शीतपित्तोदर्दकोठनिदानम्

श्लोक 1

शीतपित्तस्य निदानपूर्विका सम्प्राप्तिः

अथ शीतपित्तोदर्द-कोठनिदानम् |
शीतमारुतसंस्पर्शात् प्रदुष्टौ कफमारुतौ |
पित्तेन सह सम्भूय बहिरन्तर्विसर्पतः ||१||

श्लोक 2

शीतपित्तपूर्वरूपम्

पिपासारुचिहृल्लासदेहसादाङ्गगौरवम् |
रक्तलोचनता तेषां पूर्वरूपस्य लक्षणम् ||२||

श्लोक 3-4

शीतपित्तलक्षणम्

वरटीदष्टसंस्थानः शोथः सञ्जायते बहिः |
सकण्डूस्तोदबहुलश्छर्दिज्वरविदाहवान् ||३|

उदर्दमिति तं विद्याच्छीतपित्तमथापरे |
वाताधिकं शीतपित्तमुदर्दस्तु कफाधिकः ||४||

श्लोक 5

उदर्दस्य धर्मान्तरम्

सोत्सङ्गैश्च सरागैश्च कण्डूमद्भिश्च मण्डलैः |
शैशिरः कफजो व्याधिरुदर्द इति कीर्तितः ||५||

श्लोक 6

कोठलक्षणम्

असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहैः |
मण्डलानि सकण्डूनि रागवन्ति बहूनि च |
उत्कोठः सानुबन्धश्च कोठ इत्यभिधीयते ||६||

पुष्पिका

इति श्रीमाधवकरविरचिते माधवनिदाने शीतपित्तोदर्दकोठानिदानं  समाप्तम् ||५०||