शारीरव्रणनिदानम्

श्लोक 1-5

व्रणस्य द्वैविध्यं, वातज-पित्तज-कफज-रक्तज-द्वन्द्वज-सन्निपातजव्रणलक्षणं च

अथ शारीरव्रणनिदानम् |
द्विधा व्रणः स विज्ञेयः शारीरागन्तुभेदतः |
दोषैराद्यस्तयोरन्यः शस्त्रादिक्षतसम्भवः ||१||

स्तब्धः कठिनसंस्पर्शो मन्दस्रावो महारुजः |
तुद्यते स्फुरति श्यावो व्रणो मारुतसम्भवः ||२||

तृष्णामोहज्वरक्लेददाहदुष्ट्यवदारणैः |
व्रणं पित्तकृतं विद्याद्गन्धैः स्रावैश्च पूतिकैः ||३||

बहुपिच्छो गुरुः स्निग्धः स्तिमितो मन्दवेदनः |
पाण्डुवर्णोऽल्पसङ्क्लेदश्चिरपाकी कफव्रणः ||४||

(च. चि. अ. २५) |
रक्तो रक्तस्रुती रक्ताद्द्वित्रिजः स्यात्तदन्वयैः |५|

श्लोक 5-6

व्रणस्य साध्यासाध्यविचारः

त्वङ्मांसजः सुखे देशे तरुणस्यानुपद्रवः ||५||

धीमतोऽभिनवः काले सुखे साध्यः सुखं व्रणः |
गुणैरन्यतमैर्हीनस्ततः कृच्छ्रो व्रणः स्मृतः ||६||
सर्वैर्विहीनो विज्ञेयस्त्वसाध्यो भूर्युपद्रवः |
(च. चि. अ. २५) |

श्लोक 7-8

दुष्टव्रणलक्षणम्

पूतिः पूयातिदुष्टासृक्स्राव्युत्सङ्गी चिरस्थितिः ||७||

दुष्टो व्रणोऽतिगन्धादिः शुद्धलिङ्गविपर्ययः |८|

श्लोक 8-9

शुद्धव्रणलक्षणम्

जिह्वातलाभोऽतिमृदुः श्लक्ष्णः स्निग्धोऽल्पवेदनः ||८||

सुव्यवस्थो निरास्रावः शुद्धो व्रण इति स्मृतः |९|

श्लोक 9

रुह्यमानव्रणलक्षणम्

कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः ||९||
स्थिराश्च पिडकावन्तो रोहतीति तमादिशेत् |
(सु. सू. अ. २३) |

श्लोक 10

सम्यग्रूढव्रणलक्षणम्

रूढवर्त्मानमग्रन्थिमशूनमरुजं व्रणम् ||१०||
त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत् |
(सु. सू. अ. २३) |

श्लोक 11-12

व्याधिविशेषेण व्रणस्य कृच्छ्रसाध्यत्वम्

कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम् ||११||

व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणाः |
वसां मेदोऽथ मज्जानं मस्तुलुङ्गं च यः स्रवेत् ||१२||
आगन्तुजो व्रणः सिद्ध्येन्न सिद्ध्येद्दोषसम्भवः |
(सु. सू. अ. २३) |

श्लोक 13

व्रणानां रिष्टरूपा गन्धविकृतिः

मद्यागुर्वाज्यसुमनःपद्मचन्दनचम्पकैः ||१३||
सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः |
(सु. सू. अ. २८) |

श्लोक 14-17

व्रणस्यासाध्यलक्षणम्

ये च मर्मस्वसम्भूता भवन्त्यत्यर्थवेदनाः ||१४||

दह्यन्ते चान्तरत्यर्थं बहिःशीताश्च ये व्रणाः |
दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः ||१५||

प्राणमांसक्षयश्वासकासारोचकपीडिताः |
प्रवृद्धपूयरुधिरा व्रणा येषां च मर्मसु ||१६||

क्रियाभिः सम्यगारब्धा न सिध्यन्ति च ये व्रणाः |
वर्जयेदपि तान् वैद्यः संरक्षन्नात्मनो यशः ||१७||
(सु. सू. अ. २८) |

पुष्पिका

इति श्रीमाधवकरविरचिते माधवनिदाने शारीरव्रणनिदानं समाप्तम्  ||४२||