अपस्मारचिकित्सितम्

श्लोक 1-2

अथातोऽपस्मारचिकित्सितं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

स्मृतेरपगमं प्राहुरपस्मारं भिषग्विदः|
तमःप्रवेशं बीभत्सचेष्टं धीसत्त्वसम्प्लवात्||३||

श्लोक 4-5

विभ्रान्तबहुदोषाणामहिताशुचिभोजनात् |
रजस्तमोभ्यां विहते सत्त्वे दोषावृते हृदि||४||

चिन्ताकामभयक्रोधशोकोद्वेगादिभिस्तथा|
मनस्यभिहते नॄणामपस्मारः प्रवर्तते||५||

श्लोक 6-8

धमनीभिः श्रिता दोषा हृदयं पीडयन्ति हि|
सम्पीड्यमानो व्यथते मूढो भ्रान्तेन चेतसा||६||

पश्यत्यसन्ति रूपाणि पतति प्रस्फुरत्यपि|
जिह्वाक्षिभ्रूः स्रवल्लालो हस्तौ पादौ च विक्षिपन्||७||

दोषवेगे च विगते सुप्तवत् प्रतिबुद्ध्यते|८|

श्लोक 8-13

पृथग्दोषैः समस्तैश्च वक्ष्यते स चतुर्विधः||८||

कम्पते प्रदशेद्दन्तान् फेनोद्वामी श्वसित्यपि|
परुषारुणकृष्णानि पश्येद्रूपाणि चानिलात्||९||

पीतफेनाङ्गवक्त्राक्षः पीतासृग्रूपदर्शनः|
सतृष्णोष्णानलव्याप्तलोकदर्शी च पैत्तिकः||१०||

शुक्लफेनाङ्गवक्त्राक्षः शीतो हृष्टाङ्गजो गुरुः|
पश्यञ्छुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात्||११||

सर्वैरेतैः समस्तैस्तु लिङ्गैर्ज्ञेयस्त्रिदोषजः|
अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः||१२||

पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः|
अपस्माराय कुर्वन्ति वेगं किञ्चिदथान्तरम्||१३||

श्लोक 14-15

तैरावृतानां हृत्स्रोतोमनसां सम्प्रबोधनम्|
तीक्ष्णैरादौ भिषक् कुर्यात् कर्मभिर्वमनादिभिः||१४||

वातिकं बस्तिभूयिष्ठैः पैत्तं प्रायो विरेचनैः|
श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत्||१५||

श्लोक 16-17

सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च|
अपस्मारविमोक्षार्थं योगान् संशमनाञ्छृणु||१६||

गोशकृद्रसदध्यम्लक्षीरमूत्रैः समैर्घृतम्|
सिद्धं पिबेदपस्मारकामलाज्वरनाशनम्||१७||
इति पञ्चगव्यं घृतम्|

श्लोक 18-24

द्वे पञ्चमूल्यौ त्रिफला रजन्यौ कुटजत्वचम्|
सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम्||१८||

शम्पाकं फल्गुमूलं च पौष्करं सदुरालभम्|
द्विपलानि जलद्रोणे पक्त्वा पादावशेषिते||१९||

भार्गीं पाठां त्रिकटुकं त्रिवृतां निचुलानि च|
श्रेयसीमाढकीं मूर्वां दन्तीं भूनिम्बचित्रकौ||२०||

द्वे सारिवे रोहिषं च भूतीकं मदयन्तिकाम्|
क्षिपेत्पिष्ट्वाऽक्षमात्राणि तेन प्रस्थं घृतात् पचेत्||२१||

गोशकृद्रसदध्यम्लक्षीरमूत्रैश्च तत्समैः|
पञ्चगव्यमिति ख्यातं महत्तदमृतोपमम्||२२||

अपस्मारे तथोन्मादे श्वयथावुदरेषु च|
गुल्मार्शःपाण्डुरोगेषु कामलायां हलीमके||२३||

शस्यते घृतमेतत्तु प्रयोक्तव्यं दिने दिने|
अलक्ष्मीग्रहरोगघ्नं चातुर्थकविनाशनम्||२४||
इति महापञ्चगव्यं घृतम्|

श्लोक 25-27

ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीभिरेव च|
पुराणं घृतमुन्मादालक्ष्म्यपस्मारपापनुत्||२५||

घृतं सैन्धवहिङ्गुभ्यां वार्षे बास्ते चतुर्गुणे|
मूत्रे सिद्धमपस्मारहृद्ग्रहामयनाशनम्||२६||

वचाशम्पाककैटर्यवयःस्थाहिङ्गुचोरकैः|
सिद्धं पलङ्कषायुक्तैर्वातश्लेष्मात्मके घृतम्||२७||

श्लोक 28-31

तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः|
क्षीरद्रोणे पचेत् सिद्धमपस्मारविनाशनम्||२८||

कंसे क्षीरेक्षुरसयोः काश्मर्येऽष्टगुणे रसे|
कार्षिकैर्जीवनीयैश्च घृतप्रस्थं विपाचयेत्||२९||

वातपित्तोद्भवं क्षिप्रमपस्मारं नियच्छति|
तद्वत् काशविदारीक्षुकुशक्वाथशृतं घृतम्||३०||

मधुकद्विपले कल्के द्रोणे चामलकीरसात्|
तद्वत् सिद्धो घृतप्रस्थः पित्तापस्मारभेषजम्||३१||

श्लोक 32-33

अभ्यङ्गः सार्षपं तैलं बस्तमूत्रे चतुर्गुणे|
सिद्धं स्याद्गोशकृन्मूत्रैः स्नानोत्सादनमेव च||३२||

कटभीनिम्बकट्वङ्गमधुशिग्रुत्वचां रसे|
सिद्धं मूत्रसमं तैलमभ्यङ्गार्थे प्रशस्यते||३३||

श्लोक 34-36

पलङ्कषावचापथ्यावृश्चिकाल्यर्कसर्षपैः|
जटिलापूतनाकेशीनाकुलीहिङ्गुचोरकैः||३४||

लशुनातिरसाचित्राकुष्ठैर्विड्भिश्च पक्षिणाम्|
मांसाशिनां यथालाभं बस्तमूत्रे चतुर्गुणे||३५||

सिद्धमभ्यञ्जनं तैलमपस्मारविनाशनम्|
एतैश्चैवौषधैः कार्यं धूपनं सप्रलेपनम्||३६||

श्लोक 37-38

पिप्पलीं लवणं चित्रां हिङ्गु हिङ्गुशिवाटिकाम्|
काकोलीं सर्षपान् काकनासां कैटर्यचन्दने||३७||

शुनःस्कन्धास्थिनखरान् पर्शुकां चेति पेषयेत्|
बस्तमूत्रेण पुष्यर्क्षे प्रदेहः स्यात् सधूपनः||३८||

श्लोक 39-40

अपेतराक्षसीकुष्ठपूतनाकेशिचोरकैः|
उत्सादनं मूत्रपिष्टैर्मूत्रैरेवावसेचनम्||३९||

जलौकःशकृता तद्वद्दग्धैर्वा बस्तरोमभिः|
खरास्थिभिर्हस्तिनखैस्तथा गोपुच्छलोमभिः||४०||

श्लोक 41-45

कपिलानां गवां मूत्रं नावनं परमं हितम्|
श्वशृगालबिडालानां सिंहादीनां च शस्यते||४१||

भार्गी वचा नागदन्ती श्वेता श्वेता विषाणिका|
ज्योतिष्मती नागदन्ती पादोक्ता मूत्रपेषिताः||४२||

योगास्त्रयोऽतः षड् बिन्दून् पञ्च वा नावयेद्भिषक्|
त्रिफलाव्योषपीतद्रुयवक्षारफणिज्झकैः||४३||

श्यामापामार्गकारञ्जफलैर्मूत्रेऽथ बस्तजे|
साधितं नावनं तैलमपस्मारविनाशनम्||४४||

पिप्पली वृश्चिकाली च कुष्ठं च लवणानि च|
भार्गी च चूर्णितं नस्तः कार्यं प्रधमनं परम्||४५||

श्लोक 46-49

कायस्थां शारदान्मुद्गान्मुस्तोशीरयवांस्तथा|
सव्योषान् बस्तमूत्रेण पिष्ट्वा वर्तीः प्रकल्पयेत्||४६||

अपस्मारे तथोन्मादे सर्पदष्टे गरार्दिते|
विषपीते जलमृते चैताः स्युरमृतोपमाः||४७||

मुस्तं वयःस्थां त्रिफलां कायस्थां हिङ्गु शाद्वलम्|
व्योषं माषान् यवान्मूत्रैर्बास्तमैषार्षभैस्त्रिभिः||४८||

पिष्ट्वा कृत्वा च तां वर्तिमपस्मारे प्रयोजयेत्|
किलासे च तथोन्मादे ज्वरेषु विषमेषु च||४९||

श्लोक 50-52

पुष्योद्धृतं शुनः पित्तमपस्मारघ्नमञ्जनम्|
तदेव सर्पिषा युक्तं धूपनं परमं मतम्||५०||

नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः|
तुण्डैः पक्षैः पुरीषैश्च धूपनं कारयेद्भिषक्||५१||

आभिः क्रियाभिः सिद्धाभिर्हृदयं सम्प्रबुध्यते|
स्रोतांसि चापि शुध्यन्ति ततः सञ्ज्ञां स विन्दति||५२||

श्लोक 53

यस्यानुबन्धस्त्वागन्तुर्दोषलिङ्गाधिकाकृतिः|
दृश्येत तस्य कार्यं स्यादागन्तून्मादभेषजम्||५३||

श्लोक 54-63

अनन्तरमुवाचेदमग्निवेशः कृताञ्जलिः|
भगवन्! प्राक् समुद्दिष्टः श्लोकस्थाने महागदः||५४||

अतत्त्वाभिनिवेशो यस्तद्धेत्वाकृतिभेषजम्|
तत्र नोक्तमतः श्रोतुमिच्छामि तदिहोच्यताम्||५५||

शुश्रूषवे वचः श्रुत्वा शिष्यायाह पुनर्वसुः|
महागदं सौम्य! शृणु सहेत्वाकृतिभेषजम्||५६||

मलिनाहारशीलस्य वेगान् प्राप्तान्निगृह्णतः|
शीतोष्णस्निग्धरूक्षाद्यैर्हेतुभिश्चातिसेवितैः||५७||

हृदयं समुपाश्रित्य मनोबुद्धिवहाः सिराः|
दोषाः सन्दूष्य तिष्ठन्ति रजोमोहावृतात्मनः||५८||

रजस्तमोभ्यां वृद्धाभ्यां बुद्धौ मनसि चावृते|
हृदये व्याकुले दोषैरथ मूढोऽल्पचेतनः ||५९||

विषमां कुरुते बुद्धिं नित्यानित्ये हिताहिते|
अतत्त्वाभिनिवेशं तमाहुराप्ता महागदम्||६०||

स्नेहस्वेदोपपन्नं तं संशोध्य वमनादिभिः|
कृतसंसर्जनं मेध्यैरन्नपानैरुपाचरेत्||६१||

ब्राह्मीस्वरसयुक्तं यत् पञ्चगव्यमुदाहृतम्|
तत् सेव्यं शङ्खपुष्पी च यच्च मेध्यं रसायनम्||६२||

सुहृदश्चानुकूलास्तं स्वाप्ता धर्मार्थवादिनः|
संयोजयेयुर्विज्ञानधैर्यस्मृतिसमाधिभिः ||६३||

श्लोक 64-65

प्रयुञ्ज्यात्तैललशुनं पयसा वा शतावरीम्|
ब्राह्मीरसं कुष्ठरसं वचां वा मधुसंयुताम्||६४||

दुश्चिकित्स्यो ह्यपस्मारश्चिरकारी कृतास्पदः |
तस्माद्रसायनैरेनं प्रायशः समुपाचरेत्||६५||

श्लोक 66

जलाग्निद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा|
रक्षेदुन्मादिनं चैव सद्यः प्राणहरा हि ते||६६||

श्लोक 67-68

तत्र श्लोकौ-
हेतुं कुर्वन्त्यपस्मारं दोषाः प्रकुपिता यथा|
सामान्यतः पृथक्त्वाच्च लिङ्गं तेषां च भेषजम्||६७||

महागदसमुत्थानं लिङ्गं चोवाच सौषधम्|
मुनिर्व्याससमासाभ्यामपस्मारचिकित्सिते ||६८||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते  चिकित्सास्थानेऽपस्मारचिकित्सितं नाम दशमोऽध्यायः||१०||