प्रनष्टशल्यविज्ञानीयाध्यायः

श्लोक 1-2

अथातः प्रनष्टशल्यविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

शल’ ‘श्वल’ आशुगमने धातूः; तयोराद्यस्य शल्यमिति रूपम् ||३||

श्लोक 4

तद्द्विविधं शारीरमागन्तुकं च ||४||

श्लोक 5

सर्वशरीराबाधकरं शल्यं, तदिहोपदिश्यत इत्यतः शल्यशास्त्रम् ||५||

श्लोक 6

तत्र शारीरं दन्तरोमनखादि धातवोऽन्नमला दोषाश्च दुष्टाः; आगन्त्वपि  शारीरशल्यव्यतिरेकेण यावन्तो भावा दुःखमुत्पादयन्ति ||६||

श्लोक 7

अधिकारो हि लोहवेणुवृक्षतृणशृङ्गास्थिमयेषु; तत्रापि विशेषतो लोहेष्वेव ,  विशसनार्थोपपन्नत्वाल्लोहस्य; लोहानामपि  दुर्वारत्वादणुमुखत्वाद्दूरप्रयोजनकरत्वाच्च शर एवाधिकृतः |
स च द्विविधः कर्णी , श्लक्ष्णश्च; प्रायेण  विविधवृक्षपत्रपुष्पफलतुल्याकृतयो व्याख्याताः,  व्यालमृगपक्षिवक्रसदृशाश्च ||७||

श्लोक 8

सर्वशल्यानां तु महतामणूनां वा पञ्चविधो गतिविशेष  ऊर्ध्वमधोऽर्वाचीनस्तिर्यगृजुरिति ||८||

श्लोक 9

तानि वेगक्षयात् प्रतिघाताद्वा त्वगादिषु व्रणवस्तुष्वतिष्ठन्ते,  धमनीस्रोतोऽस्थिविवरपेशीप्रभृतिषु वा शरीरप्रदेशेषु ||९||

श्लोक 10

तत्र शल्यलक्षणमुच्यमानमुपधारय |
तद्द्विधं सामान्यं वैशेषिकं च |
श्यावं पिडकाचितं शोफवेदनावन्तं मुहुर्मुहुः शोणितास्राविणं  बुद्बुदवदुन्नतं मृदुमांसं च व्रणं जानीयात् सशल्योऽयमिति;  सामान्यमेतल्लक्षणमुक्तम् |
वैशेषिकं तु-त्वग्गते विवर्णः शोफो भवत्यायतः कठिनश्च; मांसगते  शोफाभि(ति)वृद्धिः शल्यमार्गानुपसंरोहः पीडनासहिष्णुता चोषपाकौ च;  पेश्यन्तरस्थेऽप्येतदेव चोषशोफवर्जं; सिरागते सिराध्मानं सिराशूलं  सिराशोफश्च; स्नायुगते स्नायुजालोत्क्षेपणं संरम्भश्चोग्रा रुक् च; स्रोतोगते  स्रोतसां स्वकर्मगुणहानिः; धमनीस्थे सफेनं रक्तमीरयन्ननिलः सशब्दो  निर्गच्छत्यङ्गमर्दः पिपासा हृल्लासश्च; अस्थिगते विविधवेदनाप्रादुर्भावः  शोफश्च; अस्थिविवरगतेऽस्थिपूर्णताऽस्थितोदः संहर्षो बलवांश्च;  सन्धिगतेऽस्थिवच्चेष्टोपरमश्च; कोष्ठगत आटोपानाहौ मूत्रपुरीषाहारदर्शनंच व्रणमुखात्; मर्मगते मर्मविद्धवच्चेष्टते |
सूक्ष्मगतिषु शल्येष्वेतान्येव लक्षणान्यस्पष्टानि भवन्ति ||१०||

श्लोक 11

महान्त्यल्पानि वा शुद्धदेहानामनुलोमसन्निविष्टानि रोहन्ति विशेषतः  कण्ठस्रोतःसिरात्वक्पेश्यस्थिविवरेषः |
दोषप्रकोपव्यायामाभिघाताजीर्णेभ्यः प्रचलितानि पुनर्बाधन्ते ||११||

श्लोक 12

तत्र, त्वक्प्रनष्टे स्निग्धस्विन्नायां मृन्माषयवगोधूमगोमयमृदितायां त्वचि  यत्र  संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात्,  स्त्यानघृतमृच्चन्दनकल्कैर्वाप्रदिग्धायां शल्योष्मणाऽऽशु विसरति  घृतमुपशुष्यति चालेपो यत्र तत्र शल्यं विजानीयात्; मांसप्रनष्टे  स्नेहस्वेदादिभिः  क्रियाविशेषैरविरुद्धैरातुरमुपपादयेत्, कर्शितस्य तु  शिथिलीभूतमनवबद्धं  क्षुभ्यमाणं यत्र संरम्भं वेदनां वा जनयति तत्र  शल्यं विजानीयात्;  कोष्ठास्थिसन्धिपेशीविवरेष्ववस्थितमेवमेव  परीक्षेत; सिराधमनीस्रोतः स्नायुप्रनष्टे खण्डचक्रसंयुक्ते याने  व्याधितमारोप्याशु विषमेऽध्वनि यायात्  यत्र संरम्भो वेदना वा  भवति तत्र शल्यं विजानीयात्; अस्थिप्रनष्टे  स्नेहस्वेदोपपन्नान्यस्थीनि  बन्धनपीडनाभ्यां भृशमुपाचरेत्, यत्र संरम्भो  वेदना भवति तत्र  शल्यं विजानीयात्; सन्धिप्रनष्टे स्नेहस्वेदोपपन्नान् सन्धीन्  प्रसरणाकुञ्चनबन्धनपीडनैः भृशमुपाचरेत्, यत्र संरम्भो वेदना वा भवतितत्र शल्यं विजानीयात्, सन्धिप्रनष्टे स्नेहस्वेदोपपन्नान् सन्धीन्  प्रसरणाकुञ्चनबन्धनपीडनैर्भृशमुपाचरेत्; यत्र संरम्भो वेदना वा भवति  तत्र शल्यं विजानीयात्, मर्मप्रनष्टे त्वनन्यभावान्मर्मणामुक्तं परीक्षणं  भवति ||१२||

श्लोक 13

सामान्यलक्षमपि च हस्तिस्कन्धाश्वपृष्ठपर्वतद्रुमारोहणधनुर्व्यायामद्रुतया-ननियुद्धाध्वगमनलङ्घनप्लवनप्रतरण-
व्यायामैर्जृम्भोद्गारकासक्षवथुष्ठीवनहसनप्राणायामैर्वातमूत्रपुरीषशुक्रोत्सर्गैर्वा यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् ||१३||

श्लोक 14-15

भवन्ति चात्र-
यस्मिंस्तोदादयो देशे सुप्तता गुरुताऽपि च |
घट्टते बहुशो यत्र शूयते रुज्यतेऽपि च ||१४||

आतुरश्चापि यं देशमभीक्ष्णं परिरक्षति |
संवाह्यमानो बहुशस्तत्र शल्यं विनिर्दिशेत् ||१५||

श्लोक 16-17

अल्पाबाधमशूनं च नीरुजं निरुपद्रवम् |
प्रसन्नं मृदुपर्यन्तं निराघट्टमनुन्नतम् ||१६||

एषण्या सर्वतो दृष्ट्वा यथामार्गं चिकित्सकः |
प्रसाराकुञ्चनान्नूनं निःशल्यमिति निर्दिशेत् ||१७||

श्लोक 18

अस्थ्यात्मकं भज्यते तु शल्यमन्तश्च शीर्यते |
प्रायो निर्भुज्यते शार्ङ्गमायसं चेति निश्चयः ||१८||

श्लोक 19

वार्क्षवैणवतार्णानि निर्ह्रियन्ते तु नो यदि |
पचन्ति रक्तं मांसं च क्षिप्रमेतानि देहिनाम् ||१९||

श्लोक 20

कानकं राजतं ताम्रं रैतिकं त्रपु सीसकम् |
चिरस्थानाद्विलीयन्ते पित्ततेजःप्रतापनात् ||२०||

श्लोक 21

स्वभावशीता मृदवो ये चान्येऽपीदृशा मताः |
द्रवीभूताः शरीरेऽस्मिन्नेकत्वं यान्ति धातुभिः ||२१||

श्लोक 22

विषाणदन्तकेशास्थिवेणुदारुपलानि तु |
शल्यानि न विशीर्यन्ते शरीरे मृन्मयानि च ||२२||

श्लोक 23

द्विविधं पञ्चगतिमत्त्वगादिव्रणवस्तुषु |
यो वेत्ति विष्टितं शल्यं स राज्ञः कर्तुमर्हति ||२३||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने प्रनष्टशल्यविज्ञानीयो नाम  षड्विंशतितमोऽध्यायः ||२६||
error: Content is protected !!