श्लोक 1-2
अथातोऽर्थेदशमहामूलीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
श्लोक 3-4
अर्थे [१] दश महामूला: समासक्ता [२] महाफलाः । महच्चार्थश्च हृदयं पर्यायैरुच्यते बुधैः||३||
षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्।
आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम्||४||
श्लोक 5-6
प्रतिष्ठार्थं [१] हि भावानामेषां हृदयमिष्यते। गोपानसीनामागारकर्णिकेवार्थचिन्तकैः||५||
तस्योपघातान्मूर्च्छायं भेदान्मरणमृच्छति|६|
श्लोक 6-7
यद्धि तत् स्पर्शविज्ञानं धारि तत्तत्र संश्रितम् ||६||
तत् परस्यौजसः स्थानं तत्र चैतन्यसङ्ग्रहः। हृदयं महदर्थश्च तस्मादुक्तं चिकित्सकैः [१] ||७||
श्लोक 8
तेन मूलेन महता महामूला मता दश ।
ओजोवहाः शरीरेऽस्मिन् विधम्यन्ते समन्ततः||८||
श्लोक 9-12
येनौजसा वर्तयन्ति प्रीणिताः सर्वदेहिनः [१] | यदृते सर्वभूतानां जीवितं नावतिष्ठते||९||
यत् सारमादौ गर्भस्य यत्तद्गर्भरसाद्रसः [२] | संवर्तमानं [३] हृदयं समाविशति यत् पुरा [४] ||१०||
यस्य [५] नाशात्तु नाशोऽस्ति धारि यद्धृदयाश्रितम् [६] | यच्छरीररसस्नेहः प्राणा यत्र प्रतिष्ठिताः||११||
तत्फला बहुधा [७] वा ताः फलन्तीव (ति) महाफलाः |१२|
श्लोक 12
ध्मानाद्धमन्यः स्रवणात् स्रोतांसि सरणात्सिराः||१२||
श्लोक 13-14
तन्महत् ता महामूलास्तच्चोजः परिरक्षता| परिहार्या विशेषेण मनसो दुःखहेतवः||१३||
हृद्यं यत् स्याद्यदौजस्यं स्रोतसां यत् प्रसादनम् | तत्तत् सेव्यं प्रयत्नेन प्रशमो ज्ञानमेव च||१४||
श्लोक 15
अथ खल्वेकं प्राणवर्धनानामुत्कृष्टतममेकं बलवर्धनानामेकं बृंहणानामेकं नन्दनानामेकं हर्षणानामेकमयनानामिति [१] ।
तत्राहिंसा प्राणिनां प्राणवर्धनानामुत्कृष्टतमं वीर्यं बलवर्धनानां, विद्या बृंहणानाम्, इन्द्रियजयो नन्दनानां, तत्त्वावबोधो हर्षणानां ब्रह्मचर्यमयनानामिति [२] ; एवमायुर्वेदविदो मन्यन्ते ||१५||
श्लोक 16-19
तत्रायुर्वेदविदस्तन्त्रस्थानाध्यायप्रश्नानां पृथक्त्वेन वाक्यशो वाक्यार्थशोऽर्थावयवशश्च प्रवक्तारो मन्तव्याः । तत्राह- कथं तन्त्रादीनि वाक्यशो वाक्यार्थशोऽर्थावयवशश्वोक्तानि भवन्तीति ||१६||
अत्रोच्यते- तन्त्रमार्षं कार्त्स्न्येन यथाम्नायमुच्यमानं वाक्यशो
भवत्युक्तम्||१७||
बुद्ध्या सम्यगनुप्रविश्यार्थतत्त्वं
वाग्भिर्व्याससमासप्रतिज्ञाहेतूदाहरणोपनयनिगमनयुक्ताभिस्त्रि विधशिष्यबुद्धिगम्याभिरुच्यमानं [१] [२] वाक्यार्थशो
भवत्युक्तम्||१८||
तन्त्रनियतानामर्थदुर्गाणां [३] पुनर्विभावनैरुक्तमर्थावयवशो भवत्युक्तम्||१९||
श्लोक 20
तत्र चेत् प्रष्टारः स्युः- चतुर्णामृक्सामयजुरथर्ववेदानां कं वेदमुपदिशन्त्यायुर्वेदविदः ?, किमायुः ?, कस्मादायुर्वेदः ?, किमर्थमायुर्वेदः ?, शाश्वतोऽशाश्वतो वा?, कति कानि चास्याङ्गानि?, कैश्चायमध्येतव्यः ?, किमर्थं च? इति||२०||
श्लोक 21
तत्र भिषजा पृष्टेनैवं
चतुर्णामृक्सामयजुरथर्ववेदानामात्मनोऽथर्ववेदे
भक्तिरादेश्या, वेदो ह्याथर्वणो
दानस्वस्त्ययनबलिमङ्गलहोमनियमप्रायश्चित्तोपवासम न्त्रादिपरिग्रहाच्चिकित्सां प्राह; चिकित्सा चायुषो हितायोपदिश्यते||२१||
श्लोक 22
वेदं चोपदिश्यायुर्वाच्यं [१] ;
तत्रायुश्चेतनानुवृत्तिर्जीवितमनुबन्धो धारि चेत्येकोऽर्थः||२२||
श्लोक 23
तदायुर्वेदयतीत्यायुर्वेदः [१] ; कथमिति चेत् ? उच्यते- स्वलक्षणतः सुखासुखतो हिताहिततः
प्रमाणाप्रमाणतश्च; यतश्चायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि वेदयत्यतोऽप्यायुर्वेदः । तत्रायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि
केवलेनोपदेक्ष्यन्ते तन्त्रेण||२३||
श्लोक 24
तत्रायुरुक्तं स्वलक्षणतो यथावदिहैव पूर्वाध्याये च| तत्र [१] शारीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्य विशेषेण यौवनवतः समर्थानुगतबलवीर्ययशःपौरुषपराक्रमस्य
ज्ञानविज्ञानेन्द्रियेन्द्रियार्थबलसमुदये वर्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य समृद्धसर्वारम्भस्य यथेष्टविचारिणः सुखमायुरुच्यते; असुखमतो विपर्ययेण; हितैषिणः पुनर्भूतानां परस्वादुपरतस्य सत्यवादिनः शमपरस्य [२] परीक्ष्यकारिणोऽप्रमत्तस्य त्रिवर्गं परस्परेणानुपहतमुपसेवमानस्य पूजार्हसम्पूजकस्य ज्ञानविज्ञानोपशमशीलस्य वृद्धोपसेविनः
सुनियतरागरोषेर्ष्यामदमानवेगस्य सततं विविधप्रदानपरस्य तपोज्ञानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य लोकमिमं चामुं चावेक्षमाणस्य स्मृतिमतिमतो हितमायुरुच्यते; अहितमतो विपर्ययेण ||२४||
श्लोक 25-26
प्रमाणमायुषस्त्वर्थेन्द्रियमनोबुद्धिचेष्टादीनां विकृतिलक्षणैरुपलभ्यतेऽनिमित्तैः, अयमस्मात् क्षणान्मुहूर्ताद्दिवसात् त्रिपञ्चसप्तदशद्वादशाहात् पक्षान्मासात् षण्मासात् संवत्सराद्वा स्वभावमापत्स्यत इति; तत्र स्वभावः प्रवृत्तेरुपरमो मरणमनित्यता निरोध इत्येकोऽर्थः ; इत्यायुषः प्रमाणम्; अतो विपरीतमप्रमाणमरिष्टाधिकारे; देहप्रकृतिलक्षणमधिकृत्य चोपदिष्टमायुषः प्रमाणमायुर्वेदे [१]
||२५||
प्रयोजनं चास्य स्वस्थस्य स्वास्थ्यरक्षणमातुरस्य विकारप्रशमनं च||२६||
श्लोक 27
सोऽयमायुर्वेदः शाश्वतो निर्दिश्यते, अनादित्वात्, स्वभावसंसिद्धलक्षणत्वात्, भावस्वभावनित्यत्वाच्च| न हि नाभूत् कदाचिदायुषः सन्तानो बुद्धिसन्तानो वा, शाश्वतश्चायुषो वेदिता, अनादि च सुखदुःखं सद्रव्यहेतुलक्षणमपरापरयोगात् |
एष चार्थसङ्ग्रहो विभाव्यते आयुर्वेदलक्षणमिति| गुरुलघुशीतोष्णस्निग्धरूक्षादीनां द्रव्याणां सामान्यविशेषाभ्यां वृद्धिह्रासौ, यथोक्तं- गुरुभिरभ्यस्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनां, एवमेवेतरेषामिति, एष भावस्वभावो नित्यः, स्वलक्षणं च द्रव्याणां पृथिव्यादीनां; सन्ति तु द्रव्याणि गुणाश्च नित्यानित्याः । न ह्यायुर्वेदस्याभूत्वोत्पत्तिरुपलभ्यते, अन्यत्रावबोधोपदेशाभ्याम्; एतद्वै द्वयमधिकृत्योत्पत्तिमुपदिशन्त्येके ।
स्वाभाविकं चास्य लक्षणमकृतकं, यदुक्तमिहाद्येऽध्याये च; यथा- अग्नेरौष्ण्यम्, अपां द्रवत्वम्। भावस्वभावनित्यत्वमपि चास्य, यथोक्तं-
गुरुभिरभ्यस्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनामिति||२७||
श्लोक 28
तस्यायुर्वेदस्याङ्गान्यष्टौ; तद्यथा- कायचिकित्सा , शालाक्यं, शल्यापहर्तृकं, विषगरवैरोधिकप्रशमनं, भूतविद्या, कौमारभृत्यकं, रसायनं, वाजीकरणमिति ||२८||
श्लोक 29
स चाध्येतव्यो ब्राह्मणराजन्यवैश्यैः।
तत्रानुग्रहार्थं प्राणिनां ब्राह्मणैः, आरक्षार्थं राजन्यैः, वृत्त्यर्थं वैश्यैः; सामान्यतो वा धर्मार्थकामपरिग्रहार्थं सर्वैः । तत्र यदध्यात्मविदां धर्मपथस्थानां धर्मप्रकाशकानां वा मातृपितृभ्रातृबन्धुगुरुजनस्य वा विकारप्रशमने प्रयत्नवान् भवति, यच्चायुर्वेदोक्तमध्यात्ममनुध्यायति वेदयत्यनुविधीयते वा, सोऽस्य परो धर्मः; या पुनरीश्वराणां वसुमतां वा सकाशात् सुखोपहारनिमित्ता भवत्यर्थावाप्तिरारक्षणं च, या च स्वपरिगृहीतानां प्राणिनामातुर्यादारक्षा, सोऽस्यार्थः; यत् पुनरस्य विद्वद्ग्रहणयशः शरण्यत्वं च, या च सम्मानशुश्रूषा, यच्चेष्टानां विषयाणामारोग्यमाधत्ते सोऽस्य कामः ।
इति यथाप्रश्नमुक्तमशेषेण||२९||
श्लोक 30
अथ भिषगादित एव भिषजा प्रष्टव्योऽष्टविधं भवति – तन्त्रं, तन्त्रार्थान्, स्थानं, स्थानार्थान्, अध्यायम्, अध्यायार्थान्, प्रश्नं, प्रश्नार्थांश्चेति; पृष्टेन चैतद्वक्तव्यमशेषेण वाक्यशो वाक्यार्थशोऽर्थावयवशश्चेति [१] ||३०||
श्लोक 31-32
तत्रायुर्वेदः शाखा विद्या सूत्रं ज्ञानं शास्त्रं लक्षणं तन्त्रमित्यनर्थान्तरम् ||३१|| तन्त्रार्थः [२] पुनः स्वलक्षणैरुपदिष्टः।
स चार्थः प्रकरणैर्विभाव्यमानो भूय एव शरीरवृत्तिहेतुव्याधिकर्मकार्यकालकर्तृकरणविधिविनिश्च याद्दशप्रकरणः, तानि च प्रकरणानि केवलेनोपदेक्ष्यन्ते तन्त्रेण||३२||
श्लोक 33
तन्त्रस्यास्याष्टौ स्थानानि [१] ; तद्यथा- श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धि
स्थानानि |
तत्र त्रिंशदध्यायकं श्लोकस्थानम्, अष्टाष्टाध्यायकानि निदानविमानशारीरस्थानानि, द्वादशकमिन्द्रियाणां, त्रिंशकं चिकित्सितानां, द्वादशके कल्पसिद्धिस्थाने भवतः||३३||
श्लोक 34
भवति चात्र-
द्वे त्रिंशके द्वादशकं त्रयं च त्रीण्यष्टकान्येषु समाप्तिरुक्ता | श्लोकौषधारिष्टविकल्पसिद्धिनिदानमानाश्रयसञ्ज्ञकेषु||३४||
श्लोक 35
स्वे स्वे स्थाने यथास्वं च स्थानार्थ उपदेक्ष्यते। सविंशमध्यायशतं शृणु नामक्रमागतम्||३५||
श्लोक 36-68
दीर्घञ्जीवोऽप्यपामार्गतण्डुलारग्वधादिकौ | षड्विरेकाश्रयश्चेति [१] चतुष्को भेषजाश्रयः ||३६||
मात्रातस्याशितीयी च नवेगान्धारणं तथा । इन्द्रियोपक्रमश्चेति चत्वारः स्वास्थ्यवृत्तिकाः [२] ||३७||
खुट्टाकश्च चतुष्यादो महांस्तिखेषणस्तथा । सह वातकलाख्येन विद्याचैर्देशिकान् बुधः ||३८||
स्नेहनस्वेदनाध्यायावुभौ यश्चोपकल्पनः । चिकित्साप्राभृतश्चैव सर्व एव प्रकल्पनाः||३९||
कियन्तः शिरसीयश्च त्रिशोफाष्टोदरादिकी| रोगाच्यायो महांश्चैव रोगाच्यायचतुष्टयम् ||४०||
-अष्टौनिन्दितसङ्ख्यातस्तथा लङ्घनतर्पणे। विधिशोणितिकश्चैव व्याख्यातास्तत्र योजनाः || ४१||
यज्जः पुरुषसङ्ख्यातो भद्रकायानपानिको
विविधाशितपीतीयश्चत्वारोऽन्नविनिश्चयाः||४२||
दशप्राणायतनिकस्तथाऽर्थेदशमूलिकः |
द्वावेतौ प्राणदेहार्थी प्रोक्तौ वैद्यगुणाश्रयी ||४३||
औषधस्वस्थनिर्देशकल्पनारोगयोजनाः । चतुष्काः षट् क्रमेणोक्ताः सप्तमश्चान्नपानिकः ||४४||
द्वौ चान्त्यौ सङ्ग्रहाध्यायाविति त्रिंशकमर्थवत्। श्लोकस्थानं समुद्दिष्टं तन्त्रस्यास्य शिरः शुभम् [३] ||४५||
चतुष्काणां महार्थानां स्थानेऽस्मिन् सङ्ग्रहः कृतः | श्लोकार्थसङ्ग्रहार्थ श्लोकस्थानमतः स्मृतम् ||४५६||
ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः ।
-शोषोन्मादनिदाने च स्यादपस्मारिणां च यत् ||४७||
इत्यध्यायाष्टकमिदं निदानस्थानमुच्यते।
रसेषु त्रिविधे कुक्षौ ध्वंसे जनपदस्य च ||४८||
त्रिविधे रोगविज्ञाने स्रोतः स्वपि च वर्तने। रोगानीके व्याधिरूपे रोगाणां च भिषग्जिते। ४९||
-अष्टौ विमानान्युक्तानि मानार्थानि महर्षिणा | कतिधापुरुषीयं च गोत्रेणातुल्यमेव च ||५०||
खुड्डिका महती चैव गर्भावक्रान्तिरुच्यते। पुरुषस्य शरीरस्य विचयौ द्वौ विनिश्चित || ५१||
शरीरसङ्ख्या सूत्रं च जातेरष्टममुच्यते [४] । इत्युद्दिष्टानि मुनिना शारीराण्यत्रिसूनुना||५२||
वर्णस्वरीयः पुष्पाख्यस्तृतीयः परिमर्शनः । चतुर्थ इन्द्रियानीकः पञ्चमः पूर्वरूपिकः || ५३||
कतमानिशरीरीयः पचरूपोऽप्यवाक्शिराः | यस्यश्यावनिमित्तश्च सद्योमरण एव च || ५४ ||
अणुज्योतिरिति ख्यातस्तथा गोमयचूर्णवान् ।
द्वादशाध्यापक स्थानमिन्द्रियाणामिति स्मृतम्] [५] ||५५||
अभयामलकीयं च प्राणकामीयमेव च। करप्रचितकं वेदसमुत्थानं रसायनम् ||५६||
संयोगशरमूलीयमासिक्तक्षीरकं तथा ।
पर्णभृतीयं च पुमाञ्जातबलादिकम् ||५०||
चतुष्कद्वयमप्येतदध्यापद्वयमुच्यते।
रसायनमिति ज्ञेयं वाजीकरणमेव च || ५८||
ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः ।
शोषोन्मादेऽप्यपरमारे क्षतशोधोदरार्शसाम् ||५९||
ग्रहणीपाण्डुरोगाणां श्वासकासातिसारिणाम्।
छर्दिवीसर्पतृष्णानां विषमद्यविकारयोः||६०||
द्विव्रणीयं त्रिमर्मीयमूरुस्तम्भिकमेव च।
वातरोगे वातरक्ते योनिव्यापत्सु चैव यत्॥ ६१॥
त्रिंशच्चिकित्सितान्युक्तान्यतः कल्पान् [६] प्रचक्ष्महे ।
फलजीमूतकेक्ष्वाकुकल्पो थामार्गवस्य च ||६२ ||
पञ्चमो वत्सकस्योक्तः षष्ठश्च कृतवेधने ।
श्यामात्रवृतयोः कल्पस्तथैव चतुरङ्गले ॥ ६३॥
तिल्वकस्य सुधायाश्च सप्तलाशखिनीषु च
दन्तीद्रवन्त्योः कल्पश्च द्वादशोऽयं समाप्यते ||६४॥
कल्पना पञ्चकर्माख्या बस्तिसूत्री तथैव च। स्नेहव्यापदिकी सिद्धिनैत्रव्यापदिकी तथा ||६५||
सिद्धिः शोधनयोश्चैव बस्तिसिद्धिस्तथैव च। प्रसूती मर्मसङ्ख्याता सिद्धिस्त्याश्रया च या ॥ ६५||
फलमात्रा तथा सिद्धिः सिद्धिश्चोत्तरसन्जिता सिद्धयो द्वादशैवैतास्तन्त्रं चासु [७] समाप्यते||६७||
स्वे स्वे स्थाने [८] तथाऽध्याये चाध्यायार्थः प्रवक्ष्यते । तं ब्रूयात् सर्वतः सर्वं यथास्वं [९] ह्यर्थसङ्ग्रहात् ||६८||
श्लोक 69-71
पृच्छा तन्त्राद्यथाम्नायं विधिना प्रश्न उच्यते| प्रश्नार्थो युक्तिमांस्तस्य तन्त्रेणैवार्थनिश्चयः [१] ||६९||
निरुक्तं [२] तन्त्रणात्तन्त्रं, स्थानमर्थप्रतिष्ठया| अधिकृत्यार्थमध्यायनामसञ्ज्ञा प्रतिष्ठिता [३] ||७०||
इति सर्वं यथाप्रश्नमष्टकं सम्प्रकाशितम्|
कार्त्स्न्येन चोक्तस्तन्त्रस्य सङ्ग्रहः सुविनिश्चितः||७१||
श्लोक 72-74
सन्ति पाल्लविकोत्पाताः [१] सङ्क्षोभं जनयन्ति ये| वर्तकानामिवोत्पाताः सहसैवाविभाविताः||७२||
तस्मात्तान् [२] पूर्वसञ्जल्पे सर्वत्राष्टकमादिशेत्| परावरपरीक्षार्थं तत्र शास्त्रविदां बलम् ||७३||
शब्दमात्रेण तन्त्रस्य केवलस्यैकदेशिकाः। भ्रमन्त्यल्पबलास्तन्त्रे ज्याशब्देनेव वर्तकाः||७४||
श्लोक 75-81
पशुः पशूनां दौर्बल्यात् कश्चिन्मध्ये वृकायते। स सत्यं वृकमासाद्य प्रकृतिं भजते पशुः||७५||
तद्वदज्ञोऽज्ञमध्यस्थः कश्चिन्मौखर्यसाधनः| स्थापयत्याप्तमात्मानमाप्तं त्वासाद्य भिद्यते||७६||
बभ्रुगूढ इवोर्णाभिरबुद्धिरबहुश्रुतः ।
किं वै वक्ष्यति सञ्जल्पे कुण्डभेदी जडो यथा||७७||
सद्वृत्तैर्न विगृह्णीयाद्भिषगल्पश्रुतैरपि ।
हन्यात् प्रश्नाष्टकेनादावितरांस्त्वाप्तमानिनः [१] ||७८||
दम्भिनो मुखरा ह्यज्ञाः प्रभूताबद्धभाषिणः । प्रायः, प्रायेण सुमुखाः सन्तो युक्ताल्पभाषिणः||७९||
तत्त्वज्ञानप्रकाशार्थमहङ्कारमनाश्रितः। स्वल्पाधाराज्ञमुखरान्मर्षयेन्न विवादिनः ||८०||
परो भूतेष्वनुक्रोशस्तत्त्वज्ञान (ने) परा दया | येषां तेषामसद्वादनिग्रहे निरता मतिः||८१||
श्लोक 82-83
असत्पक्षाक्षणित्वार्तिदम्भपारुष्यसाधनाः। भवन्त्यनाप्ताः स्वे तन्त्रे प्रायः परविकत्थकाः||८२||
तान् कालपाशसदृशान् वर्जयेच्छास्त्रदूषकान्| प्रशमज्ञानविज्ञानपूर्णाः सेव्या भिषक्तमाः||८३||
श्लोक 84-85
समग्रं दुःखमायत्तमविज्ञाने द्वयाश्रयम् । सुखं समग्रं विज्ञाने विमले च प्रतिष्ठितम्||८४||
इदमेवमुदारार्थमज्ञानां न प्रकाशकम्।
शास्त्रं दृष्टिप्रणष्टानां यथैवादित्यमण्डलम्||८५||
श्लोक 86-89
तत्र श्लोका:-
अर्थे दशमहामूलाः सञ्ज्ञा चासां यथा कृता। अयनान्ताः षडग्र्याश्च रूपं वेदविदां च यत्||८६||
सप्तकश्चाष्टकश्चैव परिप्रश्नाः सनिर्णयाः|
यथा वाच्यं यदर्थं च षड्विधाश्चैकदेशिकाः || ८७||
अर्थेदशमहामूले सर्वमेतत् प्रकाशितम्। सङ्ग्रहश्चायमध्यायस्तन्त्रस्यास्यैव केवलः ||८८||
यथा सुमनसां सूत्रं सङ्ग्रहार्थं विधीयते। सङ्ग्रहार्थं तथाऽर्थानामृषिणा सङ्ग्रहः कृतः ||८९||
पुष्पिका
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽर्थेदशमहामूलीयो नाम त्रिंशोऽध्यायः ||३०||
अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । इयताऽवधिना सर्वं सूत्रस्थानं समाप्यते।