अन्नपानरक्षाकल्पः

श्लोक 1-2

अथातोऽन्नपानरक्षाकल्पं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

धन्वन्तरिः काशिपतिस्तपोधर्मभृतां वरः |
सुश्रुतप्रभृतीञ्छिष्याञ्छशासाहतशासनः ||३||

श्लोक 4-6

रिपवो विक्रमाक्रान्ता ये च स्वे कृत्यतां गताः |
सिसृक्षवः क्रोधविषं विवरं प्राप्य तादृशम् ||४||

विषैर्निहन्युर्निपुणं नृपतिं दुष्टचेतसः |
स्त्रियो वा विविधान् योगान् कदाचित्सुभगेच्छया ||५||

विषकन्योपयोगाद्वा क्षणाज्जह्यादसून्नरः |
तस्माद्वैद्येन सततं विषाद्रक्ष्यो नराधिपः ||६||

श्लोक 7

यस्माच्च चेतोऽनित्यत्वमश्ववत् प्रथितं नृणाम् |
न विश्वस्यात्ततो राजा कदाचिदपि कस्यचित् ||७||

श्लोक 8-11

कुलीनं धार्मिकं स्निग्धं सुभृतं सन्ततोत्थितम् |
अलुब्धमशठं भक्तं कृतज्ञं प्रियदर्शनम् ||८||

क्रोधपारुष्यमात्सर्यमायालस्यविवर्जितम् |
जितेन्द्रियं क्षमावन्तं शुचिं शीलदयान्वितम् ||९||

मेधाविनमसंश्रान्तमनुरक्तं हितैषिणम् |
पटुं प्रगल्भं निपुणं दक्षमालस्यवर्जितम् ||१०||

पूर्वोक्तैश्च गुणैर्युक्तं नित्यं सन्निहितागदम् |
महानसे प्रयुञ्जीत वैद्यं तद्विद्यपूजितम् ||११||

श्लोक 12-13

प्रशस्तदिग्देशकृतं शुचिभाण्डं महच्छुचि |
सजालकं गवाक्षाढ्यमाप्तवर्गनिषेवितम् ||१२||

विकक्षसृष्टसंसृष्टं सवितानं कृतार्चनम् |
परीक्षितस्त्रीपुरुषं भवेच्चापि महानसम् ||१३||

श्लोक 14

तत्राध्यक्षं नियुञ्जीत प्रायो वैद्यगुणान्वितम् |१४|

श्लोक 14-16

शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः ||१४||

संविभक्ताः सुमनसो नीचकेशनखाः स्थिराः |
स्नाता दृढं संयमिनः कृतोष्णीषाः सुसंयताः ||१५||

तस्य चाज्ञाविधेयाः स्युर्विविधाः परिकर्मिणः |१६|

श्लोक 16-17

आहारस्थितयश्चापि भवन्ति प्राणिनो यतः ||१६||

तस्मान्महानसे वैद्यः प्रमादरहितो भवेत् |१७|

श्लोक 17-18

माहानसिकवोढारः सौपौदनिकपौपिकाः ||१७||

भवेयुर्वैद्यवशगा ये चाप्यन्येऽत्र केचन |१८|

श्लोक 18-23

इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः ||१८||

विद्याद्विषस्य दातारमेभिर्लिङ्गैश्च बुद्धिमान् |
न ददात्युत्तरं पृष्टो विवक्षन् मोहमेति च ||१९||

अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत् |
स्फोटयत्यङ्गुलीर्भूमिमकस्माद्विलिखेद्धसेत् ||२०||

वेपथुर्जायते तस्य त्रस्तश्चान्योऽन्यमीक्षते |
क्षामो विवर्णवक्त्रश्च नखैः किञ्चिच्छिनत्त्यपि ||२१||

आलभेतासकृद्दीनः करेण च शिरोरुहान् |
निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः ||२२||

वर्तते विपरीतं तु विषदाता विचेतनः |२३|

श्लोक 23-24

केचिद्भयात् पार्थिवस्य त्वरिता वा तदाज्ञया ||२३||

असतामपि सन्तोऽपि चेष्टां कुर्वन्ति मानवाः |
तस्मात् परीक्षणं कार्यं भृत्यानामादृतैर्नृपैः ||२४||

श्लोक 25-27

अन्ने पाने दन्तकाष्ठे तथाऽभ्यङ्गेऽवलेखने |
उत्सादने कषाये च परिषेकेऽनुलेपने ||२५||

स्रक्षु वस्त्रेषु शय्यासु कवचाभरणेषु च |
पादुकापादपीठेषु पृष्ठेषु गजवाजिनाम् ||२६||

विषजुष्टेषु चान्येषु नस्यधूमाञ्जनादिषु |
लक्षणानि प्रवक्ष्यामि चिकित्सामप्यनन्तरम् ||२७||

श्लोक 28-34

नृपभक्ताद्बलिं न्यस्तं सविषं भक्षयन्ति ये |
तत्रैव ते विनश्यन्ति मक्षिकावायसादयः ||२८||

हुतभुक् तेन चान्नेन भृशं चटचटायते |
मयूरकण्ठप्रतिमो जायते चापि दुःसहः ||२९||

भिन्नार्चिस्तीक्ष्णधूमश्च नचिराच्चोपशाम्यति |
चकोरस्याक्षिवैराग्यं जायते क्षिप्रमेव तु ||३०||

दृष्ट्वाऽन्नं विषसंसृष्टं म्रियन्ते जीवजीवकाः |
कोकिलः स्वरवैकृत्यं क्रौञ्चस्तु मदमृच्छति ||३१||

हृष्येन्मयूर उद्विग्नः क्रोशतः शुकसारिके |
हंसः क्ष्वेडति चात्यर्थं भृङ्गराजस्तु कूजति ||३२||

पृषतो विसृजत्यश्रुं विष्ठां मुञ्चति मर्कटः |
सन्निकृष्टांस्ततः कुर्याद्राज्ञस्तान् मृगपक्षिणः ||३३||

वेश्मनोऽथ विभूषार्थं रक्षार्थं चात्मनः सदा |३४|

श्लोक 34-36

उपक्षिप्तस्य चान्नस्य बाष्पेणोर्ध्वं प्रसर्पता ||३४||

हृत्पीडा भ्रान्तनेत्रत्वं शिरोदुःखं च जायते |
तत्र नस्याञ्जने कुष्ठं लामज्जं नलदं मधु ||३५||

कुर्याच्छिरीषरजनीचन्दनैश्च प्रलेपनम् |
हृदि चन्दनलेपस्तु तथा सुखमवाप्नुयात् ||३६||

श्लोक 37

पाणिप्राप्तं पाणिदाहं नखशातं करोति च |
अत्र प्रलेपः श्यामेन्द्रगोपासोमोत्पलानि च ||३७||

श्लोक 38-39

स चेत् प्रमादान्मोहाद्वा तदन्नमुपसेवते |
अष्ठीलावत्ततो जिह्वा भवत्यरसवेदिनी ||३८||

तुद्यते दह्यते चापि श्लेष्मा चास्यात् प्रसिच्यते |
तत्र बाष्पेरितं कर्म यच्च स्याद्दान्तकाष्ठिकम् ||३९||

श्लोक 40-41

मूर्च्छां छर्दिमतीसारमाध्मानं दाहवेपथू |
इन्द्रियाणां च वैकृत्यं कुर्यादामाशयं गतम् ||४०||

तत्राशु मदनालाबुबिम्बीकोशातकीफलैः |
छर्दनं दध्युदश्विद्भ्यामथवा तण्डुलाम्बुना ||४१||

श्लोक 42-43

दाहं मूर्च्छामतीसारं तृष्णामिन्द्रियवैकृतम् |
आटोपं पाण्डुतां कार्श्यं कुर्यात् पक्वाशयं गतम् ||४२||

विरेचनं ससर्पिष्कं तत्रोक्तं नीलिनीफलम् |
दध्ना दूषीविषारिश्च पेयो वा मधुसंयुतः ||४३||

श्लोक 44-45

द्रवद्रव्येषु सर्वेषु क्षीरमद्योदकादिषु |
भवन्ति विविधा राज्यः फेनबुद्बुदजन्म च ||४४||

छायाश्चात्र न दृश्यन्ते दृश्यन्ते यदि वा पुनः |
भवन्ति यमलाश्छिद्रास्तन्व्यो वा विकृतास्तथा ||४५||

श्लोक 46-47

शाकसूपान्नमांसानि क्लिन्नानि विरसानि च |
सद्यः पर्युषितानीव विगन्धानि भवन्ति च ||४६||

गन्धवर्णरसैर्हीनाः सर्वे भक्ष्याः फलानि च |
पक्वान्याशु विशीर्यन्ते पाकमामानि यान्ति च ||४७||

श्लोक 48-50

विशीर्यते कूर्चकस्तु दन्तकाष्ठगते विषे |
जिह्वादन्तौष्ठमांसानां श्वयथुश्चोपजायते ||४८||

अथास्य धातकीपुष्पपथ्याजम्बूफलास्थिभिः |
सक्षौद्रैः प्रच्छिते शोफे कर्तव्यं प्रतिसारणम् ||४९||

अथवाऽङ्कोठमूलानि त्वचः सप्तच्छदस्य वा |
शिरीषमाषका वाऽपि सक्षौद्राः प्रतिसारणम् ||५०||

श्लोक 51

जिह्वानिर्लेखकवलौ दन्तकाष्ठवदादिशेत् |५१|

श्लोक 51-54

पिच्छिलो बहुलोऽभ्यङ्गो विवर्णो वा विषान्वितः ||५१||

स्फोटजन्मरुजास्रावत्वक्पाकः स्वेदनं ज्वरः |
दरणं चापि मांसानामभ्यङ्गे विषसंयुते ||५२||

तत्र शीताम्बुसिक्तस्य कर्तव्यमनुलेपनम् |
चन्दनं तगरं कुष्ठमुशीरं वेणुपत्रिका ||५३||

सोमवल्ल्यमृता श्वेता पद्मं कालीयकं त्वचम् |
कपित्थरसमूत्राभ्यां पानमेतच्च युज्यते ||५४||

श्लोक 55

उत्सादने परीषेके कषाये चानुलेपने |
शय्यावस्त्रतनुत्रेषु ज्ञेयमभ्यङ्गलक्षणैः ||५५||

श्लोक 56-58

केशशातः शिरोदुःखं खेभ्यश्च रुधिरागमः |
ग्रन्थिजन्मोत्तमाङ्गेषु विषजुष्टेऽवलेखने ||५६||

प्रलेपो बहुशस्तत्र भाविताः कृष्णमृत्तिकाः |
ऋष्यपित्तघृतश्यामापालिन्दीतण्डुलीयकैः ||५७||

गोमयस्वरसो वाऽपि हितो वा मालतीरसः |
रसो मूषिकपर्ण्या वा धूमो वाऽगारसम्भवः ||५८||

श्लोक 59

शिरोऽभ्यङ्गः शिरस्त्राणं स्नानमुष्णीषमेव च |
स्रजश्च विषसंसृष्टाः साधयेदवलेखनात् ||५९||

श्लोक 60-61

मुखालेपे मुखं श्यावं युक्तमभ्यङ्गलक्षणैः |
पद्मिनीकण्टकप्रख्यैः कण्टकैश्चोपचीयते ||६०||

तत्र क्षौद्रघृतं पानं प्रलेपश्चन्दनं घृतम् |
पयस्या मधुकं फञ्जी बन्धुजीवः पुनर्नवा ||६१||

श्लोक 62-63

अस्वास्थ्यं कुञ्जरादीनां लालास्रावोऽक्षिरक्तता |
स्फिक्पायुमेढ्रमुष्केषु यातुश्च स्फोटसम्भवः ||६२||

तत्राभ्यङ्गवदेवेष्टा यातृवाहनयोः क्रिया |६३|

श्लोक 63-65

शोणितागमनं खेभ्यः शिरोरुक्कफसंस्रवः ||६३||

नस्यधूमगते लिङ्गमिन्द्रियाणां च वैकृतम् |
तत्र दुग्धैर्गवादीनां सर्पिः सातिविषैः शृतम् ||६४||

पाने नस्ये च सश्वेतं हितं समदयन्तिकम् |६५|

श्लोक 65-66

गन्धहानिर्विवर्णत्वं पुष्पाणां म्लानता भवेत् ||६५||

जिघ्रतश्च शिरोदुःखं वारिपूर्णे च लोचने |
तत्र बाष्पेरितं कर्म मुखालेपे च यत् स्मृतम् ||६६||

श्लोक 67-68

कर्णतैलगते श्रोत्रवैगुण्यं शोफवेदने |
कर्णस्रावश्च तत्राशु कर्तव्यं प्रतिपूरणम् ||६७||

स्वरसो बहुपुत्रायाः सघृतः क्षौद्रसंयुतः |
सोमवल्करसश्चापि सुशीतो हित इष्यते ||६८||

श्लोक 69-72

अश्रूपदेहो दाहश्च वेदना दृष्टिविभ्रमः |
अञ्जने विषसंसृष्टे भवेदान्ध्यमथापि च ||६९||

तत्र सद्यो घृतं पेयं तर्पणं च समागधम् |
अञ्जनं मेषशृङ्गस्य निर्यासो वरुणस्य च ||७०||

मुष्ककस्याजकर्णस्य फेनो गोपित्तसंयुतः |
कपित्थमेषशृङ्ग्योश्च पुष्पं भल्लातकस्य वा ||७१||

एकैकं कारयेत् पुष्पं बन्धूकाङ्कोटयोरपि |७२|

श्लोक 72-73

शोफः स्रावस्तथा स्वापः पादयोः स्फोटजन्म च ||७२||

भवन्ति विषजुष्टाभ्यां पादुकाभ्यामसंशयम् |
उपानत्पादपीठानि पादुकावत् प्रसाधयेत् ||७३||

श्लोक 74-75

भूषणानि हतार्चींषि न विभान्ति यथा पुरा |
स्वानि स्थानानि हन्युश्च दाहपाकावदारणैः ||७४||

पादुकाभूषणेषूक्तमभ्यङ्गविधिमाचरेत् |७५|

श्लोक 75-79

विषोपसर्गो बाष्पादिर्भूषणान्तो य ईरितः ||७५||

समीक्ष्योपद्रवांस्तस्य विदधीत चिकित्सितम् |
महासुगन्धिमगदं यं प्रवक्ष्यामि तं भिषक् ||७६||

पानालेपननस्येषु विदधीताञ्जनेषु च |
विरेचनानि तीक्ष्णानि कुर्यात् प्रच्छर्दनानि च ||७७||

सिराश्च व्यधयेत् क्षिप्रं प्राप्तं विस्रावणं यदि |
मूषिकाऽजरुहा वाऽपि हस्ते बद्धा तु भूपतेः ||७८||

करोति निर्विषं सर्वमन्नं विषसमायुतम् |७९|

श्लोक 79-81

हृदयावरणं नित्यं कुर्याच्च मित्रमध्यगः ||७९||

पिबेद्धृतमजेयाख्यममृताख्यं च बुद्धिमान् |
सर्पिर्दधि पयः क्षौद्रं पिबेद्वा शीतलं जलम् ||८०||

मयूरान्नकुलान् गोधाः पृषतान् हरिणानपि |
सततं भक्षयेच्चपि रसांस्तेषां पिबेदपि ||८१||

श्लोक 82-84

गोधानकुलमांसेषु हरिणस्य च बुद्धिमान् |
दद्यात् सुपिष्टां पालिन्दीं मधुकं शर्करां तथा ||८२||

शर्करातिविषे देये मायूरे समहौषधे |
पार्षते चापि देयाः स्युः पिप्पल्यः समहौषधाः ||८३||

सक्षौद्रः सघृतश्चैव शिम्बीयूषो हितः सदा |
विषघ्नानि च सेवेत भक्ष्यभोज्यानि बुद्धिमान् ||८४||

श्लोक 85

पिप्पलीमधुकक्षौद्रशर्करेक्षुरसाम्बुभिः |
छर्दयेद्गुप्तहृदयो भक्षितं यदि वै विषम् ||८५||

पुष्पिका

इति सुश्रुतसंहितायां कल्पस्थानेऽन्नपानरक्षाकल्पो नाम  प्रथमोऽध्यायः ||१||
error: Content is protected !!