श्लोक 1-2
अथातो वेदोत्पत्तिमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्लोक 3
अथ खलु भगवन्तममरवरमृषिगणपरिवृतमाश्रमस्थं काशिराजं दिवोदासं धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावतकरवीर्य(र) गोपुररक्षितसुश्रुत-प्रभृतय ऊचुः ||३||
श्लोक 4
भगवन्! शारीरमानसागन्तुभिर्व्याधिभिर्विविधवेदनाभिघातोपद्रुतान् सनाथानप्यनाथवद्विचेष्टमानान् विक्रोशतश्च मानवानभिसमीक्ष्य मनसि नः पीडा भवति, तेषां सुखैषिणां रोगोपशमार्थमात्मनश्च प्राणयात्रार्थं प्रजाहितहेतोरायुर्वेदं श्रोतुमिच्छाम इहोपदिश्यमानम्, अत्रायत्तमैहिकमामुष्मिकं च श्रेयः; तद्भगवन्तमुपपन्नाः स्मः शिष्यत्वेनेति ||४||
श्लोक 5
तानुवाच भगवान्-स्वागतं वः; सर्व एवामीमांस्या अध्याप्याश्च भवन्तो वत्साः ||५||
श्लोक 6
इह खल्वायुर्वेदं नामोपाङ्गमथर्ववेदस्यानुत्पाद्यैव प्रजाः श्लोकशतसहस्रमध्यायसहस्रं च कृतवान् स्वयम्भूः, ततोऽल्पायुष्ट्वमल्पमेधस्त्वं चालोक्य नराणां भूयोऽष्टधा प्रणीतवान् ||६||
श्लोक 7
तद्यथा-शल्यं, शालाक्यं, कायचिकित्सा, भूतविद्या, कौमारभृत्यम्, अगदतन्त्रं, रसायनतन्त्रं, वाजीकरणतन्त्रमिति ||७||
श्लोक 8
अथास्य प्रत्यङ्गलक्षणसमासः |८|
श्लोक 8(1)
तत्र, शल्यं नाम विविधतृणकाष्ठपाषाणपांशुलोहलोष्टास्थिबालनखपूयास्रा-वदुष्टव्रणान्तर्गर्भशल्योद्धरणार्थं , यन्त्रशस्त्रक्षाराग्निप्रणिधानव्रणविनिश्चयार्थं च (१) |८|
श्लोक 8(2)
शालाक्यं नामोर्ध्वजत्रुगतानां श्रवणनयनवदनघ्राणादिसंश्रितानां व्याधीनामुपशमनार्थम् (२) |८|
श्लोक 8(3)
कायचिकित्सा नाम सर्वाङ्गसंश्रितानां व्याधीनां ज्वररक्तपित्तशोषोन्मा-दापस्मारकुष्ठमेहातिसारादीनामुपशमनार्थम् (३) |८|
श्लोक 8(4)
भूतविद्या नाम देवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्मबलिहरणादिग्रहोपशमनार्थम् (४) |८|
श्लोक 8(5)
कौमारभृत्यं नाम कुमारभरणधात्रीक्षीरदोषसंशोधनार्थं दुष्टस्तन्यग्रहसमुत्थानां च व्याधीनामुपशमनार्थम् (५) |८|
श्लोक 8(6)
अगदतन्त्रं नाम सर्पकीटलूतामूषकादिदष्टविषव्यञ्जनार्थं विविधविषसंयोगोपशमनार्थं च (६) |८|
श्लोक 8(7)
रसायनतन्त्रं नाम वयःस्थापनमायुर्मेधाबलकरं रोगापहरणसमर्थं च (७) |८|
श्लोक 8(8)
वाजीकरणतन्त्रं नामाल्पदुष्टक्षीणविशुष्करेतसामाप्यायनप्रसादोपचयजनननिमित्तं प्रहर्षजननार्थं च (८) ||८||
श्लोक 9
एवमयमायुर्वेदोऽष्टाङ्ग उपदिश्यते; अत्र कस्मै किमुच्यतामिति ||९||
श्लोक 10-11
त ऊचुः- अस्माकं सर्वेषामेव शल्यज्ञानं मूलं कृत्वोपदिशतु भगवानिति ||१०||
स उवाचैवमस्त्विति ||११||
श्लोक 12-13
त ऊचुर्भूयोऽपि भगवन्तम्-अस्माकमेकमतीनां मतमभिसमीक्ष्य सुश्रुतो भगवन्तं प्रक्ष्यति, अस्मै चोपदिश्यमानं वयमप्युधारयिष्यामः ||१२||
स उवाचैवमस्त्विति ||१३||
श्लोक 14
वत्स सुश्रुत! इह खल्वायुर्वेदप्रयोजनं-व्याध्युपसृष्टानां व्याधिपरिमोक्षः, स्वस्थस्य रक्षणं च ||१४||
श्लोक 15
‘आयुरस्मिन् विद्यते, अनेन वाऽऽयुर्विन्दन्ति’ इत्यायुर्वेदः ||१५||
श्लोक 16
तस्याङ्गवरमाद्यं प्रत्यक्षागमानुमानोपमानैरविरुद्धमुच्यमानमुपधारय ||१६||
श्लोक 17
एतद्ध्यङ्गं प्रथमं, प्रागभिघातव्रणसंरोहाद्यज्ञशिरःसन्धानाच्च |
श्रूयते हि यथा-“रुद्रेण यज्ञस्य शिरश्छिन्नमिति, ततो देवा अश्विनावभिगम्योचुः-भगवन्तौ नः श्रेष्ठतमौ युवां भविष्यथः भवद्भ्यां यज्ञस्य शिरः सन्धातव्यमिति |
तावूचतुरेवमस्त्विति |
अथ तयोरर्थे देवा इन्द्रं यज्ञभागेन प्रासादयन् |
ताभ्यां यज्ञस्य शिरः संहितम्” इति ||१७||
श्लोक 18
अष्टास्वपि चायुर्वेदतन्त्रेष्वेतदेवाधिकमभिमतम्, आशुक्रियाकरणाद्यन्त्रशस्त्रक्षाराग्निप्रणिधानात् सर्वतन्त्रसामान्याच्च ||१८||
श्लोक 19
तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्तिकरं चेति ||१९||
श्लोक 20
ब्रह्मा प्रोवाच ततः प्रजापतिरधिजगे, तस्मादश्विनौ, अश्विभ्यामिन्द्रः, इन्द्रादहं, मया त्विह प्रदेयमर्थिभ्यः प्रजाहितहेतोः ||२०||
श्लोक 21
भवति चात्र-अहं हि धन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम् |
शल्याङ्गमङ्गैरपरैरुपेतं प्राप्तोऽस्मि गां भूय इहोपदेष्टुम् ||२१||
श्लोक 22
अस्मिञ्छास्त्रे पञ्चमहाभूतशरीरिसमवायः पुरुष इत्युच्यते |
तस्मिन् क्रिया, सोऽधिष्ठानं; कस्मात्? लोकस्य द्वैविध्यात ; लोको हि द्विविधःस्थावरो जङ्गमश्च; द्विविधात्मक एवाग्नेयः, सौम्यश्च, तद्भूयस्त्वात्; पञ्चात्मको वा; तत्र चतुर्विधो भूतग्रामः संस्वेदजजरायुजाण्डजोद्भिज्जसञ्ज्ञः ;तत्र पुरुषः प्रधानं, तस्योपकरणमन्यत्; तस्मात् पुरुषोऽधिष्ठानम् ||२२||
श्लोक 23
तद्दुःखसंयोगा व्याधय उच्यन्ते ||२३||
श्लोक 24
ते चतुर्विधाः- आगन्तवः, शारीराः, मानसाः, स्वाभाविकाश्चेति ||२४||
श्लोक 25(1)
तेषामागन्तवोऽभिघातनिमित्ताः |२५|
श्लोक 25(2)
शारीरास्त्वन्नपानमूला वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः |२५|
श्लोक 25(3)
मानसास्तु क्रोधशोकभयहर्षविषादेर्ष्याभ्यसूयादैन्यमात्सर्यकामलोभप्रभृतय इच्छाद्वेषभेदैर्भवन्ति |२५|
श्लोक 25(4)
स्वाभाविकास्तु क्षुत्पिपासाजरामृत्युनिद्राप्रकृ(भृ)तयः ||२५||
श्लोक 26
त एते मनःशरीराधिष्ठानाः ||२६||
श्लोक 27
तेषां संशोधनसंशमनाहाराचाराः सम्यक्प्रयुक्ता निग्रहहेतवः ||२७||
श्लोक 28
प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च |
स षट्सु रसेष्वायत्तः; रसाः पुनर्द्रव्याश्रयाः; द्रव्याणि पुनरोषधयः |
तास्तु द्विविधाः- स्थावरा जङ्गमाश्च ||२८||
श्लोक 29
तासां स्थावराश्चतुर्विधाः- वनस्पतयो, वृक्षा, वीरुध, ओषधय इति |
तासु, अपुष्पाः फलवन्तो वनस्पतयः, पुष्पफलवन्तो वृक्षाः, प्रतानवत्यः स्तम्बिन्यश्च वीरुधः, फलपाकनिष्ठा ओषधय इति ||२९||
श्लोक 30
जङ्गमा खल्वपि चतुर्विधाः- जरायुजाण्डजस्वेदजोद्भिज्जाः |
तत्र पशुमनुष्यव्यालादयो जरायुजाः, खगसर्पसरीसृपप्रभृतयोऽण्डजाः, कृमिकीटपिपीलिकाप्रभृतयः स्वेदजाः, इन्द्रगोपमण्डूकप्रभृतय उद्भिज्जाः ||३०||
श्लोक 31
तत्र स्थावरेभ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिर्यासस्वरसादयः प्रयोजनवन्तः; जङ्गमेभ्यश्चर्मनखरोमरुधिरादयः ||३१||
श्लोक 32
पार्थिवाः सुवर्णरजतमणिमुक्तामनःशिलामृत्कपालादयः ||३२||
श्लोक 33
कालकृताःप्रवातनिवातातपच्छायाज्योत्स्नातमः शीतोष्णवर्षाहोरात्रपक्षमासर्त्वयनादयः संवत्सरविशेषाः ||३३||
श्लोक 34
त एते स्वभावत एव दोषाणां सञ्चयप्रकोपप्रशमप्रतीकारहेतवः प्रयोजनवन्तश्च ||३४||
श्लोक 35
भवन्ति चात्र श्लोकाः-
शारीराणां विकाराणामेष वर्गश्चतुर्विधः |
प्रकोपे प्रशमे चैव हेतुरुक्तश्चिकित्सकैः ||३५||
श्लोक 36-37
आगन्तवस्तु ये रोगास्ते द्विधा निपतन्ति हि |
मनस्यन्ये शरीरेऽन्ये तेषां तु द्विविधा क्रिया ||३६||
शरीरपतितानां तु शारीरवदुपक्रमः |
मानसानां तु शब्दादिरिष्टो वर्गः सुखावहः ||३७||
श्लोक 38
एवमेतत् पुरुषो व्याधिरौषधं क्रियाकाल इति चतुष्टयं समासेन व्याख्यातम् |
तत्र पुरुषग्रहणात् तत्सम्भवद्रव्यसमूहो भूतादिरुक्तस्तदङ्गप्रत्यङ्गविकल्पाश्च त्वङ्मांसास्थिसिरास्नायुप्रभृतयः, व्याधिग्रहणाद्वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः सर्व एव व्याधयो व्याख्याताः, औषधग्रहणाद्द्रव्यरसगुणवीर्यविपाकानामादेशः, क्रियाग्रहणात् स्नेहादीनि च्छेद्यादीनि च कर्माणि व्याख्यातानि, कालग्रहणात् सर्वक्रियाकालानामादेशः ||३८||
श्लोक 39
भवति चात्र-
बीजं चिकित्सितस्यैतत्समासेन प्रकीर्तितम् |
सविंशमध्यायशतमस्य व्याख्या भविष्यति ||३९||
श्लोक 40
तच्च सविंशमध्यायशतं पञ्चसु स्थानेषु |
तत्र सूत्रनिदानशारीरचिकित्सितकल्पेष्वर्थवशात् संविभज्योत्तरे तन्त्रे शेषानर्थान् वक्ष्यामः ||४०||
श्लोक 41
भवति चात्र-
स्वयम्भुवा प्रोक्तमिदं सनातनं पठेद्धि यः काशिपतिप्रकाशितम् |
स पुण्यकर्मा भुवि पूजितो नृपैरसुक्षये शक्रसलोकतां व्रजेत् ||४१||
पुष्पिका
इति सुश्रुतसंहितायां सूत्रस्थाने वेदोत्पत्तिर्नाम प्रथमोऽध्यायः ||१||