विधिशोणितीयोऽध्यायः

श्लोक 1-2

अथातो
विधिशोणितीयमध्यायं व्याख्यास्यामः [१] ||१||
इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

विधिना शोणितं जातं शुद्धं भवति देहिनाम्| देशकालौकसात्म्यानां विधिर्यः सम्प्रकाशितः||३||

श्लोक 4

तद्विशुद्धं हि रुधिरं बलवर्णसुखायुषा । युनक्ति प्राणिनं प्राणः शोणितं ह्यनुवर्तते||४||

श्लोक 5-10

प्रदुष्टबहुतीक्ष्णोष्णैर्मद्यैरन्यैश्च तद्विधैः। तथाऽतिलवणक्षारैरम्लैः कटुभिरेव च||५||
कुलत्थमाषनिष्पावतिलतैलनिषेवणैः। पिण्डालुमूलकादीनां हरितानां च सर्वशः ||६||
जलजानूपबैलानां प्रसहानां च सेवनात्। दध्यम्लमस्तुसुक्तानां सुरासौवीरकस्य च ||७||
विरुद्धानामुपक्लिन्नपूतीनां भक्षणेन च। भुक्त्वा दिवा प्रस्वपतां द्रवस्निग्धगुरूणि च||८||
अत्यादानं तथा क्रोधं भजतां चातपानलौ| छर्दिवेगप्रतीघातात् काले चानवसेचनात्||९||
श्रमाभिघातसन्तापैरजीर्णाध्यशनैस्तथा|
शरत्कालस्वभावाच्च शोणितं सम्प्रदुष्यति ||१०||

श्लोक 11-17

ततः शोणितजा रोगाः प्रजायन्ते पृथग्विधाः। मुखपाकोऽक्षिरागश्च [१] पूतिघ्राणास्यगन्धिता||११||
गुल्मोपकुशवीसर्परक्तपित्तप्रमीलकाः ।
विद्रधी रक्तमेहश्च प्रदरो वातशोणितम्||१२||
वैवर्ण्यमग्निसादश्च पिपासा गुरुगात्रता। सन्तापश्चातिदौर्बल्यमरुचिः शिरसश्च रुक् || १३||
विदाहश्चान्नपानस्य तिक्ताम्लोद्गिरणं क्लमः| क्रोधप्रचुरता बुद्धेः सम्मोहो लवणास्यता||१४||
स्वेदः शरीरदौर्गन्ध्यं मदः कम्पः स्वरक्षयः । तन्द्रानिद्रातियोगश्च तमसश्चातिदर्शनम्||१५||
कण्ड्वरुःकोठपिडकाकुष्ठचर्मदलादयः ।
विकाराः सर्व एवैते विज्ञेयाः शोणिताश्रयाः ||१६||
शीतोष्णस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः।
सम्यक् साध्या न सिध्यन्ति रक्तजांस्तान् विभावयेत्||१७||

श्लोक 18

कुर्याच्छोणितरोगेषु रक्तपित्तहरीं क्रियाम् | विरेकमुपवासं च स्रावणं शोणितस्य च ||१८||

श्लोक 19

बलदोषप्रमाणाद्वा विशुद्धया रुधिरस्य वा ।
रुधिरं स्रावयेज्जन्तोराशयं [१] प्रसमीक्ष्य वा||१९||

श्लोक 20-21

अरुणाभं भवेद्वाताद्विशदं फेनिलं तनु ।
पित्तात् पीतासितं रक्तं स्त्यायत्यौष्ण्याच्चिरेण च||२०||
ईषत्पाण्डु कफाद्दुष्टं पिच्छिलं तन्तुमद्धनम्।
संसृष्टलिङ्गं [१] संसर्गात्त्रिलिङ्गं सान्निपातिकम्||२१||

श्लोक 22

तपनीयेन्द्रगोपाभं पद्मालक्तकसन्निभम्।
गुञ्जाफलसवर्णं च विशुद्धं विद्धि शोणितम् ||२२||

श्लोक 23

नात्युष्णशीतं लघु दीपनीयं रक्तेऽपनीते हितमन्नपानम्| तदा शरीरं ह्यनवस्थितासृगग्निर्विशेषेण च रक्षितव्यः ||२३||

श्लोक 24

प्रसन्नवर्णेन्द्रियमिन्द्रियार्थानिच्छन्तमव्याहतपक्तृवेगम्| सुखान्वितं तु (पु) ष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति ||२४||

श्लोक 25-29

यदा तु रक्तवाहीनि रससञ्ज्ञावहानि च|
पृथक् पृथक् समस्ता वा स्रोतांसि कुपिता मलाः ||२५||
मलिनाहारशीलस्य रजोमोहावृतात्मनः । प्रतिहत्यावतिष्ठन्ते जायन्ते व्याधयस्तदा||२६||
मदमूर्च्छायसन्न्यासास्तेषां विद्याद्विचक्षणः | यथोत्तरं बलाधिक्यं हेतुलिङ्गोपशान्तिषु||२७||
दुर्बलं चेतसः स्थानं यदा वायुः प्रपद्यते।
मनो विक्षोभयञ्जन्तोः सञ्ज्ञां सम्मोहयेत्तदा||२८||
पित्तमेवं कफश्चैवं मनो विक्षोभयन्नृणाम्। सञ्ज्ञां नयत्याकुलतां विशेषश्चात्र वक्ष्यते||२९||

श्लोक 30-33

सक्तानल्पद्रुताभाषं चलस्खलितचेष्टितम् [१] | विद्याद्वातमदाविष्टं रूक्षश्यावारुणाकृतिम्||३०||
सक्रोधपरुषाभाषं सम्प्रहारकलिप्रियम्।
विद्यात् पित्तमदाविष्टं रक्तपीतासिताकृतिम्||३१||
स्वल्पासम्बद्धवचनं तन्द्रालस्यसमन्वितम्। विद्यात् कफमदाविष्टं पाण्डुं प्रध्यानतत्परम्||३२||
सर्वाण्येतानि रूपाणि सन्निपातकृते मदे|३३|

श्लोक 33

जायते शाम्यति क्षिप्रं मदो मद्यमदाकृतिः||३३||

श्लोक 34

यश्च मद्यकृतः प्रोक्तो विषजो रौधिरश्च यः । सर्व एते मदा नर्ते वातपित्तकफत्रयात्||३४||

श्लोक 34-41

नीलं वा यदि वा कृष्णमाकाशमथवाऽरुणम्| पश्यंस्तमः प्रविशति शीघ्रं च प्रतिबुध्यते [१] ||३५||
वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च।
कार्थ्यं श्यावारुणा च्छायामूर्च्छाये वातसम्भवे||३६||
रक्तं हरितवर्णं वा वियत् पीतमथापि वा। पश्यंस्तमः प्रविशति सस्वेदः प्रतिबुध्यते ||३७||
सपिपासः ससन्तापो रक्तपीताकुलेक्षणः। सम्भिन्नवर्चाः पीताभो मूर्च्छाये पित्तसम्भवे ||३८||
मेघसङ्काशमाकाशमावृतं वा तमोघनैः । पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते ||३९||
गुरुभिः प्रावृतैरङ्गैर्यथैवार्द्रेण चर्मणा ।
सप्रसेकः सहृल्लासो मूर्च्छाये कफसम्भवे||४०||
सर्वाकृतिः सन्निपातादपस्मार इवागतः।
स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः||४१||

श्लोक 42-53

दोषेषु मदमूर्च्छायाः कृतवेगेषु [१] देहिनाम् | स्वयमेवोपशाम्यन्ति सन्न्यासो नौषधैर्विना||४२||
वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः| सन्न्यस्यन्त्यबलं जन्तुं प्राणायतनसंश्रिताः||४३||
स ना सन्न्याससन्न्यस्तः काष्ठीभूतो मृतोपमः। प्राणैर्वियुज्यते शीघ्रं मुक्त्वा सद्यः फलाः क्रियाः ||४४||
दुर्गेऽम्भसि यथा मज्जद्भाजनं त्वरया बुधः । गृह्णीयात्तलमप्राप्तं तथा सन्न्यासपीडितम्||४५||
अञ्जनान्यवपीडाश्च धूमाः प्रधमनानि च| सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे ||४६ ||
लुञ्चनं केशलोम्नां च दन्तैर्दशनमेव च। -आत्मगुप्तावघर्षश्च हितं तस्यावबोधने||४७||
सम्मूर्च्छितानि तीक्ष्णानि मद्यानि विविधानि च। प्रभूतकटुयुक्तानि [२] तस्यास्ये गालयेन्मुहुः ||४८||
मातुलुङ्गरसं तद्वन्महौषधसमायुतम्।
तद्वत्सौवर्चलं दद्याद्युक्तं मद्याम्लकाञ्जिकैः||४९||
हिङ्गूषणसमायुक्तं यावत् सञ्ज्ञाप्रबोधनम्। प्रबुद्धसञ्ज्ञमन्नैश्च लघुभिस्तमुपाचरेत्||५०||
विस्मापनैः स्मारणैश्च प्रियश्रुतिभिरेव च। पटुभिर्गीतवादित्रशब्दैश्चित्रैश्च दर्शनैः||५१||
स्रंसनोल्लेखनैर्धूमैरञ्जनैः कवलग्रहैः । शोणितस्यावसेकैश्च व्यायामोद्धर्षणैस्तथा||५२||
प्रबुद्धसञ्ज्ञं मतिमाननुबन्धमुपक्रमेत्।
तस्य [३] संरक्षितव्यं हि मनः प्रलयहेतुतः || ५३ ||

श्लोक 54-58

स्नेहस्वेदोपपन्नानां यथादोषं यथाबलम्| पञ्च कर्माणि कुर्वीत मूर्च्छायेषु मदेषु च||५४||
अष्टाविंशत्यौषधस्य तथा तिक्तस्य सर्पिषः । प्रयोगः शस्यते तद्वन्महतः षट्पलस्य वा||५५||
त्रिफलायाः प्रयोगो वा सघृतक्षौद्रशर्करः । शिलाजतुप्रयोगो वा प्रयोगः पयसोऽपि वा || ५६||
पिप्पलीनां प्रयोगो वा पयसा चित्रकस्य वा | रसायनानां कौम्भस्य सर्पिषो वा प्रशस्यते||५७||
रक्तावसेकाच्छास्त्राणां सतां सत्त्ववतामपि । सेवनान्मदमूर्च्छायाः प्रशाम्यन्ति शरीरिणाम् ||५८||

श्लोक 59-60

तत्र श्लोकौ-
विशुद्धं चाविशुद्धं च शोणितं तस्य हेतवः। रक्तप्रदोषजा रोगास्तेषु रोगेषु चौषधम्||५९||
मदमूर्च्छायसन्न्यासहेतुलक्षणभेषजम्। विधिशोणितकेऽध्याये सर्वमेतत् प्रकाशितम्||६०||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने विधिशोणितीयो नाम चतुर्विंशोऽध्यायः ||२४||

समाप्तो योजनाचतुष्कः ||६||