अपामार्गतण्डुलीयोऽध्यायः

श्लोक 1-6

अथातोऽपामार्गतण्डुलीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

अपामार्गस्य बीजानि पिप्पलीर्मरिचानि च| विडङ्गान्यथ शिग्रूणि सर्षपांस्तुम्बुरूणि च||३||
अजाजीं चाजगन्धां [१] च पीलून्येलां हरेणुकाम् | पृथ्वीका सुरसां श्वेतां कुठेरकफणिज्झकौ||४||
शिरीषबीजं लशुनं हरिद्रे लवणद्वयम् । ज्योतिष्मतीं नागरं च दद्याच्छीर्षविरेचने||५||
गौरवे शिरसः शूले पीनसेऽर्धावभेदके। क्रिमिव्याधावपस्मारे प्राणनाशे प्रमोहके ||६||

श्लोक 7-8

मदनं मधुकं निम्बं जीमूतं कृतवेधनम्। पिप्पलीकुटजेक्ष्वाकूण्येलां धामार्गवाणि च||७|| उपस्थिते श्लेष्मपित्ते व्याधावामाशयाश्रये| वमनार्थं प्रयुञ्जीत भिषग्देहमदूषयन्||८||

श्लोक 9-10

त्रिवृतां त्रिफलां दन्तीं नीलिनीं सप्तलां वचाम्| कम्पिल्लकं गवाक्षीं च क्षीरिणीमुदकीर्यकाम् ||९|| पीलून्यारग्वधं द्राक्षां द्रवन्तीं निचुलानि च। पक्वाशयगते दोषे विरेकार्थं प्रयोजयेत्||१०||

श्लोक 11-14

पाटलां [१] चाग्निमन्थं च बिल्वं श्योनाकमेव च। काश्मर्यं शालपर्णी च पृश्निपर्णी निदिग्धिकाम् ||११||
बलां श्वदंष्ट्रां बृहतीमेरण्डं सपुनर्नवम् ।
यवान् कुलत्थान् कोलानि गुडूचीं मदनानि च ||१२||
पलाशं कत्तृणं चैव स्नेहांश्च लवणानि च। उदावर्ते विबन्धेषु युञ्ज्यादास्थापनेषु च||१३||
अत एवौषधगणात् सङ्कल्प्यमनुवासनम्| मारुतघ्नमिति प्रोक्तः सङ्ग्रहः पाञ्चकर्मिकः ||१४||

श्लोक 15

तान्युपस्थितदोषाणां स्नेहस्वेदोपपादनैः । पञ्चकर्माणि कुर्वीत मात्राकालौ विचारयन्||१५||

श्लोक 16

मात्राकालाश्रया युक्तिः, सिद्धिर्युक्तौ प्रतिष्ठिता| तिष्ठत्युपरि युक्तिज्ञो द्रव्यज्ञानवतां सदा||१६||

श्लोक 17

अत ऊर्ध्वं प्रवक्ष्यामि यवागूर्विविधौषधाः। विविधानां विकाराणां तत्साध्यानां निवृत्तये ||१७||

श्लोक 18-33

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः । यवागूर्दीपनीया स्याच्छूलघ्नी चोपसाधिता||१८||
दधित्थबिल्वचाङ्गेरीतक्रदाडिमसाधिता |
पाचनी ग्राहिणी, पेया सवाते पाञ्चमूलिकी||१९||
शालपर्णीबलाबिल्वैः पृश्निपर्ण्या च साधिता । दाडिमाम्ला हिता पेया पित्तश्लेष्मातिसारिणाम् ||२०||
पयस्यर्धोदके च्छागे ह्रीवेरोत्पलनागरैः ।
पेया रक्तातिसारघ्नी पृश्निपर्ण्य च साधिता ||२१||
दद्यात् सातिविषां पेयां सामे [१] साम्लां सनागराम्| श्वदंष्ट्राकण्टकारीभ्यां मूत्रकृच्छ्रे सफाणिताम्||२२||
विडङ्गपिप्पलीमूलशिग्रुभिर्मरिचेन च।
तक्रसिद्धा [२] यवागूः स्यात् क्रिमिघ्नी ससुवर्चिका ||२३||
मृद्वीकासारिवालाजपिप्पलीमधुनागरैः
पिपासाघ्नी, विषघ्नी च सोमराजीविपाचिता ||२४||
सिद्धा वराहनिर्यूहे यवागूर्बृहणी मता । गवेधुकानां भृष्टानां कर्शनीया समाक्षिका ||२५||
सर्पिष्मती बहुतिला स्नेहनी लवणान्विता । कुशामलकनिर्यूहे श्यामाकानां [३] विरूक्षणी ||२६||
दशमूलीशृता कासहिक्काश्वासकफापहा | यमके मदिरासिद्धा पक्वाशयरुजापहा ||२७||
शाकैर्मासैस्तिलैर्माषैः सिद्धा वर्चो निरस्यति। जम्ब्वाम्म्रास्थिदधित्थाम्लबिल्वैः साङ्ग्राहिकी मता ||२८||
क्षारचित्रकहिङ्ग्वम्लवेतसैर्भेदिनी मता ।
अभयापिप्पलीमूलविश्वैर्वातानुलोमनी [४] ||२९||
तक्रसिद्धा यवागूः स्याद्धृतव्यापत्तिनाशिनी । तैलव्यापदि शस्ता स्यात्तक्रपिण्याकसाधिता||३०||
गव्यमांसरसैः साम्ला विषमज्वरनाशिनी । कण्ठ्या यवानां यमके पिप्पल्यामलकैः शृता ||३१||
ताम्रचूडरसे सिद्धा रेतोमार्गरुजापहा ।
समाषविदला वृष्या घृतक्षीरोपसाधिता||३२||
उपोदिकादधिभ्यां तु सिद्धा मदविनाशिनी । क्षुधं हन्यादपामार्गक्षीरगोधारसैः शृता ||३३||

श्लोक 34

तत्र श्लोक:-
अष्टाविंशतिरित्येता यवाग्वः परिकीर्तिताः।
पञ्चकर्माणि चाश्रित्य प्रोक्तो भैषज्यसङ्ग्रहः ||३४||

श्लोक 35

पूर्वं मूलफलज्ञानहेतोरुक्तं यदौषधम्। पञ्चकर्माश्रयज्ञानहेतोस्तत् कीर्तितं पुनः||३५||

श्लोक 36

स्मृतिमान् हेतुयुक्तिज्ञो जितात्मा प्रतिपत्तिमान्। भिषगौषधसंयोगैश्चिकित्सां कर्तुमर्हति||३६||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽपामार्गतण्डु
लीयो नाम द्वितीयोऽध्यायः ||२||