श्लोक 1-2
अथातः स्नेहाध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः ||२||
श्लोक 3
साङ्ख्यैः सङ्ख्यातसङ्ख्येयैः सहासीनं पुनर्वसुम्। जगद्धितार्थं पप्रच्छ वह्निवेशः स्वसंशयम् ||३||
श्लोक 4-8
किंयोनयः कति स्नेहाः के च स्नेहगुणाः पृथक्। कालानुपाने के कस्य कति काश्च विचारणाः||४||
कति मात्राः कथम्मानाः का च केषूपदिश्यते। कश्च केभ्यो हितः स्नेहः प्रकर्षः स्नेहने च कः ||५||
स्नेह्याः के के न च स्निग्धास्निग्धातिस्निग्धलक्षणम्। किं पानात् प्रथमं पीते जीर्णे किञ्च हिताहितम्||६||
के मृदुक्रूरकोष्ठाः का व्यापदः सिद्धयश्च काः। अच्छे संशोधने चैव स्नेहे का वृत्तिरिष्यते ||७||
विचारणाः केषु योज्या विधिना केन तत् प्रभो! | स्नेहस्यामितविज्ञान ज्ञानमिच्छामि वेदितुम्||८||
श्लोक 9-11
अथ तत्संशयच्छेत्ता प्रत्युवाच पुनर्वसुः । स्नेहानां द्विविधा सौम्य योनिः स्थावरजङ्गमा||९||
तिलः प्रियालाभिषुकौ बिभीतकश्चित्राभयैरण्डमधूकसर्षपाः। कुसुम्भबिल्वारुकमूलकातसीनिकोचकाक्षोडकरञ्जशिग्रुकाः||१०||
स्नेहाशयाः स्थावरसञ्ज्ञितास्तथा स्युर्जङ्गमा मत्स्यमृगाः सपक्षिणः। तेषां दधिक्षीरघृतामिषं वसा स्नेहेषु मज्जा च तथोपदिश्यते||११||
श्लोक 12
सर्वेषां तैलजातानां तिलतैलं विशिष्यते| बलार्थे स्नेहने चाग्र्यमैरण्डं तु विरेचने||१२||
(कटूष्णं तैलमैरण्डं वातश्लेष्महरं गुरु | कषायस्वादुतिक्तैश्च योजितं पित्तहन्त्रपि ||१||)I
श्लोक 13
सर्पिस्तैलं वसा मज्जा सर्वस्नेहोत्तमा मताः । एषु चैवोत्तमं सर्पिः संस्कारस्यानुवर्तनात्||१३||
श्लोक 14-17
घृतं पित्तानिलहरं रसशुक्रौजसां हितम्। निर्वापणं मृदुकरं स्वरवर्णप्रसादनम् ||१४||
मारुतघ्नं न च श्लेष्मवर्धनं बलवर्धनम्| त्वच्यमुष्णं स्थिरकरं तैलं योनिविशोधनम्||१५||
विद्धभग्नाहत भ्रष्टयोनिकर्णशिरोरुजि | पौरुषोपचये स्नेहे व्यायामे चेष्यते वसा ||१६||
बलशुक्ररस श्लेष्ममेदोमज्जविवर्धनः ।
मज्जा विशेषतोऽस्थ्नां च बलकृत् स्नेहने हितः||१७||
श्लोक 18
सर्पिः शरदि पातव्यं वसा मज्जा च माधवे। तैलं प्रावृषि नात्युष्णशीते स्नेहं पिबेन्नरः ||१८||
श्लोक 19
वातपित्ताधिको रात्रावृष्णे चापि पिबेन्नरः ।
श्लेष्माधिको दिवा शीते पिबेच्चामलभास्करे||१९||
श्लोक 20-21
अत्युष्णे वा दिवा पीतो वातपित्ताधिकेन वा| मूर्च्छा पिपासामुन्मादं कामलां वा समीरयेत्||२०||
शीते रात्रौ पिबन् स्नेहं नरः श्लेष्माधिकोऽपि वा | आनाहमरुचिं शूलं पाण्डुतां वा समृच्छति||२१||
श्लोक 22
जलमुष्णं घृते पेयं यूषस्तैलेऽनु शस्यते। वसामज्ज्ञोस्तु मण्डः स्यात् सर्वेषूष्णमथाम्बु वा||२२||
श्लोक 23-25
ओदनश्च विलेपी च रसो मांसं पयो दधि| यवागूः सूपशाकौ च यूषः काम्बलिकः खडः||२३||
सक्तवस्तिलपिष्टं च मद्यं लेहास्तथैव च। भक्ष्यमभ्यञ्जनं बस्तिस्तथा चोत्तरबस्तयः||२४||
गण्डूषः कर्णतैलं च नस्तः कर्णाक्षितर्पणम् । चतुर्विंशतिरित्येताः स्नेहस्य प्रविचारणाः [१] ||२५||
श्लोक 26
अच्छपेयस्तु यः स्नेहो न तामाहुर्विचारणाम्।
स्नेहस्य स भिषग्दृष्टः [१] कल्पः प्राथमकल्पिकः||२६||
श्लोक 27-28
रसैश्चोपहितः स्नेहः समासव्यासयोगिभिः| षड्भिस्त्रिषष्टिधा सङ्ख्यां प्राप्नोत्येकश्च केवलः ||२७||
एवमेताश्चतुःषष्टिः स्नेहानां प्रविचारणा [१] | ओकर्तुव्याधिपुरुषान् प्रयोज्या जानता भवेत्||२८||
श्लोक 29-40
अहोरात्रमहः कृत्स्नमर्धाहं च प्रतीक्षते ।
प्रधाना मध्यमा ह्रस्वा स्नेहमात्रा जरां प्रति||२९||
इति तिस्रः समुद्दिष्टा मात्रा: स्नेहस्य मानतः | तासां प्रयोगान् वक्ष्यामि पुरुषं पुरुषं प्रति||३०||
प्रभूतस्नेहनित्या ये क्षुत्पिपासासहा नराः । पावकश्चोत्तमबलो येषां ये चोत्तमा बले||३१|| गुल्मिनः सर्पदष्टाश्च विसर्पोपहताश्च ये। उन्मत्ताः कृच्छ्रमूत्राश्च गाढवर्चस एव च||३२||
पिबेयुरुत्तमां मात्रां तस्याः पाने गुणाञ्छृणु। विकाराञ्छमयत्येषां शीघ्रं सम्यक्प्रयोजिता||३३||
दोषानुकर्षिणी मात्रा सर्वमार्गानुसारिणी | बल्या पुनर्नवकरी शरीरेन्द्रियचेतसाम्||३४||
अरुष्कस्फोटपिडकाकण्डूपामाभिरर्दिताः।
कुष्ठिनश्च प्रमीढाश्च वातशोणितिकाश्च ये||३५||
नातिबह्वाशिनश्चैव मृदुकोष्ठास्तथैव च। पिबेयुर्मध्यमां मात्रां मध्यमाश्चापि ये बले||३६||
मात्रैषा मन्दविभ्रंशा न चातिबलहारिणी | सुखेन च स्नेहयति शोधनार्थे च युज्यते||३७||
ये तु वृद्धाश्च बालाश्च सुकुमाराः सुखोचिताः। रिक्तकोष्ठत्वमहितं येषां मन्दाग्नयश्च ये||३८||
ज्वरातीसारकासाश्च येषां चिरसमुत्थिताः । स्नेहमात्रां पिबेयुस्ते ह्रस्वां ये चावरा बले||३९||
परिहारे सुखा चैषा मात्रा स्नेहनबृंहणी | वृष्या बल्या निराबाधा चिरं चाप्यनुवर्तते ||४०||
श्लोक 41-43
वातपित्तप्रकृतयो वातपित्तविकारिणः ।
चक्षुः कामाः क्षताः क्षीणा वृद्धा बालास्तथाऽबलाः||४१||
आयुःप्रकर्षकामाश्च बलवर्णस्वरार्थिनः। पुष्टिकामाः प्रजाकामाः सौकुमार्यार्थिनश्च ये||४२||
दीप्त्योजःस्मृतिमेधाग्निबुद्धीन्द्रियबलार्थिनः। पिबेयुः सर्पिरार्ताश्च दाहशस्त्रविषाग्निभिः||४३||
श्लोक 44-46
प्रवृद्धश्लेष्ममेदस्काश्चलस्थूलगलोदराः । वातव्याधिभिराविष्टा वातप्रकृतयश्च ये||४४||
बलं तनुत्वं लघुतां दृढतां स्थिरगात्रताम् [१] | स्निग्धश्लक्ष्णतनुत्वक्तां ये च काङ्क्षन्ति देहिनः ||४५||
कृमिकोष्ठाः क्रूरकोष्ठास्तथा नाडीभिरर्दिताः| पिबेयुः शीतले काले तैलं तैलोचिताश्च ये||४६||
श्लोक 47-49
वातातपसहा ये च रूक्षा भाराध्वकर्शिताः। संशुष्करेतोरुधिरा निष्पीतकफमेदसः||४७||
अस्थिसन्धिसिरास्नायुमर्मकोष्ठमहारुजः ।
बलवान्मारुतो येषां खानि चावृत्य तिष्ठति ||४८||
महच्चाग्निबलं येषां वसासात्म्याश्च ये नराः। तेषां स्नेहयितव्यानां वसापानं विधीयते||४९||
श्लोक 50-51
दीप्ताग्नयः क्लेशसहा घस्मराः स्नेहसेविनः । वातार्ताः क्रूरकोष्ठाश्च स्नेह्या मज्जानमाप्नुयुः ||५०||
येभ्यो येभ्यो हितो यो यः स्नेहः स परिकीर्तितः | ५१|
श्लोक 51
स्नेहनस्य प्रकर्षौ तु सप्तरात्रत्रिरात्रकौ||५१||
श्लोक 52
स्वेद्याः शोधयितव्याश्च रूक्षा वातविकारिणः । व्यायाममद्यस्त्रीनित्याः स्नेह्याः स्युर्ये च चिन्तकाः ||५२||
श्लोक 53-56
संशोधनादृते येषां रूक्षणं सम्प्रवक्ष्यते।
न तेषां स्नेहनं शस्तमुत्सन्नकफमेदसाम्||५३||
अभिष्यण्णाननगुदा नित्यमन्दाग्नयश्च ये। तृष्णामूर्च्छापरीताश्च गर्भिण्यस्तालुशोषिणः||५४||
अन्नद्विषश्छर्दयन्तो जठरामगरार्दिताः । दुर्बलाश्च प्रतान्ताश्च स्नेहग्लाना मदातुराः||५५||
न स्नेह्या वर्तमानेषु न नस्तो बस्तिकर्मसु। स्नेहपानात् प्रजायन्ते तेषां रोगाः सुदारुणाः || ५६||
श्लोक 57-59
पुरीषं ग्रथितं रूक्षं वायुरप्रगुणो मृदुः ।
पक्ता खरत्वं रौक्ष्यं च गात्रस्यास्निग्धलक्षणम्||५७||
वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्। मार्दवं स्निग्धता चाङ्गे स्निग्धानामुपजायते||५८||
पाण्डुता गौरवं [१] जाड्यं पुरीषस्याविपक्वता| तन्द्रीररुचिरुत्केशः स्यादतिस्निग्धलक्षणम्||५९||
श्लोक 60-61
द्रवोष्णमनभिष्यन्दि भोज्यमन्नं प्रमाणतः। नातिस्निग्धमसङ्कीर्णं श्वः स्नेहं पातुमिच्छता||६०||
पिबेत् संशमनं स्नेहमन्नकाले प्रकाङ्क्षितः | शुद्ध्यर्थं पुनराहारे नैशे जीर्णे पिबेन्नरः ||६१||
श्लोक 62-64
उष्णोदकोपचारी स्याद्ब्रह्मचारी क्षपाशयः [१] | शकृन्मूत्रानिलोद्गारानुदीर्णांश्च न [२] धारयेत्||६२||
व्यायाममुच्चैर्वचनं क्रोधशोकौ हिमातपौ| वर्जयेदप्रवातं च सेवेत शयनासनम्||६३||
स्नेहं [३] पीत्वा नरः स्नेहं प्रतिभुञ्जान एव च| स्नेहमिथ्योपचाराद्धि जायन्ते दारुणा गदाः ||६४||
श्लोक 65-69
मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसेवया । स्निह्यति क्रूरक्रोष्ठस्तु सप्तरात्रेण मानवः||६५||
गुडमिक्षुरसं मस्तु क्षीरमुल्लोडितं दधि | पायसं कृशरां सर्पिः काश्मर्यत्रिफलारसम्||६६||
द्राक्षारसं पीलुरसं जलमुष्णमथापि वा। मद्यं वा तरुणं पीत्वा मृदुकोष्ठो विरिच्यते||६७||
विरेचयन्ति नैतानि क्रूरकोष्ठं कदाचन ।
भवति क्रूरकोष्ठस्य ग्रहण्यत्युल्बणानिला||६८|| उ
दीर्णपित्ताऽल्पकफा ग्रहणी मन्दमारुता | मृदुकोष्ठस्य तस्मात् स सुविरेच्यो नरः स्मृतः ||६९||
श्लोक 70-78
उदीर्णपित्ता ग्रहणी यस्य चाग्निबलं महत्। भस्मीभवति तस्याशु स्नेहः पीतोऽग्नितेजसा||७०||
स जग्ध्वा स्नेहमात्रां तामोजः प्रक्षारयन् बली| स्नेहाग्निरुत्तमां तृष्णां सोपसर्गामुदीरयेत्||७१||
नालं स्नेहसमृद्धस्य शमायान्नं सुगुर्वपि । स चेत् सुशीतं सलिलं नासादयति दह्यते। यथैवाशीविषः कक्षमध्यगः स्वविषाग्निना||७२||
अजीर्णे यदि तु स्नेहे तृष्णा स्याच्छर्दयेद्भिषक्। शीतोदकं पुनः पीत्वा भुक्त्वा रूक्षान्नमुल्लिखेत्||७३||
न सर्पिः केवलं पित्ते पेयं सामे विशेषतः ।
सर्वं ह्यनुरजेद्देहं [१] हत्वा सञ्ज्ञां च मारयेत्||७४||
तन्द्रा [२] सोत्क्लेश आनाहो ज्वरः स्तम्भो विसञ्ज्ञता| कुष्ठानि कण्डूः पाण्डुत्वं शोफाशा॑स्यरुचिस्तृषा ||७५||
जठरं ग्रहणीदोषाः स्तैमित्यं वाक्यनिग्रहः । शूलमामप्रदोषाश्च जायन्ते स्नेहविभ्रमात्||७६||
तत्राप्युल्लेखनं शस्तं स्वेदः कालप्रतीक्षणम् | प्रति प्रति व्याधिबलं बुद्ध्वा स्रंसनमेव च || ७७ ||
तक्रारिष्टप्रयोगश्च रूक्षपानान्नसेवनम् |
मूत्राणां त्रिफलायाश्च स्नेहव्यापत्तिभेषजम्||७८||
श्लोक 79
अकाले चाहितश्चैव मात्रया न च योजितः।
स्नेहो मिथ्योपचाराच्च व्यापद्येतातिसेवितः||७९||
श्लोक 80
स्नेहात् प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः पिबेत्। स्नेहवद्द्रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम् ||८०||
श्लोक 81
एकाहोपरतस्तद्वद्भुक्त्वा प्रच्छर्दनं पिबेत्|८१|
श्लोक 81
स्यात्त्वसंशोधनार्थीये वृत्तिः स्नेहे विरिक्तवत् ||८१||
श्लोक 78-89
स्नेहद्विषः स्नेहनित्या मृदुकोष्ठाश्च ये नराः। क्लेशासहा मद्यनित्यास्तेषामिष्टा विचारणा||८२||
लावतैत्तिरमायूरहांसवाराहकौक्कुटाः ।
गव्याजौरभ्रमात्स्याश्च रसाः स्युः स्नेहने हिताः ||८३||
यवकोलकुलत्थाश्च स्नेहाः सगुडशर्कराः । दाडिमं दधि सव्योषं रससंयोगसङ्ग्रहः||८४||
स्नेहयन्ति तिलाः पूर्वं जग्धाः सस्नेहफाणिताः। कृशराश्च बहुस्नेहास्तिलकाम्बलिकास्तथा||८५||
फाणितं शृङ्गवेरं च तैलं च सुरया सह। पिबेद्र्क्षो भृतैर्मांसैर्जीर्णेऽश्नीयाच्च भोजनम्||८६||
तैलं सुराया मण्डेन वसां मज्जानमेव वा।
पिबन् सफाणितं क्षीरं नरः स्निह्यति वातिकः ||८७||
धारोष्णं स्नेहसंयुक्तं पीत्वा सशर्करं पयः ।
नरः स्निह्यति पीत्वा वा सरं दध्नः सफाणितम्||८८||
पाञ्चप्रसृतिकी पेया पायसो माषमिश्रकः। क्षीरसिद्धो बहुस्नेहः स्नेहयेदचिरान्नरम्||८९||
सर्पिस्तैलवसामज्जातण्डुलप्रसृतैः शृ (कृ) ता | पाञ्चप्रसृतिकी पेया पेया स्नेहनमिच्छता||९०||
(शौकरो वा रसः स्निग्धः सर्पिर्लवणसंयुतः | पीतो द्विर्वासरे यत्नात् स्नेहयेदचिरान्नरम् ||१||)|
श्लोक 91-94
ग्राम्यानूपौदकं मांसं गुडं दधि पयस्तिलान्। कुष्ठी शोथी प्रमेही च स्नेहने न प्रयोजयेत्||९१||
स्नेहैर्यथार्हं तान् सिद्धैः स्नेहयेदविकारिभिः| पिप्पलीभिर्हरीतक्या सिद्धैस्त्रिफलयाऽपि वा||९२||
द्राक्षामलकयूषाभ्यां दध्ना चाम्लेन साधयेत् | व्योषगर्भं भिषक् स्नेहं पीत्वा स्निह्यति तं नरः ||९३||
यवकोलकुलत्थानां रसाः क्षारः सुरा दधि | क्षीरसर्पिश्च तत् सिद्धं स्नेहनीयं घृतोत्तमम्||९४||
श्लोक 95
तैलमज्जवसासर्पिर्बदरत्रिफलारसैः।
योनिशुक्रप्रदोषेषु साधयित्वा प्रयोजयेत्||९५||
श्लोक 96-97
गृह्णात्यम्बु [१] यथा वस्त्रं प्रस्रवत्यधिकं यथा| यथाग्नि जीर्यति स्नेहस्तथा स्रवति चाधिकः ||९६||
यथा वाऽऽक्लेद्य मृत्पिण्डमासिक्तं त्वरया जलम्। स्रवति स्रंसते स्नेहस्तथा त्वरितसेवितः ||९७||
श्लोक 98
लवणोपहिताः स्नेहाः स्नेहयन्त्यचिरान्नरम् | तद्ध्यभिष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च||९८||
श्लोक 99
स्नेहमग्रे प्रयुञ्जीत ततः स्वेदमनन्तरम् । स्नेहस्वेदोपपन्नस्य संशोधनमथेतरत् [१] ||९९||
श्लोक 100
तत्र श्लोक:-
स्नेहाः स्नेहविधिः कृत्स्नव्यापत्सिद्धिः सभेषजा|
यथाप्रश्नं [१] भगवता व्याहृतं चान्द्रभागिना||१००||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने स्नेहाध्यायो नाम त्रयोदशोऽध्यायः समाप्तः ||१३||