वृद्ध्युपदंशश्लीपदचिकित्सितम्

श्लोक 1-4

अथातो वृद्ध्युपदंशश्लीपदचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

अन्त्रवृद्ध्या विना षड्या वृद्धयस्तासु वर्जयेत् |
अश्वादियानं व्यायामं मैथुनं वेगनिग्रहम् ||३||

अत्यासनं चङ्क्रमणमुपवासं गुरूणि च |४|

श्लोक 4-9

तत्रादितो वातवृद्धौ त्रैवृतस्निग्धमातुरम् ||४||

स्विन्नं चैनं यथान्यायं पाययेत विरेचनम् |
कोशाम्रतिल्वकैरण्डफलतैलानि वा नरम् ||५||

सक्षीरं वा पिबेन्मासं तैलमेरण्डसम्भवम् |
ततः कालेऽनिलघ्नानां क्वाथैः कल्कैश्च बुद्धिमान् ||६||

निरूहयेन्निरूढं च भुक्तवन्तं रसौदनम् |
यष्टीमधुकसिद्धेन ततस्तैलेन योजयेत् ||७||

स्नेहोपनाहौ कुर्याच्च प्रदेहांश्चानिलापहान् |
विदग्धां पाचयित्वा वा सेवनीं परिवर्जयेत् ||८||

भिन्द्यात्ततः प्रभिन्नायां यथोक्तं क्रममाचरेत् |९|

श्लोक 9-12

पित्तजायामपक्वायां पित्तग्रन्थिक्रमो हितः ||९||

पक्वां वा भेदयेद्भिन्नां शोधयेत् क्षौद्रसर्पिषा |
शुद्धायां च भिषग्दद्यात्तैलं कल्कं च रोपणम् ||१०||

रक्तजायां जलौकोभिः शोणितं निर्हरेद्भिषक् |
पिबेद्विरेचनं वाऽपि शर्कराक्षौद्रसंयुतम् ||११||

पित्तग्रन्थिक्रमं कुर्यादामे पक्वे च सर्वदा |१२|

श्लोक 12-14

वृद्धिं कफात्मिकामुष्णैर्मूत्रपिष्टैः प्रलेपयेत् ||१२||

पीतदारुकषायं च पिबेन्मूत्रेण संयुतम् |
विम्लापनादृते वाऽपि श्लेष्मग्रान्थिक्रमो हितः ||१३||

पक्वायां च विभिन्नायां तैलं शोधनमिष्यते |
सुमनारुष्कराङ्कोठसप्तपर्णेषु साधितम् ||१४||

श्लोक 15-18

मेदःसमुत्थां संस्वेद्य लेपयेत् सुरसादिना |
शिरोविरेकद्रव्यैर्वा सुखोष्णैर्मूत्रसंयुतैः ||१५||

स्विन्नां चावेष्ट्य पट्टेन समाश्वास्य तु मानवम् |
रक्षन् फले सेवनीं च वृद्धिपत्रेण दारयेत् ||१६||

भेदस्ततः समुद्धृत्य दद्यात् कासीससैन्धवे |
बध्नीयाच्च यथोद्दिष्टं शुद्धे तैलं च दापयेत् ||१७||

मनःशिलाललवणैः सिद्धमारुष्करेषु च |१८|

श्लोक 18-24

मूत्रजां स्वेदयित्वा तु वस्त्रपट्टेन वेष्टयेत् ||१८||

सेवन्याः पार्श्वतोऽधस्ताद्विध्येद् व्रीहिमुखेन तु |
अथात्र द्विमुखां नाडीं दत्त्वा विस्रावयेद्भिषक् ||१९||

मूत्रं, नाडीमथोद्धृत्य स्थगिकाबन्धमाचरेत् |
शुद्धायां रोपणं दद्याद्वर्जयेदन्त्रहैतुकीम् ||२०||

अप्राप्तफलकोषायां वातवृद्धिक्रमो हितः |
तत्र या वङ्क्षणस्था तां दहेदर्धेन्दुवक्त्रया ||२१||

सम्यङ्मार्गावरोधार्थं कोशप्राप्तां तु वर्जयेत् |
त्वचं भित्त्वाऽङ्गुष्ठमध्ये दहेच्चाङ्गविपर्ययात् ||२२||

अनेनैव विधानेन वृद्धी वातकफात्मिके |
प्रदहेत् प्रयतः किन्तु स्नायुच्छेदोऽधिकस्तयोः ||२३||

शङ्खोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीम् |
व्यत्यासाद्वा सिरां विध्येदन्त्रवृद्धिनिवृत्तये ||२४||

श्लोक 25-27

उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिनः |
सिरां विध्येन्मेढ्रमध्ये पातयेद्वा जलौकसः ||२५||

हरेदुभयतश्चापि दोषानत्यर्थमुच्छ्रितान् |
सद्योऽपहृतदोषस्य रुक्शोफावुपशाम्यतः ||२६||

यदि वा दुर्बलो जन्तुर्न वा प्राप्तं विरेचनम् |
निरूहेण हरेत्तस्य दोषानत्यर्थमुच्छ्रितान् ||२७||

श्लोक 28-30

प्रपौण्डरीकयष्ट्याह्ववर्षाभूकुष्ठदारुभिः |
सरलागुरुरास्नाभिर्वातजं सम्प्रलेपयेत् ||२८||

निचुलैरण्डबीजानि यवगोधूमसक्तवः |
एतैश्च वातजं स्निग्धैः सुखोष्णैः सम्प्रलेपयेत् ||२९||

प्रपौण्डरीकपूर्वैश्च द्रव्यैः सेकः प्रशस्यते |३०|

श्लोक 30-33

गैरिकाञ्जनयष्ट्याह्वसारिवोशीरपद्मकैः ||३०||

सचन्दनोत्पलैः स्निग्धैः पैत्तिकं सम्प्रलेपयेत् |
पद्मोत्पलमृणालैश्च ससर्जार्जुनवेतसैः ||३१||

सर्पिःस्निग्धैः समधुकैः पैत्तिकं सम्प्रलेपयेत् |
सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः ||३२||

अथवाऽपि सुशीतेन कषायेण वटादिना |३३|

श्लोक 33-35

सालाश्वकर्णाजकर्णधवत्वग्भिः कफोत्थितम् ||३३||

सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत् |
रजन्यतिविषामुस्तासुरसासुरदारुभिः ||३४||

सपत्रपाठापत्तूरैरथवा सम्प्रलेपयेत् |
सुरसारग्वधाद्योश्च क्वाथाभ्यां परिषेचयेत् ||३५||

श्लोक 36-39

एवं संशोधनालेपसेकशोणितमोक्षणैः |
प्रतिकुर्यात् क्रियायोगैः प्राक्स्थानोक्तैर्हितैरपि ||३६||

न याति च यथा पाकं प्रयतेत तथा भिषक् |
विदग्धैस्तु सिरास्नायुत्वङ्मांसैः क्षीयते ध्वजः ||३७||

शस्त्रेणोपचरेच्चापि पाकमागतमाशु वै |
तदाऽपोह्य तिलैः सर्पिःक्षौद्रयुक्तैः प्रलेपयेत् ||३८||

करवीरस्य पत्राणि जात्यारग्वधयोस्तथा |
प्रक्षालने प्रयोज्यानि वैजयन्त्यर्कयोरपि ||३९||

श्लोक 40-41

सौराष्ट्रीं गैरिकं तुत्थं पुष्पकासीससैन्धवम् |
रोध्रं रसाञ्जनं दार्वीं हरितालं मनःशिलाम् ||४०||

हरेणुकैले च तथा सूक्ष्मचूर्णानि कारयेत् |
तच्चूर्णं क्षौद्रसंयुक्तमुपदंशेषु पूजितम् ||४१||

श्लोक 42-45

जम्ब्वाम्रसुमनानिम्बश्वेतकाम्बोजिपल्लवाः |
शल्लकीबदरीबिल्वपलाशतिनिशत्वचः ||४२||

क्षीरिणां च त्वचो योज्याः क्वाथे त्रिफलया सह |
तेन क्वाथेन नियतं व्रणं प्रक्षालयेद्भिषक् ||४३||

अस्मिन्नेव कषाये तु तैलं धीरो विपाचयेत् |
गोजीविडङ्गयष्टीभिः सर्वगन्धैश्च संयुतम् ||४४||

एतत् सर्वोपदंशेषु श्रेष्ठं रोपणमिष्यते |४५|

श्लोक 45-48

स्वर्जिकातुत्थकासीसं शैलेयं च रसाञ्जनम् ||४५||

मनःशिलासमैश्चूर्णं व्रणवीसर्पनाशनम् |
गुन्द्रां दग्ध्वा कृतं भस्म हरितालं मनःशिला ||४६||

उपदंशबिसर्पाणामेतच्छान्तिकरं परम् |
मार्कवस्त्रिफला दन्ती ताम्रचूर्णमयोरजः ||४७||

उपदंशं निहन्त्येष वृक्षमिन्द्राशनिर्यथा |४८|

श्लोक 48-49

उपदंशद्वयेऽप्येतां प्रत्याख्यायाचरेत् क्रियाम् ||४८||

तयोरेव च या योग्या वीक्ष्य दोषबलाबलम् |४९|

श्लोक 49-51

उपदंशे विशेषेण शृणु भूयस्त्रिदोषजे ||४९||

दुष्टव्रणविधिं कुर्यात् कुथितं मेहनं त्यजेत् |
जम्ब्वोष्ठेनाग्निवर्णेन पश्चाच्छेषं दहेद्भिषक् ||५०||

सम्यग्दग्धं च विज्ञाय मधुसर्पिः प्रयोजयेत् |
शुद्धे च रोपणं दद्यात् कल्कं तैलं हितं च यत् ||५१||

श्लोक 52-54

स्नेहस्वेदोपपन्ने तु श्लीपदेऽनिलजे भिषक् |
कृत्वा गुल्फोपरि सिरां विध्येत्तु चतुरङ्गुले ||५२||

समाप्यायितदेहं च बस्तिभिः समुपाचरेत् |
मासमेरण्डजं तैलं पिबेन्मूत्रेण संयुतम् ||५३||

पयसौदनमश्नीयान्नागरक्वथितेन च |
त्रैवृतं चोपयुञ्जीत शस्तो दाहस्तथाऽग्निना ||५४||

श्लोक 55

गुल्फस्याधः सिरां विध्येच्छ्लीपदे पित्तसम्भवे |
पित्तघ्नीं च क्रियां कुर्यात् पित्तार्बुदविसर्पवत् ||५५||

श्लोक 56-62

सिरां सुविदितां विध्येदङ्गुष्ठे श्लैष्मिके भिषक् |
मधुयुक्तानि चाभीक्ष्णं कषायाणि पिबेन्नरः ||५६||

पिबेद्वाऽप्यभयाकल्कं मूत्रेणान्यतमेन च |
कटुकाममृतां शुण्ठीं विडङ्गं दारु चित्रकम् ||५७||

हितं वा लेपने नित्यं भद्रदारु सचित्रकम् |
विडङ्गमरिचार्केषु नागरे चित्रकेऽथवा ||५८||

भद्रदार्वेलुकाख्ये च सर्वेषु लवणेषु च |
तैलं पक्वं पिबेद्वाऽपि यवान्नं च हितं सदा ||५९||

पिबेत् सर्षपतैलं वा श्लीपदानां निवृत्तये |
पूतीकरञ्जपत्राणां रसं वाऽपि यथाबलम् ||६०||

अनेनैव विधानेन पुत्रञ्जीवकजं रसम् |
प्रयुञ्जीत भिषक् प्राज्ञः कालसात्म्यविभागवित् ||६१||

केवुकाकन्दनिर्यासं लवणं त्वथ पाकिमम् |
रसं दत्त्वाऽथ पूर्वोक्तं पेयमेतद्भिषग्जितम् ||६२||

श्लोक 63-66

काकादनीं काकजङ्घां बृहतीं कण्टकारिकाम् |
कदम्बपुष्पीं मन्दारीं लम्बां शुकनसां तथा ||६३||

दग्ध्वा मूत्रेण तद्भस्म स्रावयेत् क्षारकल्पवत् |
तत्र दद्यात् प्रतीवापं काकोदुम्बरिकारसम् ||६४||

मदनाच्च फलात् क्वाथं शुकाख्यस्वरसं तथा |
एष क्षारस्तु पानीयः श्लीपदं हन्ति सेवितः ||६५||

अपचीं गलगण्डं च ग्रहणीदोषमेव च |
भक्तस्यानशनं चैव हन्यात् सर्वविषाणि च ||६६||

श्लोक 67

एष्वेव तैलं संसिद्धं नस्याभ्यङ्गेषु पूजितम
एतानेवामयान् हन्ति ये च दुष्टव्रणा नृणाम् ||६७||

श्लोक 68-69

द्रवन्तीं त्रिवृतां दन्तीं नीलीं श्यामां तथैव च |
सप्तलां शङ्खिनीं चैव दग्ध्वा मूत्रेण गालयेत् ||६८||

दद्याच्च त्रिफलाक्वाथमेष क्षारस्तु साधितः |
अधो गच्छति पीतस्तु पूर्वैश्चाप्याशिषः समाः ||६९||

पुष्पिका

इति सुश्रुतसंहितायां चिकित्सास्थाने वृद्ध्युपदंशश्लीपदचिकित्सितं  नामैकोनविंशोऽध्यायः ||१९||