सर्वभूतचिन्ताशारीरम्

श्लोक 1-2

अथातः सर्वभूतचिन्ताशारीरं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

सर्वभूतानां कारणमकारणं सत्त्वरजस्तमोलक्षणमष्टरूपमखिलस्य  जगतः सम्भवहेतुरव्यक्तं नाम |
तदेकं बहूनां क्षेत्रज्ञानामधिष्ठानं समुद्र इवौदकानां भावानाम् ||३||

श्लोक 4

तस्मादव्यक्तान्महानुत्पद्यते तल्लिङ्ग एव |
तल्लिङ्गाच्च महतस्तल्लक्षण एवाहङ्कार उत्पद्यते; स त्रिविधो  वैकारिकस्तैजसो भूतादिरिति |
तत्र वैकारिकादहङ्कारात्तैजससहायात्तल्लक्षणान्येवैकादशेन्द्रियाण्युत्प-द्यन्ते, तद्यथा-श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाग्घस्तोपस्थपायुपादमनांसीति;  तत्र पूर्वाणि पञ्च बुद्धीन्द्रियाणि, इतराणि पञ्च कर्मेन्द्रियाणि, उभयात्मकंमनः; भूतादेरपि तैजससहायात्तल्लक्षणान्येव पञ्चतन्मात्राण्युत्पद्यन्ते-शब्दतन्मात्रं, स्पर्शतन्मात्रं, रूपतन्मात्रं, रसतन्मात्रं, गन्धतन्मात्रमिति;  तेषां विशेषाः- शब्दस्पर्शरूपरसगन्धाः; तेभ्यो भूतानि-व्योमानिलानलजलोर्व्यः; एवमेषा तत्त्वचतुर्विंशतिर्व्याख्याता ||४||

श्लोक 5

तत्र बुद्धीन्द्रियाणां शब्दादयो विषयाः; कर्मेन्द्रियाणां यथासङ्ख्यं  वचनादानानन्दविसर्गविहरणानि ||५||

श्लोक 6

अव्यक्तं महानहङ्कारः पञ्चतन्मात्राणि चेत्यष्टौ प्रकृतयः; शेषाः षोडश  विकाराः ||६||

श्लोक 7

स्वः स्वश्चैषां विषयोऽधिभूतं; स्वयमध्यात्मम्; अधिदैवतम्-अथ  बुद्धेर्ब्रह्मा, अहङ्कारस्येश्वरः, मनसश्चन्द्रमाः, दिशः श्रोत्रस्य, त्वचो वायुः,  सूर्यश्चक्षुषः, रसनस्यापः, पृथिवी घ्राणस्य, वाचोऽग्निः, हस्तयोरिन्द्रः,  पादयोर्विष्णुः, पायोर्मित्रः, प्रजापतिरुपस्थस्येति ||७||

श्लोक 8

तत्र सर्व एवाचेतन एष वर्गः, पुरुषः पञ्चविंशतितमः  कार्यकारणसंयुक्तश्चेतयिता भवति |
सत्यप्यचैतन्ये प्रधानस्य पुरुषकैवल्यार्थं प्रवृत्तिमुपदिशन्ति, क्षीरादींश्चात्र हेतूनुदाहरन्ति ||८||

श्लोक 9

अत ऊर्ध्वं प्रकृतिपुरुषयोः साधर्म्यवैधर्म्ये व्याख्यास्यामः |
तद्यथा-उभावप्यनादी, उभावप्यनन्तौ, उभावप्यलिङ्गौ, उभावपि  नित्यौ, उभावप्यनपरौ , उभौ च सर्वगताविति; एका तु प्रकृतिरचेतना त्रिगुणा बीजधर्मिणी प्रसवधर्मिण्यमध्यस्थधर्मिणी चेति, बहवस्तु  पुरुषाश्चेतनावन्तोऽगुणा अबीजधर्माणोऽप्रसवधर्माणो  मध्यस्थधर्माणश्चेति ||९||

श्लोक 10

तत्र कारणानुरूपं कार्यमिति कृत्वा सर्व एवैते विशेषाः  सत्त्वरजस्तमोमया भवन्ति; तदञ्जनत्वात्तन्मयत्वाच्च तद्गुणा एव पुरुषा भवन्तीत्येके भाषन्ते ||१०||

श्लोक 11

वैद्यके तु-
स्वभावमीश्वरं कालं यदृच्छां नियतिं तथा |
परिणामं च मन्यन्ते प्रकृतिं पृथुदर्शिनः ||११||

श्लोक 12-14

तन्मयान्येव भूतानि तद्गुणान्येव चादिशेत् |
तैश्च तल्लक्षणः कृत्स्नो भूतग्रामो व्यजन्यत ||१२||

तस्योपयोगोऽभिहितश्चिकित्सां प्रति सर्वदा |
भूतेभ्यो हि परं यस्मान्नास्ति चिन्ता चिकित्सिते ||१३||

यतोऽभिहितं-“तत्सम्भवद्रव्यसमूहो भूतादिरुक्तः” (सू.१); भौतिकानि चेन्द्रियाण्यायुर्वेदे वर्ण्यन्ते, तथेन्द्रियार्थाः ||१४||

श्लोक 15

भवति चात्र-
इन्द्रियेणेन्द्रियार्थं तु स्वं स्वं गृह्णाति मानवः |
नियतं तुल्ययोनित्वान्नान्येनान्यमिति स्थितिः ||१५||

श्लोक 16

न चायुर्वेदशास्त्रेषूपदिश्यन्ते सर्वगताः क्षेत्रज्ञा नित्याश्च; असर्वगतेषु च  क्षेत्रज्ञेषु नित्यपुरुषख्यापकान् हेतूनुदाहरन्ति; आयुर्वेदशास्त्रेष्वसर्वगताःक्षेत्रज्ञा नित्याश्च, तिर्यग्योनिमानुषदेवेषु सञ्चरन्ति धर्माधर्मनिमित्तं; त  एतेऽनुमानग्राह्याः परमसूक्ष्माश्चेतनावन्तः शाश्वता लोहितरेतसोः  सन्निपातेष्वभिव्यज्यन्ते, यतोऽभिहितं- ‘पञ्चमहाभूतशरीरिसमवायः  पुरुषः’ (सू.१) इति; स एष कर्मपुरुषश्चिकित्साधिकृतः ||१६||

श्लोक 17

तस्य सुखदुःखे इच्छाद्वेषौ प्रयत्नः प्राणापानावुन्मेषनिमेषौ बुद्धिर्मनः  सङ्कल्पो विचारणा स्मृतिर्विज्ञानमध्यवसायो विषयोपलब्धिश्च गुणाः  ||१७||

श्लोक 18

सात्त्विकास्तु-आनृशंस्यं संविभागरुचिता तितिक्षा सत्यं धर्म आस्तिक्यं  ज्ञानं बुद्धिर्मेधास्मृतिर्धृतिरनभिषङ्गश्च; राजसास्तु-दुःखबहुलताऽटनशीलताऽधृतिरहङ्कार आनृतिकत्वमकारुण्यं दम्भो  मानो हर्षः कामः क्रोधश्च; तामसास्तु-विषादित्वं नास्तिक्यमधर्मशीलता  बुद्धेर्निरोधोऽज्ञानं दुर्मेधस्त्वमकर्मशीलता निद्रालुत्वं चेति ||१८||

श्लोक 19

आन्तरिक्षाः- शब्दः शब्देन्द्रियं सर्वच्छिद्रसमूहो विविक्तता च;  वायव्यास्तु- स्पर्शः स्पर्शेन्द्रियं सर्वचेष्टासमूहः सर्वशरीरस्पन्दनं लघुता  च; तैजसास्तु- रूपं रूपेन्द्रियं वर्णः सन्तापो भ्राजिष्णुता  पक्तिरमर्षस्तैक्ष्ण्यं शौर्यं च; आप्यास्तु- रसो रसनेन्द्रियं सर्वद्रवसमूहो  गुरुता शैत्यं स्नेहो रेतश्च; पार्थिवास्तु- गन्धो गन्धेन्द्रियं सर्वमूर्तसमूहो  गुरुता चेति ||१९||

श्लोक 20

तत्र सत्त्वबहुलमाकाशं, रजोबहुलो वायुः, सत्त्वरजोबहुलोऽग्निः,  सत्त्वतमोबहुला आपः, तमोबहुला पृथिवीति ||२०||

श्लोक 21

श्लोकौ चात्र भवतः-
अन्योऽन्यानुप्रविष्टानि सर्वाण्येतानि निर्दिशेत् |
स्वे स्वे द्रव्ये तु सर्वेषां व्यक्तं लक्षणमिष्यते ||२१||

श्लोक 22

अष्टौ प्रकृतयः प्रोक्ता विकाराः षोडशैव तु |
क्षेत्रज्ञश्च समासेन स्वतन्त्रपरतन्त्रयोः ||२२||

पुष्पिका

इति सुश्रुतसंहितायां शारीरस्थाने सर्वभूतचिन्ताशारीरं नाम  प्रथमोऽध्यायः ||१||