सुधाकल्पः

श्लोक 1-2

अथातः सुधाकल्पं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3-4

विरेचनानां सर्वेषां सुधा तीक्ष्णतमा मता|
सङ्घातं हि भिनत्त्याशु दोषाणां कष्टविभ्रमा||३||

तस्मान्नैषा मृदौ कोष्ठे प्रयोक्तव्या कदाचन|
न दोषनिचये चाल्पे सति मार्गपरिक्रमे ||४||

श्लोक 5-7

पाण्डुरोगोदरे गुल्मे कुष्ठे दूषीविषार्दिते|
श्वयथौ मधुमेहे च दोषविभ्रान्तचेतसि||५||

रोगैरेवंविधैर्ग्रस्तं ज्ञात्वा सप्राणमातुरम्|
प्रयोजयेन्महावृक्षं सम्यक् स ह्यवचारितः||६||

सद्यो हरतिदोषाणां महान्तमपि सञ्चयम्|७|

श्लोक 7-9

द्विविधः स मतोऽल्पैश्च बहुभिश्चैव कण्टकैः||७||

सुतीक्ष्णैः कण्टकैरल्पैः प्रवरो बहुकण्टकः|
स नाम्ना स्नुग्गुडा नन्दा सुधा निस्त्रिंशपत्रकः||८||

तौ विपाट्याहरेत् क्षीरं शस्त्रेण मतिमान् भिषक्|
द्विवर्षं वा त्रिवर्षं वा शिशिरान्ते विशेषतः||९||

श्लोक 10-12

बिल्वादीनां बृहत्या वा कण्टकार्यास्तथैकशः|
कषायेण समांशं तं कृत्वाऽङ्गारेषु शोषयेत्||१०||

ततः कोलसमां मात्रां पिबेत् सौवीरकेण वा|
तुषोदकेन कोलानां रसेनामलकस्य वा||११||

सुरया दधिमण्डेन मातुलुङ्गरसेन वा|१२|

श्लोक 12-13

सातलां काञ्चनक्षीरीं श्यामादीनि कटुत्रिकम् ||१२||

यथोपपत्ति सप्ताहं सुधाक्षीरेण भावयेत्|
कोलमात्रां घृतेनातः पिबेन्मांसरसेन वा||१३||

श्लोक 14

त्र्यूषणं त्रिफलां दन्तीं चित्रकं त्रिवृतां तथा|
स्नुक्क्षीरभावितं सम्यग्विदध्याद्गुडपानकम्||१४||

श्लोक 15-17

त्रिवृतारग्वधं दन्तीं शङ्खिनीं सप्तलां समम्|
गोमूत्रे रजनीं कृत्वा शोषयेदातपे ततः||१५||

सप्ताहं भावयित्वैवं स्नुक्क्षीरेणापरं पुनः|
सप्ताहं भावयेच्छुष्कं ततस्तेनापि भावितम्||१६||

गन्धमाल्यं तदाघ्राय प्रावृत्य पटमेव च|
सुखमाशु विरिच्यन्ते मृदुकोष्ठा नराधिपाः||१७||

श्लोक 18

श्यामात्रिवृत्कषायेण स्नुक्क्षीरघृतफाणितैः|
लेहं पक्त्वा विरेकार्थं लेहयेन्मात्रया नरम्||१८||

श्लोक 19

पाययेत्तु सुधाक्षीरं यूषैर्मांसरसैर्घृतैः|१९|

श्लोक 19

भाविताञ्छुष्कमत्स्यान् वा मांसं वा भक्षयेन्नरः||१९||

श्लोक 20

क्षीरेणामलकैः सर्पिश्चतुरङ्गुलवत् पचेत्|
सुरां वा कारयेत् क्षीरे घृतं वा पूर्ववत् पचेत्||२०||

श्लोक 21-22

तत्र श्लोकौ-
सौवीरकादिभिः सप्त सर्पिषा च रसेन च|
पानकं घ्रेयलेहौ च योगा यूषादिभिस्त्रयः||२१||

द्वौ शुष्कमत्स्यमांसाभ्यां सुरैका द्वे च सर्पिषी|
महावृक्षस्य योगास्ते विंशतिः समुदाहृताः||२२||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते
कल्पस्थाने सुधाकल्पो नाम दशमोऽध्यायः||१०||