व्रणप्रश्नाध्यायः

श्लोक 1-2

अथातो व्रणप्रश्नमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

वातपित्तश्लेष्माण एव देहसम्भवहेतवः |
तैरेवाव्यापन्नैरधोमध्योर्ध्वसन्निविष्टैः शरीरमिदं धार्यतेऽगारमिव  स्थूणाभिस्तिसृभिः अतश्च त्रिस्थूणमाहुरेके |
त एव च व्यापन्नाः प्रलयहेतवः |
तदेभिरेव शोणितचतुर्थैः सम्भवस्थितिप्रलयेष्वप्यविरहितं शरीरं भवति  ||३||

श्लोक 4

भवति चात्र-
नर्ते देहः कफादस्ति न पित्तान्न च मारुतात् |
शोणितादपि वा नित्यं देह एतैस्तु धार्यते ||४||

श्लोक 5

तत्र ‘वा’ गतिगन्धनयोः, इति धातुः, ‘तप’ सन्तापे, ‘श्लिष’ आलिङ्गने, एतेषां कृद्विहितैः प्रत्ययैर्वातः पित्तं श्लेष्मेति च रूपाणि भवन्ति ||५||

श्लोक 6

दोषस्थानान्यत ऊर्ध्वं वक्ष्यामः-तत्र समासेन वातः श्रोणिगुदसंश्रयः; तदुपर्यधो नाभेः पक्वाशयः,  पक्वामाशयमध्यं पित्तस्य; आमाशयः श्लेष्मणः ||६||

श्लोक 7

अतः परं पञ्चधा विभज्यन्ते |
तत्र वातस्य वातव्याधौ वक्ष्यामः; पित्तस्य यकृत्प्लीहानौ हृदयं दृष्टिस्त्वक्  पूर्वोक्तं च; श्लेष्मण उरः शिरः कण्ठो जिह्वामूलं सन्धय इति पूर्वोक्तं च;  एतानि खलु दोषाणां स्थानान्यव्यापन्नानाम् ||७||

श्लोक 8

भवति चात्र-
विसर्गोदानविक्षेपैः सोमसूर्यानिला यथा |
धारयन्ति जगद्देहं कफपित्तानिलास्तथा ||८||

श्लोक 9

तत्र जिज्ञास्यं किं पित्तव्यतिरेकादन्योऽग्निः? आहोस्वित् पित्तमेवाग्निरिति? |
अत्रोच्यते-न खलु पित्तव्यतिरेकादन्योऽग्निरुपलभ्यते, आग्नेयत्वात् पित्ते  दहनपचनादिष्वभिप्रवर्तमानेऽग्निवदुपचारः क्रियतेऽन्तरग्निरिति; क्षीणे  ह्यग्निगुणे तत्समानद्रव्योपयोगात् , अतिवृद्धे शीतक्रियोपयोगात् ,  आगमाच्च पश्यामो न खलु पित्तव्यतिरेकादन्योऽग्निरिति ||९||

श्लोक 10

तच्चादृष्टहेतुकेन विशेषेण पक्वामाशयमध्यस्थं पित्तं चतुर्विधमन्नपानं पचति, विवेचयति च दोषरसमूत्रपुरीषाणि; तत्रस्थमेव चात्मशक्त्या शेषाणां  पित्तस्थानानां शरीरस्य चाग्निकर्मणाऽनुग्रहं करोति, तस्मिन् पित्ते  पाचकोऽग्निरिति सञ्ज्ञा; यत्तु यकृत्प्लीह्नोः पित्तं तस्मिन् रञ्जकोऽग्निरिति  सञ्ज्ञा, स रसस्य रागकृदुक्तः; यत् पित्तं हृदयस्थं तस्मिन्  साधकोऽग्निरिति सञ्ज्ञा, सोऽभिप्रार्थितमनोरथसाधनकृदुक्तः;  यद्दृष्ट्यां पित्तं तस्मिन्नालोचकोऽग्निरिति सञ्ज्ञा, स रूपग्रहणाऽधिकृतः;  यत्तु त्वचि पित्तं तस्मिन् भ्राजकोऽग्निरिति सञ्ज्ञा,  सोऽभ्यङ्गपरिषेकावगाहालेपनादीनां क्रियाद्रव्याणां पक्ता छायानां च  प्रकाशकः ||१०||

श्लोक 11

भवति चात्र-
पित्तं तीक्ष्णं द्रवं पूति नीलं पीतं तथैव च |
उष्णं कटुरसं चैव विदग्धं चाम्लमेव च ||११||

श्लोक 12

अत ऊर्ध्वं श्लेष्मस्थानान्यनुव्याख्यास्यामः |
तत्र, आमाशयः पित्ताशयस्योपरिष्टात् तत्प्रत्यनीकत्वादूर्ध्वगतित्वात्तेजसः,  चन्द्र इव आदित्यस्य , चतुर्विधस्याहारस्याधारः; स च तत्रौदकैर्गुणैराहारः  प्रक्लिन्नो भिन्नसङ्घातः सुखजरो भवति ||१२||

श्लोक 13

माधुर्यात् पिच्छिलत्वाच्च प्रक्लेदित्वात्तथैव च |
आमाशये सम्भवति श्लेष्मा मधुरशीतलः ||१३||

श्लोक 14

स तत्रस्थ एव स्वशक्त्या शेषाणां श्लेष्मस्थानानां शरीरस्य  चोदककर्मणाऽनुग्रहं करोति;  उरःस्थस्त्रिकसन्धारणमात्मवीर्येणान्नरससहितेन हृदयावलम्बनं करोति;  जिह्वामूलकण्ठस्थो जिह्वेन्द्रियस्य सौम्यत्वात् सम्यग्रसज्ञाने वर्तते; शिरःस्थः स्नेहसन्तर्पणाधिकृतत्वादिन्द्रियाणामात्मवीर्येणानुग्रहं करोत्; सन्धिस्थः  श्लेष्मा सर्वसन्धिसंश्लेषात् सर्वसन्ध्यनुग्रहं करोति ||१४||

श्लोक 15

भवति चात्र-
श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छिलः शीत एव च |
मधुरस्त्वविदग्धः स्याद्विदग्धो लवण स्मृतः ||१५||

श्लोक 16

शोणितस्य स्थानं यकृत्प्लीहानौ, तच्च प्रागभिहितं; तत्रस्थमेव शेषाणां  शोणितस्थानानामनुग्रहं करोति ||१६||

श्लोक 17

भवति चात्र-
अनुष्णशीतं मधुरं स्निग्धं रक्तं च वर्णतः |
शोणितं गुरु विस्रं स्याद्विदाहश्चास्य पित्तवत् ||१७||

श्लोक 18

एतानि खलु दोषस्थानानि; एषु सञ्चीयन्ते दोषाः |
प्राक् सञ्चयहेतुरुक्तः |
तत्र सञ्चितानां खलु दोषाणां स्तब्धपूर्णकोष्ठता पीतावभासता मन्दोष्मता  चाङ्गानां गौरवमालस्यं चयकारणविद्वेषश्चेति लिङ्गानि भवन्ति |
तत्र प्रथमः क्रियाकालः ||१८||

श्लोक 19

अत ऊर्ध्वं प्रकोपणानि वक्ष्यामः |
तत्र बलवद्विग्रहातिव्यायामव्यवायाध्ययनप्रपतनप्रधावनप्रपीडनाभिघा-तलङ्घनप्लवनतरणरात्रिजागरणभारहरण-गजतुरगरथपदातिचर्याकटुकषायतिक्तरूक्षलघुशीतवीर्यशुष्कशाकव-ल्लूरवरकोद्दालककोरदूषश्यामाकनीवार-मुद्गमसूराढकीहरेणुकलायनिष्पावानशनविषमाशनाध्यशनवातमूत्रपुरी-षशुक्रच्छर्दिक्षवथूद्गारबाष्पवेगविघातादिभिर्विशेषैर्वायुः  प्रकोपमापद्यते ||१९||

श्लोक 20

स शीताभ्रप्रवातेषु घर्मान्ते च विशेषतः |
प्रत्यूषस्यपराह्णे तु जीर्णेऽन्ने च प्रकुप्यति ||२०||

श्लोक 21

क्रोधशोकभयायासोपवासविदग्धमैथुनोपगमनकट्वम्ललवण-तीक्ष्णोष्णलघुविदाहितिलतैलपिण्याककुलत्थसर्षपातसीहरितकशाक-गोधामत्स्याजाविकमांसदधितक्रकूर्चिकामस्तुसौवीरकसुराविकारा-म्लफलकट्वरप्रभृतिभिः पित्तं प्रकोपमापद्यते ||२१||

श्लोक 22

तदुष्णैरुष्णकाले च घनान्ते च विशेषतः |
मध्याह्ने चार्धरात्रे च जीर्यत्यन्ने च कुप्यति ||२२||

श्लोक 23

दिवास्वप्नाव्यायामालस्यमधुराम्ललवणशीतस्निग्धगुरुपिच्छिलाभिष्यन्दि-हायनकयवकनैषधेत्कट-माषमहामाषगोधूमतिलपिष्टविकृतिदधिदुग्धकृशरापायसेक्षुविकारानू-पौदकमांसवसाबिसमृणाल-कसेरुकशृङ्गाटकमधुरवल्लीफलसमशनाध्यशनप्रभृतिभिः श्लेष्मा  प्रकोपमापद्यते ||२३||

श्लोक 24

स शीतैः शीतकाले च वसन्ते च विशेषतः |
पूर्वाह्णे च प्रदोषे च भुक्तमात्रे प्रकुप्यति ||२४||

श्लोक 25

पित्तप्रकोपणैरेव चाभीक्ष्णं द्रवस्निग्धगुरुभिराहारैर्दिवास्वप्नक्रोधानलात-पश्रमाभिघाताजीर्णविरुद्धाध्यशनादिभिर्विशेषैरसृक् प्रकोपमापद्यते  ||२५||

श्लोक 26

यस्माद्रक्तं विना दोषैर्न कदाचित् प्रकुप्यति |
तस्मात्तस्य यथादोषं कालं विद्यत् प्रकोपणे ||२६||

श्लोक 27

तेषां प्रकोपात् कोष्ठतोदसञ्चरणाम्लीकापिपासापरिदाहान्नद्वेषहृदयोत्क्लेदाश्च जायन्ते |
तत्र द्वितीयः क्रियाकालः ||२७||

श्लोक 28

अत ऊर्ध्वं प्रसरं वक्ष्यामः- तेषामेभिरातङ्कविशेषैः प्रकुपितानां किण्वोदकपिष्टसमवाय इवोद्रिक्तानां  प्रसरो भवति |
तेषां वायुर्गतिमत्त्वात् प्रसरणहेतुः सत्यप्यचैतन्ये |
स हि रजोभूयिष्ठः; रजश्च प्रवर्तकं सर्वभावानाम् |
यथा-  महानुदकसञ्चयोऽतिवृद्धः सेतुमवदार्यापरेणोदकेन व्यामिश्रः सर्वतः  प्रधावति, एवं दोषाः कदाचिदेकशो द्विशः समस्ताः शोणितसहिता  वाऽनेकधा प्रसरन्ति |
तद्यथा-वातः, पित्तं, श्लेष्मा, शोणितं, वातपित्ते, वातश्लेष्माणौ, पित्तश्लेष्माणौ,  वातशोणिते, पित्तशोणिते, श्लेष्मशोणिते, वातपित्तशोणितानि, वातश्लेष्मशोणितानि, पित्तश्लेष्मशोणितानि, वातपित्तकफाः,  वातपित्तकफशोणितानीति; एवं पञ्चदशधा प्रसरन्ति ||२८||

श्लोक 29-30

कृत्स्नेऽर्धेऽवयवे वाऽपि यत्राङ्गे कुपितो भृशम् |
दोषो विकारं नभसि मेघवत्तत्र वर्षति ||२९||

नात्यर्थं कुपितश्चापि लीनो मार्गेषु तिष्ठति |
निष्प्रत्यनीकः कालेन हेतुमासाद्य कुप्यति ||३०||

श्लोक 31

तत्र वायोः पित्तस्थानगतस्य पित्तवत् प्रतीकारः, पित्तस्य च  कफस्थानगतस्य कफवत्, कफस्य च वातस्थानगतस्य वातवत् ; एष  क्रियाविभागः ||३१||

श्लोक 32

एवं प्रकुपितानां प्रसरतां वायोर्विमार्गगमनाटोपौ,  ओषचोषपरिदाहधूमायनानि पित्तस्य,  अरोचकाविपाकाङ्गसादाश्छर्दिश्चेति श्लेष्मणो लिङ्गानि भवन्ति; तत्र  तृतीयः क्रियाकालः ||३२||

श्लोक 33

अत ऊर्ध्वं स्थानसंश्रयं वक्ष्यामः |
एवं प्रकुपितातांस्ताञ् शरीरप्रदेशानागम्य तांस्तान् व्याधीन् जनयन्ति |
ते यदोदरसन्निवेशं कुर्वन्ति तदा गुल्म  विद्रध्युदराग्निसङ्गानाहविसूचिकातिसारप्रभृतीञ्जनयन्ति; बस्तिगताः  प्रमेहाश्मरीमूत्राघातमूत्रदोषप्रभृतीन्; मेढ्रगता  निरुद्धप्रकशोपदंशशूकदोषप्रभृतीन्; गुदगता भगन्दरार्शःप्रभृतीन्;  वृषणगता वृद्धीः; ऊर्ध्वजत्रुगतास्तूर्ध्वजान्; त्वङ्मंसशोणितस्थाः क्षुद्ररोगान्  कुष्ठानि विसर्पांश्च; मेदोगता ग्रन्थ्यपच्यर्बुदगलगण्डालजीप्रभृतीन्; अस्थिगताविद्रध्यनुशयीप्रभृतीन्; पादगताः श्लीपदवातशोणितवातकण्टकप्रभृतीन्;  सर्वाङ्गगता ज्वरसर्वाङ्गरोगप्रभृतीन्; तेषामेवमभिसन्निविष्टानां  पूर्वरूपप्रादुर्भावः ; तं प्रतिरोगं वक्ष्यामः |
तत्र पूर्वरूपगतेषु चतुर्थः क्रियाकालः ||३३||

श्लोक 34

अत ऊर्ध्वं व्याधेर्दर्शनं वक्ष्यामः-शोफार्बुदग्रन्थिविद्रधिविसर्पप्रभृतीनां प्रव्यक्तलक्षणता  ज्वरातीसारप्रभृतीनां च |
तत्र पञ्चमः क्रियाकालः ||३४||

श्लोक 35

अत ऊर्ध्वमेतेषामवदीर्णानां व्रणभावमापन्नानां षष्ठः क्रियाकालः,  ज्वरातिसारप्रभृतीनां च दीर्घकालानुबन्धः |
तत्राप्रतिक्रियमाणेऽसाध्यतामुपयान्ति ||३५||

श्लोक 36

भवन्ति चात्र-
सञ्चयं च प्रकोपं च प्रसरं स्थानसंश्रयम् |
व्यक्तिं भेदं च यो वेत्ति दोषाणां स भवेद्भिषक् ||३६||

श्लोक 37

सञ्चयेऽपहृता दोषा लभन्ते नोत्तरा गतीः |
ते तूत्तरासु गतिषु भवन्ति बलवत्तराः ||३७||

श्लोक 38

सर्वैर्भावैस्त्रिभिर्वाऽपि द्वाभ्यामेकेन वा पुनः |
संसर्गे कुपितः क्रुद्धं दोषं दोषोऽनुधावति ||३८||

श्लोक 39

संसर्गे यो गरीयान् स्यादुपक्रम्यः स वै भवेत् |
शेषदोषाविरोधेन सन्निपाते तथैव च ||३९||

श्लोक 40

वृणोति यस्माद्रूढेऽपि व्रणवस्तु न नश्यति |
आदेहधारणात्तस्माद्व्रण इत्युच्यते बुधैः ||४०||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने व्रणप्रश्नाध्यायो नामैकविंशोध्यायः ||२१||
error: Content is protected !!