भगन्दरनिदानम्

श्लोक 1-2

अथातो भगन्दराणां निदानं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

वातपित्तश्लेष्मसन्निपातागन्तुनिमित्ताः  शतपोनकोष्ट्रग्रीवपरिस्राविशम्बूकावर्तोन्मार्गिणो यथासङ्ख्यं पञ्च  भगन्दरा भवन्ति |
ते तु भगगुदबस्तिप्रदेशदारणाच्च ‘भगन्दरा’ इत्युच्यन्ते |
अभिन्नाः पिडकाः, भिन्नास्तु भगन्दराः ||३||

श्लोक 4

तेषां तु पूर्वरूपाणि-कटीकपालवेदना कण्डूर्दाहः शोफश्च  गुदस्य भवति ||४||

श्लोक 5

तत्रापथ्यसेविनां वायुः प्रकुपितः सन्निवृत्तः स्थिरीभूतो  गुदमभितोऽङ्गुलेद्व्यङ्गुले वा मांसशोणिते प्रदूष्यारुणवर्णां पिडकां  जनयति, साऽस्य तोदादीन् वेदनाविशेषाञ्जनयति, अप्रतिक्रियमाणा च पाकमुपैति, मूत्राशयाभ्यासगतत्वाच्च व्रणः प्रक्लिन्नः  शतपोनकवदणुमुखैश्छिद्रैरापूर्यते, तानि च छिद्राण्यजस्रमच्छं  फेनानुविद्धमधिकमास्रावं स्रवन्ति , व्रणश्च ताड्यते भिद्यते छिद्यते  सूचीभिरिव निस्तुद्यते, गुदं चावदीर्यते, उपेक्षिते च  वातमूत्रपुरीषरेतसामप्यागमश्च तैरेव छिद्रैर्भवति; तं भगन्दरं  शतपोनकमित्यावक्षते ||५||

श्लोक 6

पित्तं तु प्रकुपितमनिलेनाधः प्रेरितं पूर्ववदवस्थितं रक्तां  तन्वीमुच्छ्रितामुष्ट्रग्रीवाकारां पिडकां जनयति; साऽस्य चोषादीन्  वेदनाविशेषाञ्जनयति; अप्रतिक्रियमाणा च पाकमुपैति;  व्रणश्चाग्निक्षाराभ्यामिव दह्यते, दुर्गन्धमुष्णमास्रावं स्रवति, उपेक्षितश्च  वातमूत्रपुरीषरेतांसि विसृजति; तं भगन्दरमुष्ट्रग्रीवमित्याचक्षते ||६||

श्लोक 7

श्लेष्मा तु प्रकुपितः समीरणेनाधः प्रेरितः पूर्ववदवस्थितः शुक्लावभासां स्थिरां कण्डूमतीं पिडकां जनयति, साऽस्य कण्ड्वादीन्  वेदनाविशेषाञ्जनयति, अप्रतिक्रियमाणां च पाकमुपैति, व्रणश्च कठिनः संरम्भी कण्डूप्रायः पिच्छिलमजस्रमास्रावं स्रवति, उपेक्षितश्च  वातमूत्रपुरीषरेतांसि विसृजति; तं भगन्दरं परिस्राविणमित्याचक्षते ||७||

श्लोक 8

वायुः प्रकुपितः प्रकुपितौ पित्तश्लेष्माणौ परिगृह्याधो गत्वा  पूर्ववदवस्थितः पादाङ्गुष्ठाग्रप्रमाणां सर्वलिङ्गां पिडकां जनयति,  साऽस्य तोददाहकण्ड्वादीन् वेदनाविशेषाञ्जनयति, अप्रतिक्रियमाणा च पाकमुपैति, व्रणश्च नानाविधवर्णमास्रावं स्रवति,  पूर्णनदीशम्बूकावर्तवच्चात्र समुत्तिष्ठन्ति वेदनाविशेषाः; तं भगन्दरं  शम्बूकावर्तमित्याचक्षते ||८||

श्लोक 9

मूढेन मांसलुब्धेन यदस्थिशल्यमन्नेन सहाभ्यवहृतं  यदाऽवगाढपुरीषोन्मिश्रमपानेनाधःप्रेरितमसम्यगागतं गुदमपक्षिणोति  तदा क्षतनिमित्तः कोथ उपजायते, तस्मिंश्च क्षते  पूयरुधिरावकीर्णमांसकोथे भूमाविव जलप्रक्लिन्नायां क्रिमयः सञ्जायन्ते,ते भक्षयन्तो गुदमनेकधा पार्श्वतो दारयन्ति, तस्य तैर्मार्गैः  कृमिकृतैर्वातमूत्रपुरीषरेतांस्यभिनिःसरन्ति; तं  भगन्दरमुन्मार्गिणमित्याचक्षते ||९||

श्लोक 10-11

भवन्ति चात्र-
उत्पद्यतेऽल्परुक् शोफात् क्षिप्रं चाप्युपशाम्यति |
पाय्वन्तदेशे पिडका सा ज्ञेयाऽन्या भगन्दरात् ||१०||

पायोः स्याद् द्व्यङ्गुले देशे गूढमूला सरुग्ज्वरा |
भागन्दरीति विज्ञेया पिडकाऽतो विपर्ययात् ||११||

श्लोक 12

यानयानान्मलोत्सर्गात् कण्डूरुग्दाहशोफवान् |
पायुर्भवेद्रुजः कट्यां पूर्वरूपं भगन्दरे ||१२||

श्लोक 13

घोराः साधयितुं दुःखाः सर्व एव भगन्दराः |
तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्च भगन्दरः ||१३||

पुष्पिका

इति सुश्रुतसंहितायां निदानस्थाने भगन्दरनिदानं नाम चतुर्थोऽध्यायः ||४||
error: Content is protected !!