स्तन्यदुष्टिनिदानम्

श्लोक 1

शुक्रवत् सर्वदेहं स्तन्यस्याश्रयम्

अथ स्तन्यदुष्टिनिदानम् |
विशंस्तेष्वपि गात्रेषु यथा शुक्रं न दृश्यते |
सर्वदेहाश्रितत्वाच्च शुक्रलक्षणमुच्यते ||१||

श्लोक 2-3

शुक्रवत् स्तन्यप्रवृत्तिः

तदेव चेष्टयुवतेर्दर्शनात् स्मरणादपि |
शब्दसंश्रवणात् स्पर्शात् संहर्षाच्च प्रवर्तते ||२||

सुप्रसन्नं मनस्तत्र हर्षणे हेतुरुच्यते |
आहाररसयोनित्वादेवं स्तन्यमपि स्त्रियाः ||३||

श्लोक 4

स्तन्यप्रवृतौ हेतुः

तदेवापत्यसंस्पर्शाद्दर्शनात् स्मरणादपि |
ग्रहणाच्च शरीरस्य शुक्रवत् सम्प्रवर्तते |
स्नेहो निरन्तरस्तत्र प्रस्रवे हेतुरुच्यते ||४||

श्लोक 5

क्षीरदुष्टिकारणं, दुष्टस्तन्याद्बालानां नानारोगोत्पत्तिश्च

गुरुभिर्विविधैरन्नैर्दुष्टैर्दोषैः प्रदूषितम् |
क्षीरं मातुः कुमारस्य नानारोगाय कल्पते ||५||

श्लोक 6-7

वातादिदूषितस्तन्यलक्षणम्

कषायं सलिलप्लावि स्तन्यं मारुतदूषितम् |
कट्वम्ललवणं पीतराजीमत् पित्तसञ्ज्ञितम् ||६||

कफदुष्टं घनं तोये निमज्जति सपिच्छलम् |
द्विलिङ्गं द्वन्द्वजं विद्यात् सर्वलिङ्गं त्रिदोषजम् ||७||

श्लोक 8

अविकृतस्तन्यलक्षणम्

अदुष्टं चाम्बुनिक्षिप्तमेकीभवति पाण्डुरम् |
मधुरं चाविवर्णं च प्रसन्नं तत् प्रशस्यते ||८||

पुष्पिका

इति श्रीमाधवकरविरचिते माधवनिदाने स्तन्यदुष्टिनिदानं समाप्तम्  ||६७||
error: Content is protected !!