यन्त्रविध्यध्यायः

श्लोक 1-2

अथातो यन्त्रविधिमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

यन्त्रशतमेकोत्तरम्; अत्र हस्तमेव प्रधानतमं यन्त्राणामवगच्छ, (किं  कारणं ? यस्माद्धस्तादृते यन्त्राणामप्रवृत्तिरेव) तदधीनत्वाद्यन्त्रकर्मणाम्  ||३||

श्लोक 4

तत्र, मनःशरीराबाधकराणि शल्यानि; तेषामाहरणोपायो यन्त्राणि ||४||

श्लोक 5

तानि षट्प्रकाराणि; तद्यथा-स्वस्तिकयन्त्राणि, सन्दंशयन्त्राणि, तालयन्त्राणि, नाडीयन्त्राणि,  शलाकायन्त्राणि, उपयन्त्राणि चेति ||५||

श्लोक 6

तत्र चतुर्विंशतिः स्वस्तिकयन्त्राणि , द्वे सन्दंशयन्त्रे, द्वे एव तालयन्त्रे ,  विंशतिर्नाड्यः, अष्टाविंशतिः शलाकाः, पञ्चविंशतिरुपयन्त्राणि ||६||

श्लोक 7

तानि प्रायशो लौहानि भवन्ति; तत्प्रतिरूपकाणि वा तदलाभे ||७||

श्लोक 8

तत्र, नानाप्रकाराणां व्यालानां मृगपक्षिणां मुखैर्मुखानि यन्त्राणां प्रायशःसदृशानि; तस्मात्तत्सारूप्यादागमादुपदेशादन्ययन्त्रदर्शनाद्युक्तितश्च  कारयेत् ||८||

श्लोक 9

समाहितानि यन्त्राणि खरश्लक्ष्णमुखानि च |
सुदृढानि सुरूपाणि सुग्रहाणि च कारयेत् ||९||

श्लोक 10

तत्र स्वस्तिकयन्त्राणि-अष्टादशाङ्गुलप्रमाणानि, सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्जारशृगालमृगै-र्वारुककाककङ्ककुररचासभासशशघात्युलूकचिल्लिश्येन-गृध्रक्रौञ्चभृङ्गराजाञ्जलिकर्णावभञ्जननन्दीमुखमुखानि  , मसूराकृतिभिःकीलैरवबद्धानि , मूलेऽङ्कुशवदावृत्तवारङ्गाणि ,  अस्थिविदष्टशल्योद्धरणार्थमुपदिश्यन्ते ||१०||

श्लोक 11

सनिग्रहोऽनिग्रहश्च सन्दंशौ षोडशाङ्गुलौ भवतः,  त्वङ्मांससिरास्नायुगतशल्योद्धरणार्थमुपदिश्येते ||११||

श्लोक 12

तालयन्त्रे – द्वादशाङ्गुले मत्स्यतालवदेकतालद्वितालके,
कर्णनासानाडीशल्यानामाहरणार्थम् ||१२||

श्लोक 13

नाडीयन्त्राणि -अनेकप्रकाराणि, अनेकप्रयोजनानि, एकतोमुखान्युभयतोमुखानि च;  तानि स्रोतोगतशल्योद्धरणार्थं, रोगदर्शनार्थम्, आचूषणार्थं,  क्रियासौकर्यार्थं चेति; तानि स्रोतोद्वारपरिणाहानि,यथायोगदीर्घाणि च |
तत्र भगन्दरार्शोव्रणबस्त्युत्तरबस्तिमूत्रवृद्धिदकोदरधूमनिरुद्धप्रकशस-न्निरुद्धगुदयन्त्राण्यलाबूशृङ्गयन्त्राणि चोपरिष्टाद्वक्ष्यामः ||१३||

श्लोक 14

शलाकायन्त्राण्यपि नानाप्रकाराणि, नानाप्रयोजनानि,  यथायोगपरिणाहदीर्घाणि च; तेषां गण्डूपदसर्पफणशरपुङ्खबडिशमुखे द्वे द्वे, एषणव्यूहनचालनाहरणार्थमुपदिश्येते ; मसूरदलमात्रमुखे द्वे  किञ्चिदानताग्रे स्रोतोगतशल्योद्धरणार्थं; षट् कार्पासकृतोष्णीषाणि ,  प्रमार्जनक्रियासु; त्रीणि दर्व्याकृतीनि खल्लमुखानि, क्षारौषधप्रणिधानार्थं ; त्रीण्यन्यानि जाम्बववदनानि, त्रीण्यङ्कुशवदनानि,  षडेवाग्निकर्मस्वभिप्रेतानि; नासार्बुदहरणार्थमेकं कोलास्थिदलमात्रमुखं  खल्लतीक्ष्णौष्ठं ; अञ्जनार्थमेकं कलायपरिमण्डलमुभयतो मुकुलाग्रं;  मूत्रमार्गविशोधनार्थमेकं मालतीपुष्पवृन्ताग्रप्रमाणपरिमण्डलमिति ||१४||

श्लोक 15-16

उपयन्त्राण्यपि-रज्जुवेणिकापट्टचर्मान्तवल्कललतावस्त्राष्ठीलाश्ममुद्गरपाणिपादतला-ङ्गुलिजिह्वा-दन्तनखमुखबालाश्वकटकशाखाष्ठीवनप्रवाहणहर्षायस्कान्तमयानि  क्षाराग्निभेषजानि चेति ||१५||

एतानि देहे सर्वस्मिन् देहस्यावयवे तथा |
सन्धौ कोष्ठे धमन्यां च यथायोगं प्रयोजयेत् ||१६||

श्लोक 17

यन्त्रकर्माणि तु-निर्घातनपूरणबन्धनव्यूहनवर्तनचालनविवर्तनविवरणपीडनमार्गविशो-धनविकर्षणाहरणाञ्छनोन्नमन-विनमनभञ्जनोन्मथनाचूषणैषणदारणर्जूकरणप्रक्षालनप्रधमनप्रमार्जनानि  चतुर्विंशतिः ||१७||

श्लोक 18

स्वबुद्ध्या चापि विभजेद्यन्त्रकर्माणि बुद्धिमान् |
असङ्ख्येयविकल्पत्वाच्छल्यानामिति निश्चयः ||१८||

श्लोक 19

तत्र, अतिस्थूलम्, असारम्, अतिदीर्घम्, अतिह्रस्वम्, अग्राहि, विषमग्राहि,  वक्रं, शिथिलम्, अत्युन्नतम्, मृदुकीलं, मृदुमुखं,  मृदुपाशम्, इति द्वादश  यन्त्रदोषाः ||१९||

श्लोक 20

एतैर्दोषैर्विनिर्मुक्तं यन्त्रमष्टादशाङ्गुलम् |
प्रशस्तं भिषजा ज्ञेयं तद्धि कर्मसु योजयेत् ||२०||

श्लोक 21

दृश्यं सिंहमुखाद्यैस्तु गूढं कङ्कमुखादिभिः |
निर्हरेत शनैः शल्यं शास्त्रयुक्तिव्यपेक्षया ||२१||

श्लोक 22

नि(वि)वर्तते साध्ववगाहते च शल्यं निगृह्योद्धरते च यस्मात् |
यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधि(वि)कारि चैव ||२२||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने यन्त्रविधिर्नाम सप्तमोऽध्यायः ||७||