विद्रधिनिदानम्

श्लोक 1-3

विद्रधिसम्प्राप्तिः

अथ विद्रधिनिदानम् |
त्वग्रक्तमांसमेदांसि सन्दूष्यास्थिसमाश्रिताः |
दोषाः शोथं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् ||१||

महामूलं रुजावन्तं वृत्तं वाऽप्यथवाऽऽयतम् |
स विद्रधिरिति ख्यातो विज्ञेयः षड्विधश्च सः ||२||

पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा |
षण्णामपि हि तेषां तु लक्षणं सम्प्रवक्ष्यते ||३||
(सु. नि. अ. ९) |

श्लोक 4

वातजविद्रधिलक्षणम्

कृष्णोऽरुणो वा विषमो भृशमत्यर्थवेदनः |
चित्रोत्थानप्रपाकश्च विद्रधिर्वातसम्भवः ||४||
(सु. नि. अ. ९) |

श्लोक 5

पित्तजविद्रधिलक्षणम्

पक्वोदुम्बरसङ्काशः श्यावो वा ज्वरदाहवान् |
क्षिप्रोत्थानप्रपाकश्च विद्रधिः पित्तसम्भवः ||५||

श्लोक 6

कफजविद्रधिलक्षणम्

शरावसदृशः पाण्डुः शीतः स्निग्धोऽल्पवेदनः |
चिरोत्थानप्रपाकश्च विद्रधिः कफसम्भवः ||६||
(सु. नि. अ. ९) |

श्लोक 7

दोषविशेषेण विद्रधीनामास्रावभेदः

तनुपीतसिताश्चैषामास्रावाः क्रमशः स्मृताः |७|

श्लोक 7

सन्निपातजविद्रधिलक्षणम्

नानावर्णरुजास्रावो घाटालो विषमो महान् ||७||
विषमं पच्यते चापि विद्रधिः सान्निपातिकः |
(सु. नि. अ. ९) |

श्लोक 8-10

आगन्तुविद्रधेः सम्प्राप्तिपूर्वकं लक्षणम्

तैस्तैर्भावैरभिहते क्षते वाऽपथ्यकारिणः ||८||

क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् |
ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः ||९||

आगन्तुर्विद्रधिर्ह्येष पित्तविद्रधिलक्षणः |१०|
(सु. नि. अ. ९) |

श्लोक 10-11

रक्तजविद्रधिलक्षणम्

कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाकरः ||१०||

पित्तविद्रधिलिङ्गस्तु रक्तविद्रधिरुच्यते |११|
(सु. नि. अ. ९) |

श्लोक 11-16

आभ्यन्तरविद्रधिलक्षणम्, आभ्यन्तरविद्रधेरधिष्ठानविशेषेण विशेषलिङ्गानि च

पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपिणम् ||११||

वल्मीकवत् समुन्नद्धमन्तः कुर्वन्ति विद्रधिम् |
गुदे बस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा ||१२||

वृक्कयोः प्लीह्नि यकृति हृदि वा क्लोम्नि वाऽप्यथ |
तेषामुक्तानि लिङ्गानि बाह्यविद्रधिलक्षणैः ||१३||

अधिष्ठानविशेषेण लिङ्गं शृणु विशेषतः |
गुदे वातनिरोधश्च बस्तौ कृच्छ्राल्पमूत्रता ||१४||

नाभ्यां हिक्का तथाऽऽटोपः कुक्षौ मारुतकोपनम् |
कटीपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु विद्रधौ ||१५||

वृक्कयोः पार्श्वसङ्कोचः प्लीह्न्युच्छ्वासावरोधनम् |
सर्वाङ्गप्रग्रहस्तीव्रो हृदि कासश्च जायते |
श्वासो यकृति हिक्का च क्लोम्नि पेपीयते पयः ||१६||
(सु. नि. अ. ९) |

श्लोक 17

विद्रधीनां स्रावनिर्गममार्गः

नाभेरुपरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः |१७|
(सु. नि. अ. ९) |

श्लोक 17-20

विद्रधेः साध्यासाध्यविचारः

अधःस्रुतेषु जीवेत्तु स्रुतेषूर्ध्वं न जीवति ||१७||

हृन्नाभिबस्तिवर्ज्या ये तेषु भिन्नेषु बाह्यतः |
जीवेत् कदाचित् पुरुषो नेतरेषु कदाचन ||१८||

(सु. नि. अ. ९) |
साध्या विद्रधयः पञ्च विवर्ज्यः सान्निपातिकः |
आमपक्वविदग्धत्वं तेषां शोथवदादिशेत् ||१९||

(वा. नि. अ. ११) |
आध्मातं बद्धनिष्यन्दं छर्दिहिक्कातृषान्वितम् |
रुजाश्वाससमायुक्तं विद्रधिर्नाशयेन्नरम् ||२०||
(सु. सू. अ. ३३) |

पुष्पिका

इति श्रीमाधवकरविरचिते माधवनिदाने विद्रधिनिदानं समाप्तम् ||४०||