अणुज्योतीयमिन्द्रियम्

श्लोक 1-2

अथातोऽणुज्योतीयमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

अणुज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा ।
रतिं न लभते याति परलोकं समान्तरम् ||३||

श्लोक 4-6

बलिं बलिभृतो यस्य प्रणीतं नोपभुञ्जते। लोकान्तरगतः पिण्डं भुङ्क्ते संवत्सरेण सः ||४||
सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम् | संवत्सरान्ते जन्तुः स सम्पश्यति महत्तमः ||५||
विकृत्या विनिमित्तं यः शोभामुपचयं धनम् | प्राप्नोत्यतो वा विभ्रंशं समान्तं तस्य जीवितम्||६||

श्लोक 7

भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम्। षडेतानि निवर्तन्ते षड्भिर्मासैर्मरिष्यतः||७||

श्लोक 8-9

धमनीनामपूर्वाणां जालमत्यर्थशोभनम्। ललाटे दृश्यते यस्य षण्मासान्न स जीवति||८||
लेखाभिश्चन्द्रवक्राभिर्ललाटमुपचीयते।
यस्य तस्यायुषः षड्भिर्मासैरन्तं समादिशेत्||९||

श्लोक 10-11

शरीरकम्पः सम्मोहो गतिर्वचनमेव च। मत्तस्येवोपलभ्यन्ते यस्य मासं न जीवति||१०||
तोमूत्रपुरीषाणि यस्य मज्जन्ति चाम्भसि |
समासात् स्वजनद्वेष्टा मृत्युवारिणि मज्जति||११||

श्लोक 12-17

हस्तपादं मुखं चोभे विशेषाद्यस्य शुष्यतः।
शूयेते वा विना देहात् स च मासं [१] न जीवति||१२||
ललाटे मूर्ध्नि बस्तौ वा नीला यस्य प्रकाशते। राजी बालेन्दुकुटिला न स जीवितुमर्हति||१३||
प्रवालगुटिकाभासा यस्य गात्रे मसूरिकाः ।
उत्पद्याशु विनश्यन्ति [२] न चिरात् स विनश्यति||१४||
ग्रीवावमर्दो बलवाञ्जिह्वाश्वयथुरेव च। ब्रध्नास्यगलपाकश्च यस्य पक्वं तमादिशेत् ||१५||
सम्भ्रमोऽतिप्रलापोऽतिभेदोऽस्थ्नामतिदारुणः [३] | कालपाशपरीतस्य त्रयमेतत् प्रवर्तते||१६||

प्रमुह्य लुञ्चयेत् केशान् परिगृह्णात्यतीव [४] च| नरः स्वस्थवदाहारमबलः [५] कालचोदितः ||१७||

श्लोक 18-19

समीपे चक्षुषोः कृत्वा मृगयेताङ्गुलीकरम्। स्मयतेऽपि च कालान्ध ऊर्ध्वगानिमिषेक्षणः [१] ||१८||
शयनादासनादङ्गात् काष्ठात् कुड्यादथापि वा। असन्मृगयते किञ्चित् स मुह्यन् कालचोदितः ||१९||

श्लोक 20-21

अहास्यहासी सम्मुह्यन् प्रलेढि [१] दशनच्छदौ| शीतपादकरोच्छ्वासो यो नरो न स जीवति||२०||
आह्वयंस्तं समीपस्थं स्वजनं जनमेव वा। महामोहावृतमनाः पश्यन्नपि न पश्यति||२१||

श्लोक 22

अयोगमतियोगं वा शरीरे मतिमान् भिषक् । खादीनां युगपद्दृष्ट्वा भेषजं नावचारयेत्||२२||

श्लोक 23-24

अतिप्रवृद्ध्या रोगाणां मनसश्च बलक्षयात्। वासमुत्सृजति क्षिप्रं शरीरी देहसञ्ज्ञकम्||२३||
वर्णस्वरावग्निबलं वागिन्द्रियमनोबलम् |
हीयतेऽसुक्षये निद्रा नित्या भवति वा न वा||२४||

श्लोक 25-26

भिषग्भेषजपानान्नगुरुमित्रद्विषश्च ये।
वशगाः सर्व एवैते बोद्धव्याः समवर्तिनः||२५||
एतेषु रोगः क्रमते भेषजं प्रतिहन्यते। नैषामन्नानि भुञ्जीत न चोदकमपि स्पृशेत्||२६||

श्लोक 27

पादाः समेताश्चत्वारः सम्पन्नाः साधकैर्गुणैः। व्यर्थ गतायुषो द्रव्यं विना नास्ति गुणोदयः||२७||

श्लोक 28

परीक्ष्यमायुर्भिषजा नीरुजस्यातुरस्य च। आयुर्ज्ञानफलं कृत्स्नमायुर्ज्ञे ह्यनुवर्तते||२८||

श्लोक 29

तत्र श्लोक:-
क्रियापथमतिक्रान्ताः केवलं देहमाप्लुताः।
चिह्नं कुर्वन्ति यद्दोषास्तदरिष्टं निरुच्यते||२९||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थानेऽणुज्योतीयमिन्द्रियं नामैकादशोऽध्यायः||११||