बालरोगनिदानम्

श्लोक 1-4

वातदूषित-पित्तदूषित-कफदूषित-द्वन्द्वदुष्ट-त्रिदोषदुष्टस्तन्यपानजन्यबालरोगलक्षणम्

अथ बालरोगनिदानम् |
वातदुष्टं शिशुः स्तन्यं पिबन् वातगदातुरः |
क्षामस्वरः कृशाङ्गः स्याद्बद्धविण्मूत्रमारुतः ||१||

स्विन्नो भिन्नमलो बालः कामलापित्तरोगवान् |
तृष्णालुरुष्णसर्वाङ्गः पित्तदुष्टं पयः पिबन् ||२||

कफदुष्टं पिबन् क्षीरं लालालुः श्लेष्मरोगवान् |
निद्रान्वितो जडः शूनवक्त्राक्षश्छर्दनः शिशुः ||३||

द्वन्द्वजे द्वन्द्वजं रूपं सर्वजे सर्वलक्षणम् |४|

श्लोक 4-7

शिशोर्वक्तुमक्षमस्यान्तर्गतवेदनाज्ञानोपायाः

शिशोस्तीव्रामतीव्रां च रोदनाल्लक्षयेद्रुजम् ||४||

स यं स्पृशेद्भृशं देशं यत्र च स्पर्शनाक्षमः |
तत्र विद्याद्रुजं मूर्ध्नि रुजं चाक्षिनिमीलनात् ||५||

हृदि जिह्वौष्ठदशनश्वासमुष्टिनिपीडनैः |
कोष्ठे विबन्धवमथुस्तनदंशान्त्रकूजनैः |
आध्मानपृष्ठनमनजठरोन्नमनैरपि ||६||

बस्तौ गुह्ये च विण्मूत्रसङ्गत्रासदिगीक्षणैः |
स्रोतांस्यङ्गानि सन्धींश्च पश्येद्यत्नान्मुहुर्मुहुः ||७||

श्लोक 8-9

कुकूणकलक्षणम्

कुकूणकः क्षीरदोषाच्छिशूनामेव वर्त्मनि |
जायते तेन तन्नेत्रं कण्डूरं च स्रवेन्मुहुः ||८||

शिशुः कुर्याल्ललाटाक्षिकूटनासावघर्षणम् |
शक्तो नार्कप्रभां द्रष्टुं न वर्त्मोन्मीलनक्षमः ||९||

श्लोक 10-11

पारिगर्भिकलक्षणम्

मातुः कुमारो गर्भिण्याः स्तन्यं प्रायः पिबन्नपि |
कासाग्निसादवमथुतन्द्राकार्श्यारुचिभ्रमैः ||१०||

युज्यते कोष्ठवृद्ध्या च तमाहुः पारिगर्भिकम् |
रोगं परिभवाख्यं च युञ्ज्यात्तत्राग्निदीपनम् ||११||

श्लोक 12-13

तालुकण्टकलक्षणम्

तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम् |
तेन तालुप्रदेशस्य निम्नता मूर्ध्नि जायते ||१२||

तालुपातः स्तनद्वेषः कृच्छ्रात् पानं शकृद्द्रवम् |
तृडक्षिकण्ठास्यरुजा ग्रीवादुर्धरता वमिः ||१३||

श्लोक 14-15

महापद्मनाम्नो विसर्पस्य लक्षणम्

विसर्पस्तु शिशोः प्राणनाशनो बस्तिशीर्षजः |
पद्मवर्णो महापद्मनामा दोषत्रयोद्भवः ||१४||

शङ्खाभ्यां हृदयं याति हृदयाद्वा गुदं व्रजेत् |१५|

श्लोक 15

बालरोगे कतिचित् क्षुद्ररोगाणां कथनम्

क्षुद्ररोगे च कथिते त्वजगल्ल्यहिपूतने ||१५||

श्लोक 16

बालरोगे कायचिकित्सोक्तज्वरादिरोगाणां निर्देशः

ज्वराद्या व्याधयः सर्वे महतां ये पुरेरिताः |
बालदेहेऽपि ते तद्वद्विज्ञेयाः कुशलैः सदा ||१६||

श्लोक 17-20

ग्रहजुष्टानां सामान्यलक्षणम्

क्षणादुद्विजते बालः क्षणात्त्रस्यति रोदिति |
नखैर्दन्तैर्दारयति धात्रीमात्मानमेव वा ||१७||

ऊर्ध्वं निरीक्षते दन्तान् खादेत् कूजति जृम्भते |
भ्रुवौ क्षिपति दन्तौष्ठं फेनं वमति चासकृत् ||१८||

क्षामोऽति निशि जागर्ति शूनाक्षो भिन्नविट्स्वरः |
मांसशोणितगन्धिश्च न चाश्नाति यथा पुरा ||१९||

सामान्यं ग्रहजुष्टानां लक्षणं समुदाहृतम् |२०|

श्लोक 20-22

स्कन्दग्रहगृहीतलक्षणम्

एकनेत्रस्य गात्रस्य स्रावः स्पन्दनकम्पनम् ||२०||

ऊर्ध्वं दृष्ट्या निरीक्षेत वक्रास्यो रक्तगन्धिकः |
दन्तान् खादति वित्रस्तः स्तन्यं नैवाभिनन्दति ||२१||

स्कन्दग्रहगृहीतानां रोदनं चाल्पमेव च |२२|

श्लोक 22

स्कन्दापस्मारलक्षणम्

नष्टसञ्ज्ञो वमेत् फेनं सञ्ज्ञावानतिरोदिति |
पूयशोणितगन्धित्वं स्कन्दापस्मारलक्षणम् ||२२||

श्लोक 23

शकुनिग्रहगृहीतलक्षणम्

स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः सास्रावव्रणपरिपीडितः समन्तात् |
स्फोटैश्च प्रचिततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या  ||२३||
(सु. उ. तं. अ. २७) |

श्लोक 24-30

रेवती-पूतना-अन्धपूतना-शीतपूतना-मुखमण्डिका-नैगमेयग्रहगृहीतलक्षणम्

व्रणैः स्फोटैश्चितं गात्रं पङ्कगन्धं स्रवेदसृक् |
भिन्नवर्चा ज्वरी दाही रेवतीग्रहलक्षणम् ||२४||

अतीसारो ज्वरस्तृष्णा तिर्यक्प्रेक्षणरोदनम् |
नष्टनिद्रस्तथोद्विग्नो ग्रस्तः पूतनया शिशुः ||२५||

छर्दिः कासो ज्वरस्तृष्णा वसागन्धोऽतिरोदनम् |
स्तन्यद्वेषोऽतिसारश्च अन्धपूतनया भवेत् ||२६||

वेपते कासते क्षीणो नेत्ररोगो विगन्धिता |
छर्द्यतीसारयुक्तश्च शीतपूतनया शिशुः ||२७||

प्रसन्नवर्णवदनः सिराभिरभिसंवृतः |
मूत्रगन्धी च बह्वाशी मुखमण्डिकया भवेत् ||२८||

छर्दिस्प(स्य)न्दनकण्ठास्यशोषमूर्छाविगन्धिताः |
ऊर्ध्वं पश्येद्दशेद्दन्तान् नैगमेयग्रहं वदेत् ||२९||

प्रस्तब्धाक्षः स्तनद्वेषी मुह्यते चानिशं मुहुः |
तं बालमचिराद्धन्ति ग्रहः सम्पूर्णलक्षणः |
विपरीततमं साध्यं चिकित्सेदचिरार्दितम् ||३०||

पुष्पिका

इति श्रीमाधवकरविरचिते माधवनिदाने बालरोगनिदानं समाप्तम्  ||६८||
error: Content is protected !!