प्रमेहचिकित्सितम्

श्लोक 1-3

अथातः प्रमेहचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

द्वौ प्रमेहौ भवतः- सहजोऽपथ्यनिमित्तश्च |
तत्र सहजो मातृपितृबीजदोषकृतः, अहिताहारजोऽपथ्यनिमित्तः |
तयोः पूर्वेणोपद्रुतः कृशो रूक्षोऽल्पाशी पिपासुर्भृशं परिसरणशीलश्च  भवति; उत्तरेण स्थूलो बह्वाशी स्निग्धः शय्यासनस्वप्नशीलः  प्रायेणेति ||३||

श्लोक 4

तत्र कृशमन्नपानप्रतिसंस्कृताभिः क्रियाभिश्चिकित्सेत,  स्थूलमपतर्पणयुक्ताभिः ||४||

श्लोक 5

सर्व एव च परिहरेयुः सौवीरकतुषोदकशुक्तमैरेयसुरासवतोयपयस्तै-लघृतेक्षुविकारदधिपिष्टान्नाम्लयवागूपानकानि ग्राम्यानूपौदकमांसानि  चेति ||५||

श्लोक 6

ततः शालिषष्टिकयवगोधूमकोद्रवोद्दालकाननवान् भुञ्जीत  चणकाढकीकुलत्थमुद्गविकल्पेन, तिक्तकषायाभ्यां च शाकगणाभ्यां  निकुम्भेङ्गुदीसर्षपातसीतैलसिद्धाभ्यां, बद्धमूत्रैर्वा  जाङ्गलैर्मांसैरपहृतमेदोभिरनम्लैरघृतैश्चेति ||६||

श्लोक 7

तत्रादित एव प्रमेहिणं स्निग्धमन्यतमेन तैलेन प्रियङ्ग्वादिसिद्धेन वा  घृतेन वामयेत् प्रगाढं विरेचयेच्च, विरेचनादनन्तरं  सुरसादिकषायेणास्थापयेन्महौषधभद्रदारुमुस्तावापेन  मधुसैन्धवयुक्तेन, दह्यमानं च न्यग्रोधादिकषायेण निस्तैलेन ||७||

श्लोक 8

ततः शुद्धदेहमामलकरसेन हरिद्रां मधुसंयुक्तां पाययेत्,  त्रिफलाविशालादेवदारुमुस्तकषायं वा,  शालकम्पिल्लकमुष्कककल्कमक्षमात्रं वा मधुमधुरमामलकरसेन  हरिद्रायुतं, कुटजकपित्थरोहीतकबिभीतकसप्तपर्णपुष्पकल्कं वा  निम्बारग्वधसप्तपर्णमूर्वाकुटजसोमवृक्षपलाशानां वा  त्वक्पत्रमूलफलपुष्पकषायाणि, एते पञ्च योगाः सर्वमेहानामपहन्तारो व्याख्याताः ||८||

श्लोक 9

विशेषश्चात ऊर्ध्वं- तत्रोदकमेहिनं पारिजातकषायं पाययेत्, इक्षुमेहिनं  वैजयन्तीकषायं, सुरामेहिनं निम्बकषायं, सिकतामेहिनं चित्रककषायं, शनैर्मेहिनं खदिरकषायं, लवणमेहिनं पाठाऽगुरुहरिद्राकषायं ,  पिष्टमेहिनं हरिद्रादारुहरिद्राकषायं, सान्द्रमेहिनं सप्तपर्णकषायं,  शुक्रमेहिनं दूर्वाशैवलप्लवहठकरञ्जकसेरुककषायं ककुभचन्दनकषायंवा, फेनमेहिनं त्रिफलारग्वधमृद्वीकाकषायं, मधुमधुरमिति; पैत्तिकेषु  नीलमेहिनं शालसारादिकषायमश्वत्थकषायं वा पाययेत्, हरिद्रामेहिनं  राजवृक्षकषायं, अम्लमेहिनं न्यग्रोधादिकषायं, क्षारमेहिनं  त्रिफलाकषायं, मञ्जिष्ठामेहिनं मञ्जिष्ठाचन्दनकषायं, शोणितमेहिनं  गुडूचीतिन्दुकास्थिकाश्मर्यखर्जूरकषायं मधुमिश्रं; अत  ऊर्ध्वमसाध्येष्वपि योगान् यापनार्थं वक्ष्यामः, तद्यथा- सर्पिर्मेहिनं  कुष्ठकुटजपाठाहिङ्गुकटुरोहिणीकल्कं गुडूचीचित्रककषायेण पाययेत्, वसामेहिनमग्निमन्थकषायं शिंशपाकषायं वा, क्षौद्रमेहिनं  कदरक्रमुककषायं , हस्तिमेहिनं  तिन्दुककपित्थशिरीषपलाशपाठामूर्वादुःस्पर्शाकषायं मधुमधुरं  हस्त्यश्वशूकरखरोष्ट्रास्थिक्षारं चेति; दह्यमानमौदककन्दक्वाथसिद्धां  यवागूं क्षीरेक्षुरसमधुरां पाययेत् ||९||

श्लोक 10

ततः प्रियङ्ग्वनन्तायूथिकापद्मात्रायन्तिकालोहितिकाम्बष्ठादाडि-मत्वक्शालपर्णीपद्मतुङ्गकेशर-धातकीबकुलशाल्मलीश्रीवेष्टकमोचरसेष्वरिष्टानयस्कृतीर्लेहानासवांश्च कुर्वीत; शृङ्गाटकगिलोड्यबिसमृणालकाशकसेरुकमधुकाम्रजम्ब्व-सनतिनिशककुभकट्वङ्गरोध्रभल्लातक-पलाशचर्मवृक्षगिरिकर्णिकाशीतशिवनिचुलदाडिमाजकर्णहरिवृक्ष-राजादनगोपघोण्टाविकङ्कतेषु वा; यवान्नविकारांश्च सेवेत;  यथोक्तकषायसिद्धां यवागूं चास्मै प्रयच्छेत्, कषायाणि वा पातुम् ||१०||

श्लोक 11

महाधनमहिताहारमौषधद्वेषिणमीश्वरं वा  पाठाभयाचित्रकप्रगाढमनल्पमाक्षिकमन्यतममासवं पाययेत्,  अङ्गारशूल्योपदंशं वा माध्वीकमभीक्ष्णं, क्षौद्रकपित्थमरिचानुविद्धानि चास्मै पानभोजनान्युपहरेत्, उष्ट्राश्वतरखरपुरीषचूर्णानि चास्मै  दद्यादशनेषु; हिङ्गुसैन्धवयुक्तैर्यूषैः सार्षपैश्च रागैर्भोजयेत्;  अविरुद्धानि चास्मै पानभोजनान्युपहरेद्रसगन्धवन्ति च;  प्रवृद्धमेहास्तु व्यायामनियुद्धक्रीडागजतुरगरथपदातिचर्यापरिक्रम-णान्यस्त्रोपास्त्रे वा सेवेरन् ||११||

श्लोक 12-13

अधनस्त्वबान्धवो वा पादत्राणातपत्रविरहितो भैक्ष्याशी ग्रामैकरात्रवासी मुनिरिव संयतात्मा योजनशतमधिकं वा गच्छेत्, महाधनो वा  श्यामाकनीवारवृत्तिरामलककपित्थतिन्दुकाश्मन्तकफलाहारो मृगैः  सह वसेत्, तन्मूत्रशकृद्भक्षः सततमनुव्रजेद्गाः, ब्राह्मणो वा  शिलोञ्छवृत्तिर्भूत्वा ब्रह्मरथमुद्धरेत्, कृषेत् सततमितरः खनेद्वा कूपं,  कृशं तु सततं रक्षेत् ||१२||

भवति चात्र-
अधनो वैद्यसन्देशादेवं कुर्वन्नतन्द्रितः |
संवत्सरादन्तराद्वा प्रमेहात् प्रतिमुच्यते ||१३||

पुष्पिका

इति सुश्रुतसंहितायां चिकित्सास्थाने प्रमेहचिकित्सितं  नामैकादशोऽध्यायः ||११||