्रयुञ्जीत जीर्णे भोज्यं यथेप्सितम्|
वर्जयित्वा कुलत्थानि काकमाचीं कपोतकम्||८४||

योगराज इति ख्यातो योगोऽयममृतोपमः|
रसायनमिदं श्रेष्ठं सर्वरोगहरं शिवम्||८५||

पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम्|
कुष्ठान्यजीर्णकं मेहं शोषं श्वासमरोचकम्||८६||
विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च|
इति योगराजः|

श्लोक 87-99

कौटजत्रिफलानिम्बपटोलघननागरैः||८७||

भावितानि दशाहानि रसैर्द्वित्रिगुणानि वा|
शिलाजतुपलान्यष्टौ तावती सितशर्करा||८८||

त्वक्क्षीरी पिप्पली धात्री कर्कटाख्या पलोन्मिता|
निदिग्ध्याः फलमूलाभ्यां पलं युक्त्या त्रिगन्धकम्|
चूर्णितं मधुनः कुर्यात् त्रिपलेनाक्षिकान् गुडान्|
दाडिमाम्बुपयःपक्षिरसतोयसुरासवान्||९०||

तान् भक्षयित्वाऽनुपिबेन्निरन्नो भुक्त एव वा|
पाण्डुकुष्ठज्वरप्लीहतमकार्शोभगन्दरान्||९१||

पूतिहृच्छुक्रमूत्राग्निदोषशोषगरोदरान् |
कासासृग्दरपित्तासृक्शोथगुल्मगलामयान्||९२||

ते च सर्वव्रणान् हन्युः सर्वरोगहराः शिवाः|
इति शिलाजतुवटकाः|
पुनर्नवा त्रिवृद्व्योषविडङ्गं दारु चित्रकम्||९३||

कुष्ठं हरिद्रे त्रिफला दन्ती चव्यं कलिङ्गकाः|
पिप्पली पिप्पलीमूलं मुस्तं चेति पलोन्मितम्||९४||

मण्डूरं द्विगुणं चूर्णाद्गोमूत्रे द्व्याढके पचेत्|
कोलवद्गुटिकाः कृत्वा तक्रेणालोड्य ना पिबेत्||९५||

ताः पाण्डुरोगान् प्लीहानमर्शांसि विषमज्वरम्|
श्वयथुं ग्रहणीदोषं हन्युः कुष्ठं क्रिमींस्तथा||९६||

इति पुनर्नवामण्डूरम्|
दार्वीत्वक् त्रिफला व्योषं विडङ्गमयसो रजः|
मधुसर्पिर्युतं लिह्यात् कामलापाण्डुरोगवान्||९७||

तुल्या अयोरजःपथ्याहरिद्राः क्षौद्रसर्पिषा|
चूर्णिताः कामली लिह्याद्गुडक्षौद्रेण वाऽभयाः||९८||

त्रिफला द्वे हरिद्रे च कटुरोहिण्ययोरजः|
चूर्णितं क्षौद्रसर्पिर्भ्यां स लेहः कामलापहः||९९||

श्लोक 100-101

द्विपलांशां तुगाक्षीरीं नागरं मधुयष्टिकाम्|
प्रास्थिकीं पिप्पलीं द्राक्षां शर्करार्धतुलां शुभाम्||१००||

धात्रीफलरसद्रोणे चूर्णितं लेहवत् पचेत्|
शीतं मधुप्रस्थयुतं लिह्यात् पाणितलं ततः||१०१||
हन्त्येष कामलां पित्तं पाण्डुं कासं हलीमकम्|
इति धात्र्यवलेहः|

श्लोक 102-104

त्र्यूषणं त्रिफला चव्यं चित्रको देवदारु च||१०२||

विडङ्गान्यथ मुस्तं च वत्सकं चेति चूर्णयेत्|
मण्डूरतुल्यं तच्चूर्णं गोमूत्रेऽष्टगुणे पचेत्||१०३||

शनैः सिद्धास्तथा शीताः कार्याः कर्षसमा गुडाः|
यथाग्नि भक्षणीयास्ते प्लीहपाण्ड्वामयापहाः||१०४||
ग्रहण्यर्शोनुदश्चैव तक्रवाट्याशिनः स्मृताः|
इति मण्डूरवटकाः|

श्लोक 105-110

मञ्जिष्ठा रजनी द्राक्षा बलामूलान्ययोरजः||१०५||

लोध्रं चैतेषु गौडः स्यादरिष्टः पाण्डुरोगिणाम्|
इति गौडोऽरिष्टः|
बीजकात्षोडशपलं त्रिफलायाश्च विंशतिः||१०६||

द्राक्षायाः पञ्च लाक्षायाः सप्त द्रोणे जलस्य तत्|
साध्यं पादावशेषे तु पूतशेषे समावपेत्||१०७||

शर्करायास्तुलां प्रस्थं माक्षिकस्य च कार्षिकम्|
व्योषं व्याघ्रनखोशीरं क्रमुकं सैलवालुकम्||१०८||

मधुकं कुष्ठमित्येतच्चूर्णितं घृतभाजने|
यवेषु दशरात्रं तद्ग्रीष्मे द्विः शिशिरे स्थितम्||१०९||

पिबेत्तद्ग्रहणीपाण्डुरोगार्शःशोथगुल्मनुत्|
मूत्रकृच्छ्राश्मरीमेहकामलासन्निपातजित्||११०||
बीजकारिष्ट इत्येष आत्रेयेण प्रकीर्तितः|
इति बीजकारिष्टः|

श्लोक 111-113

धात्रीफलसहस्रे द्वे पीडयित्वा रसं तु तम्||१११||

क्षौद्राष्टांशेन संयुक्तं कृष्णार्धकुडवेन च|
शर्करार्धतुलोन्मिश्रं पक्षं स्निग्धघटे स्थितम्||११२||

प्रपिबेन्मात्रया प्रातर्जीर्णे हितमिताशनः|
कामलापाण्डुहृद्रोगवातासृग्विषमज्वरान्||११३||
कासहिक्कारुचिश्वासांश्चैषोऽरिष्टः प्रणाशयेत्|
इति धात्र्यरिष्टः|

श्लोक 114-115

स्थिरादिभिः शृतं तोयं पानाहारे प्रशस्यते||११४||

पाण्डूनां, कामलार्तानां मृद्वीकामलकीरसः|११५|

श्लोक 115-117

पाण्डुरोगप्रशान्त्यर्थमिति प्रोक्तं महर्षिणा||११५||

विकल्प्यमेतद्भिषजा पृथग्दोषबलं प्रति|
वातिके स्नेहभूयिष्ठं, पैत्तिके तिक्तशीतलम्||११६||

श्लैष्मिके कटुतिक्तोष्णं , विमिश्रं सान्निपातिके|११७|

श्लोक 117-123

निपातयेच्छरीरात्तु मृत्तिकां भक्षितां भिषक्||११७||

युक्तिज्ञः शोधनैस्तीक्ष्णैः प्रसमीक्ष्य बलाबलम्|
शुद्धकायस्य सर्पींषि बलाधानानि योजयेत्||११८||

व्योषं बिल्वं हरिद्रे द्वे त्रिफला द्वे पुनर्नवे|
मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च||११९||

वृश्चिकाली च भार्गी च सक्षीरैस्तैः समैर्घृतम्|
साधयित्वा पिबेद्युक्त्या नरो मृद्दोषपीडितः||१२०||

तद्वत् केशरयष्ट्याह्वपिप्पलीक्षारशाद्वलैः|
मृद्भक्षणादातुरस्य लौल्यादविनिवर्तिनः||१२१||

द्वेष्यार्थं भावितां कामं दद्यात्तद्दोषनाशनैः|
विङ्गैलातिविषया निम्बपत्रेण पाठया||१२२||

वार्ताकैः कटुरोहिण्या कौटजैर्मूर्वयाऽपि वा|१२३|

श्लोक 123-124

यथादोषं प्रकुर्वीत भैषज्यं पाण्डुरोगिणाम्||१२३||

क्रियाविशेष एषोऽस्य मतो हेतुविशेषतः|१२४|

श्लोक 124-128

तिलपिष्टनिभं यस्तु वर्चः सृजति कामली||१२४||

श्लेष्मणा रुद्धमार्गं तत् पित्तं कफहरैर्जयेत्|
रूक्षशीतगुरुस्वादुव्यायामैर्वेगनिग्रहैः||१२५||

कफसम्मूर्च्छितो वायुः स्थानात् पित्तं क्षिपेद्बली|
हारिद्रनेत्रमूत्रत्वक् श्वेतवर्चास्तदा नरः||१२६||

भवेत् साटोपविष्टम्भो गुरुणा हृदयेन च|
दौर्बल्याल्पाग्निपार्श्वार्तिहिक्काश्वासारुचिज्वरैः||१२७||

क्रमेणाल्पेऽनुसज्येत पित्ते शाखासमाश्रिते|१२८|

श्लोक 128-130

बर्हितित्तिरिदक्षाणां रूक्षाम्लैः कटुकै रसैः||१२८||

शुष्कमूलककौलत्थैर्यूषैश्चान्नानि भोजयेत्|
मातुलुङ्गरसं क्षौद्रपिप्पलीमरिचान्वितम्||१२९||

सनागरं पिबेत् पित्तं तथाऽस्यैति स्वमाशयम्|१३०|

श्लोक 130-132

कटुतीक्ष्णोष्णलवणैर्भृशाम्लैश्चाप्युपक्रमः||१३०||

आपित्तरागाच्छकृतो वायोश्चाप्रशमाद्भवेत्|
स्वस्थानमागते पित्ते पुरीषे पित्तरञ्जिते||१३१||

निवृत्तोपद्रवस्य स्यात् पूर्वः कामलिको विधिः|१३२|

श्लोक 132-134

यदा तु पाण्डोर्वर्णः स्याद्धरितश्यावपीतकः||१३२||

बलोत्साहक्षयस्तन्द्रा मन्द्राग्नित्वं मृदुज्वरः|
स्त्रीष्वहर्षोऽङ्गमर्दश्च श्वासस्तृष्णाऽरुचिर्भ्रमः||१३३||

हलीमकं तदा तस्य विद्यादनिलपित्ततः|१३४|

श्लोक 134-138

गुडूचीस्वरसक्षीरसाधितं माहिषं घृतम्||१३४||

स पिबेत्त्रिवृतां स्निग्धो रसेनामलकस्य तु|
विरिक्तो मधुरप्रायं भजेत् पित्तानिलापहम्||१३५||

द्राक्षालेहं च पूर्वोक्तं सर्पींषि मधुराणि च|
यापनान् क्षीरबस्तींश्च शीलयेत्सानुवासनान्||१३६||

मार्द्वीकारिष्टयोगांश्च पिबेद्युक्त्याऽग्निवृद्धये|
कासिकं चाभयालेहं पिप्पलीं मधुकं बलाम्||१३७||

पयसा च प्रयुञ्जीत यथादोषं यथाबलम्|१३८|

श्लोक 138-139

तत्र श्लोकौ-
पाण्डोः पञ्चविधस्योक्तं हेतुलक्षणभेषजम्||१३८||

कामला द्विविधा तेषां साध्यासाध्यत्वमेव च|
तेषां विकल्पो यश्चान्यो महाव्याधिर्हलीमकः|
तस्य चोक्तं समासेन व्यञ्जनं सचिकित्सितम्||१३९||

पुष्पिका

इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने
पाण्डुरोगचिकित्सितं नाम षोडशोऽध्यायः||१६||