अर्शश्चिकित्सितम्

श्लोक 1-2

अथातोऽर्शश्चिकित्सितं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

आसीनं मुनिमव्यग्रं कृतजाप्यं कृतक्षणम्|
पृष्टवानर्शसां युक्तमग्निवेशः पुनर्वसुम्||३||

श्लोक 4

प्रकोपहेतुं संस्थानं स्थानं लिङ्गं चिकित्सितम्|
साध्यासाध्यविभागं च तस्मै तन्मुनिरब्रवीत्||४||

श्लोक 5

इह खल्वग्निवेश! द्विविधान्यर्शांसि- कानिचित् सहजानि, कानिचिज्जातस्योत्तरकालजानि|
तत्र बीजं गुदवलिबीजोपतप्तमायतनमर्शसां सहजानाम्|
तत्र द्विविधो बीजोपतप्तौ हेतुः- मातापित्रोरपचारः, पूर्वकृतं च  कर्म; तथाऽन्येषामपि सहजानां विकाराणाम्|
तत्र सहजानि सह जातानि शरीरेण, अर्शांसीत्यधिमांसविकाराः||५||

श्लोक 6

सर्वेषां चार्शसां क्षेत्रं- गुदस्यार्धपञ्चमाङ्गुलावकाशे त्रिभागान्तरास्तिस्रो गुदवलयः क्षेत्रमिति; केचित्तु भूयांसमेव  देशमुपदिशन्त्यर्शसां- शिश्नमपत्यपथं  गलतालुमुखनासिकाकर्णाक्षिवर्त्मानि त्वक् चेति|
तदस्त्यधिमांसदेशतया, गुदवलिजानां त्वर्शांसीति सञ्ज्ञा तन्त्रेऽस्मिन्|
सर्वेषां चार्शसामधिष्ठानं- मेदो मांसं त्वक् च||६||

श्लोक 7

तत्र सहजान्यर्शांसि कानिचिदणूनि, कानिचिन्महान्ति,  कानिचिद्दीर्घाणि, कानिचिद्ध्रस्वानि, कानिचिद्वृत्तानि,  कानिचिद्विषमविसृतानि, कानिचिदन्तःकुटिलानि,  कानिचिद्बहिःकुटिलानि, कानिचिज्जटिलानि,  कानिचिदन्तर्मुखानि, यथास्वं दोषानुबन्धवर्णानि||७||

श्लोक 8

तैरुपहतो जन्मप्रभृति भवत्यतिकृशो विवर्णः क्षामो दीनः  प्रचुरविबद्धवातमूत्रपुरीषः शर्कराश्मरीमान्,  तथाऽनियतविबद्धमुक्तपक्वामशुष्कभिन्नवर्चा अन्तराऽन्तरा  श्वेतपाण्डुहरितपीतरक्तारुणतनुसान्द्रपिच्छिलकुणपगन्ध्याम- -पुरीषोपवेशी, नाभिबस्तिवङ्क्षणोद्देशे प्रचुरपरिकर्तिकान्वितः, सगुदशूलप्रवाहिकापरिहर्षप्रमेहप्रसक्तविष्टम्भान्त्रकूजोदावर्त- -हृदयेन्द्रियोपलेपः प्रचुरविबद्धतिक्ताम्लोद्गारः, सुदुर्बलः,  सुदुर्बलाग्निः, अल्पशुक्रः, क्रोधनो, दुःखोपचारशीलः,  कासश्वासतमकतृष्णाहृल्लासच्छर्द्यरोचकाविपाकपीनसक्षवथु- -परीतः, तैमिरिकः, शिरःशूली, क्षामभिन्नसन्नसक्तजर्जरस्वरः, कर्णरोगी, शूनपाणिपादवदनाक्षिकूटः, सज्वरः, साङ्गमर्दः,  सर्वपर्वास्थिशूली च, अन्तराऽन्तरा  पार्श्वकुक्षिबस्तिहृदयपृष्ठत्रिकग्रहोपतप्तः, प्रध्यानपरः,  परमालसश्चेति; जन्मप्रभृत्यस्य गुदजैरावृतो  मार्गोपरोधाद्वायुरपानः प्रत्यारोहन् समानव्यानप्राणोदानान्  पित्तश्लेष्माणौ च प्रकोपयति, एते सर्व एव प्रकुपिताः पञ्च  वायवः पित्तश्लेष्माणौ चार्शसमभिद्रवन्त एतान्  विकारानुपजनयन्ति; इत्युक्तानि सहजान्यर्शांसि||८||

श्लोक 9

अत ऊर्ध्वं जातस्योत्तरकालजानि व्याख्यास्यामः-गुरुमधुरशीताभिष्यन्दिविदाहिविरुद्धाजीर्णप्रमिताशनासा- -त्म्यभोजनाद्गव्यमात्स्यवाराहमाहिषाजाविकपिशितभक्षणात् कृशशुष्कपूतिमांसपैष्टिकपरमान्नक्षीरदधिमण्डतिलगुडविकृ- -तिसेवनान्माषयूषेक्षुरसपिण्याकपिण्डालुकशुष्कशाक-शुक्तलशुनकिलाटतक्रपिण्डकबिसमृणालशालूकक्रौञ्चादन- -कशेरुकशृङ्गाटकतरूटविरूढनवशूकशमी-धान्याममूलकोपयोगाद्गुरुफलशाकरागहरितकमर्दकवसा -शिरस्पदपर्युषितपूतिशीतसङ्कीर्णान्नाभ्यवहारान्मन्द-कातिक्रान्तमद्यपानाद्व्यापन्नगुरुसलिलपानादतिस्नेहपानादसं- -शोधनाद्बस्तिकर्मविभ्रमादव्यायामादव्यवायाद्दिवास्वप्नात्  सुखशयनासनस्थानसेवनाच्चोपहताग्नेर्मलोपचयो  भवत्यतिमात्रं,  तथोत्कटकविषमकठिनासनसेवनादुद्भ्रान्तयानोष्ट्रयानादति- -व्यवायाद्बस्तिनेत्रासम्यक्प्रणिधानाद्गुदक्षणनादभीक्ष्णं  शीताम्बुसंस्पर्शाच्चेललोष्टतृणादिघर्षणात् प्रततातिनिर्वाहणाद्वा- -तमूत्रपुरीषवेगोदीरणात् समुदीर्णवेगविनिग्रहात् स्त्रीणां  चामगर्भभ्रंशाद्गर्भोत्पीडनाद्विषमप्रसूतिभिश्च प्रकुपितो  वायुरपानस्तं मलमुपचितमधोगमासाद्य गुदवलिष्वाधत्ते,  ततस्तास्वर्शांसि प्रादुर्भवन्ति||९||

श्लोक 10

सर्षपमसूरमाषमुद्गमकुष्ठकयवकलायपिण्डिटिण्टिकेरकेबुक- -तिन्दुककर्कन्धुकाकणन्तिकाबिम्बीबदरकरीरोदुम्बर- खर्जूरजाम्बवगोस्तनाङ्गुष्ठकशेरुशृङ्गाटकशृङ्गीदक्षशिखिशु- -कतुण्डजिह्वापद्ममुकुलकर्णिकासंस्थानानि  सामान्याद्वातपित्तकफप्रबलानि||१०||

श्लोक 11-13

तेषामयं विशेषः- शुष्कम्लानकठिनपरुषरूक्षश्यावानि,  तीक्ष्णाग्राणि, वक्राणि, स्फुटितमुखानि, विषमविसृतानि,  शूलाक्षेपतोदस्फुरणचिमिचिमासंहर्षपरीतानि,  स्निग्धोष्णोपशयानि,  प्रवाहिकाध्मानशिश्नवृषणबस्तिवङ्क्षणहृद्ग्रहाङ्गमर्दहृदयद्रवप्र- -बलानि, प्रततविबद्धवातमूत्रवर्चांसि,  ऊरुकटीपृष्ठत्रिकपार्श्वकुक्षिबस्तिशूलशिरोऽभितापक्षवथूद्गार- -प्रतिश्यायकासोदावर्तायामशोषशोथ-मूर्च्छारोचकमुखवैरस्यतैमिर्यकण्डूनासाकर्णशङ्खशूलस्वरो- -पघातकराणि,  श्यावारुणपरुषनखनयनवदनत्वङ्मूत्रपुरीषस्य  वातोल्बणान्यर्शांसीति विद्यात्||११||

भवतश्चात्र-
कषायकटुतिक्तानि रूक्षशीतलघूनि च|
प्रमिताल्पाशनं तीक्ष्णमद्यमैथुनसेवनम्||१२||

लङ्घनं देशकालौ च शीतौ व्यायामकर्म च|
शोको वातातपस्पर्शो हेतुर्वातार्शसां मतः||१३||

श्लोक 14-16

मृदुशिथिलसुकुमाराण्यस्पर्शसहानि, रक्तपीतनीलकृष्णानि, स्वेदोपक्लेदबहुलानि, विस्रगन्धितनुपीतरक्तस्रावीणि ,  रुधिरवहानि, दाहकण्डूशूलनिस्तोदपाकवन्ति, शीतोपशयानि,सम्भिन्नपीतहरितवर्चांसि, पीतविस्रगन्धिप्रचुरविण्मूत्राणि,  पिपासाज्वरतमकसम्मोहभोजनद्वेषकराणि  पीतनखनयनत्वङ्मूत्रपुरीषस्य पित्तोल्बणान्यर्शांसीति विद्यात् ||१४||

भवतश्चात्र-
कटूष्णलवणक्षारव्यायामाग्न्यातपप्रभाः|
देशकालावशिशिरौ क्रोधो मद्यमसूयनम्||१५||

विदाहि तीक्ष्णमुष्णं च सर्वं पानान्नभेषजम्|
पित्तोल्बणानां विज्ञेयः प्रकोपे हेतुरर्शसाम्||१६||

श्लोक 17-19

तत्र यानि प्रमाणवन्ति, उपचितानि, श्लक्ष्णानि, स्पर्शसहानि , स्निग्धश्वेतपाण्डुपिच्छिलानि, स्तब्धानि, गुरूणि, स्तिमितानि,  सुप्तसुप्तानि, स्थिरश्वयथूनि, कण्डूबहुलानि,  बहुप्रततपिञ्जरश्वेतरक्तपिच्छास्रावीणि,  गुरुपिच्छिलश्वेतमूत्रपुरीषाणि, रूक्षोष्णोपशयानि,  प्रवाहिकातिमात्रोत्थानवङ्क्षणानाहवन्ति,  परिकर्तिकाहृल्लासनिष्ठीविकाकासारोचकप्रतिश्यायगौरव- -च्छर्दिमूत्रकृच्छ्रशोषशोथ-पाण्डुरोगशीतज्वराश्मरीशर्कराहृदयेन्द्रियोपलेपास्यमाधुर्यप्र- -मेहकराणि, दीर्घकालानुबन्धीनि,अतिमात्रमग्निमार्दवक्लैब्य- -कराणि, आमविकारप्रबलानि,  शुक्लनखनयनवदनत्वङ्मूत्रपुरीषस्य  श्लेष्मोल्बणान्यर्शांसीति विद्यात्||१७||

भवतश्चात्र-
मधुरस्निग्धशीतानि लवणाम्लगुरूणि च|
अव्यायामो दिवास्वप्नः शय्यासनसुखे रतिः||१८||

प्राग्वातसेवा शीतौ च देशकालावचिन्तनम्|
श्लैष्मिकाणां समुद्दिष्टमेतत् कारणमर्शसाम्||१९||

श्लोक 20

हेतुलक्षणसंसर्गाद्विद्याद्द्वन्द्वोल्बणानि च|
सर्वो हेतुस्त्रिदोषाणां सहजैर्लक्षणैः समम्||२०||

श्लोक 21-22

विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च|
कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविट्कता||२१||

ग्रहणीदोषपाण्ड्वर्तेराशङ्का चोदरस्य च|
पूर्वरूपाणि निर्दिष्टान्यर्शसामभिवृद्धये||२२||

श्लोक 23

अर्शांसि खलु जायन्ते नासन्निपतितैस्त्रिभिः|
दोषैर्दोषविशेषात्तु विशेषः कल्प्यतेऽर्शसाम्||२३||

श्लोक 24-25

पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रयम्|
सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवे||२४||

तस्मादर्शांसि दुःखानि बहुव्याधिकराणि च|
सर्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च||२५||

श्लोक 26-32

हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा|
शोथो हृत्पार्श्वशूलं च यस्यासाध्योऽर्शसो हि सः||२६||

हृत्पार्श्वशूलं सम्मोहश्छर्दिरङ्गस्य रुग् ज्वरः|
तृष्णा गुदस्य पाकश्च निहन्यर्गुदजातुरम्||२७||

सहजानि त्रिदोषाणि यानि चाभ्यन्तरां वलिम्|
जायन्तेऽर्शांसि संश्रित्य तान्यसाध्यानि निर्दिशेत्||२८||

शोषत्वादायुषस्तानि चतुष्पादसमन्विते|
याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा||२९||

द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च|
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च||३०||

बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च|
अर्शांसि सुखसाध्यानि न चिरोत्पाततानि च||३१||

तेषां प्रशमने यत्नमाशु कुर्याद्विचक्षणः|
तान्याशु हि गुदं बद्ध्वा कुर्युर्बद्धगुदोदरम्||३२||

श्लोक 33-37

तत्राहुरेके शस्त्रेण कर्तनं हितमर्शसाम्|
दाहं क्षारेण चाप्येके, दाहमेके तथाऽग्निना||३३||

अस्त्येतद्भूरितन्त्रेण धीमता दृष्टकर्मणा|
क्रियते त्रिविधं कर्म भ्रंशस्तत्र सुदारुणः||३४||

पुंस्त्वोपघातः श्वयथुर्गुदे वेगविनिग्रहः|
आध्मानं दारुणं शूलं व्यथा रक्तातिवर्तनम्||३५||

पुनर्विरोहो रूढानां क्लेदो भ्रंशो गुदस्य च|
मरणं वा भवेच्छीघ्रं शस्त्रक्षाराग्निविभ्रमात्||३६||

यत्तु कर्म सुखोपायमल्पभ्रंशमदारुणम्|
तदर्शसां प्रवक्ष्यामि समूलानां विवृत्तये||३७||

श्लोक 38-61

वातश्लेष्मोल्बणान्याहुः शुष्काण्यर्शांसि तद्विदः|
प्रस्रावीणि तथाऽऽर्द्राणि रक्तपित्तोल्बणानि च||३८||

तत्र शुष्कार्शसां पूर्वं प्रवक्ष्यामि चिकित्सितम्|
स्तब्धानि स्वेदयेत् पूर्वं शोफशूलान्वितानि च||३९||

चित्रकक्षारबिल्वानां तैलेनाभ्यज्य बुद्धिमान्|
यवमाषकुलत्थानां पुलाकानां च पोट्टलैः||४०||

गोखराश्वशकृत्पिण्डैस्तिलकल्कैस्तुषैस्तथा|
वचाशताह्वापिण्डैर्वा सुखोष्णैः स्नेहसंयुतैः||४१||

शक्तूनां पिण्डिकाभिर्वा स्निग्धानां तैलसर्पिषा|
शुष्कमूलकपिण्डैर्वा पिण्डैर्वा कार्ष्णगन्धिकैः||४२||

रास्नापिण्डैः सुखोष्णैर्वा सस्नेहैर्हापुषैरपि|
इष्टकस्य खराह्वायाः शाकैर्गृञ्जनकस्य वा||४३||

अभ्यज्य कुष्ठतैलेन स्वेदयेत् पोट्टलीकृतैः|
वृषार्कैरण्डबिल्वानां पत्रोत्क्वाथैश्च सेचयेत्||४४||

मूलकत्रिफलार्काणां वेणूनां वरुणस्य च|
अग्निमन्थस्य शिग्रोश्च पत्राण्यश्मन्तकस्य च||४५||

जलेनोत्क्वाथ्य शूलार्तं स्वभ्यक्तमवगाहयेत्|
कोलोत्क्वाथेऽथवा कोष्णे सौवीरकतुषोदके||४६||

बिल्वक्वाथेऽथवा तक्रे दधिमण्डाम्लकाञ्जिके|
गोमूत्रे वा सुखोष्णे तं स्वभ्यक्तमवगाहयेत्||४७||

कृष्णसर्पवराहोष्ट्रजतुकावृषदंशजाम्|
वसामभ्यञ्जने दद्याद्धूपनं चार्शसां हितम्||४८||

नृकेशाः सर्पनिर्मोको वृषदंशस्य चर्म च|
अर्कमूलं शमीपत्रमर्शोभ्यो धूपनं हितम्||४९||

तुम्बुरूणि विडङ्गानि देवदार्वक्षता घृतम्|
बृहती चाश्वगन्धा च पिप्पल्यः सुरसा घृतम्||५०||

वराहवृषविट् चैव धूपनं सक्तवो घृतम्|
कुञ्जरस्य पुरीषं तु घृतं सर्जरसस्तथा||५१||

हरिद्राचूर्णसंयुक्तं सुधाक्षीरं प्रलेपनम्|
गोपित्तपिष्टाः पिप्पल्यः सहरिद्राः प्रलेपनम्||५२||

शिरीषबीजं कुष्ठं च पिप्पल्यः सैन्धवं गुडः|
अर्कक्षीरं सुधाक्षीरं त्रिफला च प्रलेपनम्||५३||

पिप्पल्यश्चित्रकः श्यामा किण्वं मदनतण्डुलाः|
प्रलेपः कुक्कुटशकृद्धरिद्रागुडसंयुतः||५४||

दन्ती श्यामाऽमृतासङ्गः पारावतशकृद्गुडः|
प्रलेपः स्याद्गजास्थीनि निम्बो भल्लातकानि च||५५||

प्रलेपः स्यादलं कोष्णं वासन्तकवसायुतम्|
शूलश्वयथुहृद्युक्तं चुलूकीवसयाऽथवा||५६||

आर्कं पयः सुधाकाण्डं कटुकालाबुपल्लवाः|
करञ्जो बस्तमूत्रं च लेपनं श्रेष्ठमर्शसाम्||५७||

अभ्यङ्गाद्याः प्रदेहान्ता य एते परिकीर्तिताः|
स्तम्भश्वयथुकण्ड्वर्तिशमनास्तेऽर्शसां मताः||५८||

प्रदेहान्तैरुपक्रान्तान्यर्शांसि प्रस्रवन्ति हि|
सञ्चितं दुष्टरुधिरं ततः सम्पद्यते सुखी||५९||

शीतोष्णास्निग्धरूक्षैर्हि न व्याधिरुपशाम्यति|
रक्ते दुष्टे भिषक् तस्माद्रक्तमेवावसेचयेत्||६०||

जलौकोभिस्तथा शस्त्रैः सूचीभिर्वा पुनः पुनः|
अवर्तमानं रुधिरं रक्तार्शोभ्यः प्रवाहयेत्||६१||

श्लोक 62-71

गुदश्वयथुशूलार्तं मन्दाग्निं पाययेत्तु तम्|
त्र्यूषणं पिप्पलीमूलं पाठां हिङ्गु सचित्रकम्||६२||

सौवर्चलं पुष्कराख्यमजाजीं बिल्वपेषिकाम्|
बिडं यवानीं हपुषां विडङ्गं सैन्धवं वचाम्||६३||

तिन्तिडीकं च मण्डेन मद्येनोष्णोदकेन वा|
तथाऽर्शोग्रहणीदोषशूलानाहाद्विमुच्यते||६४||

पाचनं पाययेद्वा तद्यदुक्तं ह्यातिसारिके|
सगुडामभयां वाऽपि प्राशयेत् पौर्वभक्तिकीम्||६५||

पाययेद्वा त्रिवृच्चूर्णं त्रिफलारससंयुतम्|
हृते गुदाश्रये दोषे गच्छन्त्यर्शांसि सङ्क्षयम्||६६||

गोमूत्राध्युषितां दद्यात् सगुडां वा हरीतकीम्|
हरीतकीं तक्रयुतां त्रिफलां वा प्रयोजयेत्||६७||

सनागरं चित्रकं वा सीधुयुक्तं प्रयोजयेत्|
दापयेच्चव्ययुक्तं वा सीधुं साजाजिचित्रकम्||६८||

सुरां सहपुषापाठां दद्यात् सौवर्चलान्विताम्|
दधित्थबिल्वसंयुक्तं युक्तं वा चव्यचित्रकैः||६९||

भल्लातकयुतं वाऽपि प्रदद्यात्तक्रतर्पणम्|
बिल्वनागरयुक्तं वा यवान्या चित्रकेण च||७०||

चित्रकं हपुषां हिङ्गुं दद्याद्वा तक्रसंयुतम्|
पञ्चकोलयुतं वाऽपि तक्रमस्मै प्रदापयेत्||७१||

श्लोक 72-75

हपुषां कुञ्चिकां धान्यमजाजीं कारवीं शटीम्|
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्||७२||

यवानीं चाजमोदां च चूर्णितं तक्रसंयुतम्|
मन्दाम्लकटुकं विद्वान् स्थापयेद्धृतभाजने||७३||

व्यक्ताम्लकटुकं जातं तक्रारिष्टं मुखप्रियम्|
प्रपिबेन्मात्रया कालेष्वन्नस्य तृषितस्त्रिषु||७४||

दीपनं रोचनं वर्ण्यं कफवातानुलोमनम्|
गुदश्वयथुकण्ड्वर्तिनाशनं बलवर्धनम्||७५||
इति तक्रारिष्टः|

श्लोक 76-88

त्वचं चित्रकमूलस्य पिष्ट्वा कुम्भं प्रलेपयेत्|
तक्रं वा दधि वा तत्र जातमर्शोहरं पिबेत्||७६||

वातश्लेष्मार्शसां तक्रात् परं नास्तीह भेषजम्|
तत् प्रयोज्यं यथादोषं सस्नेहं रूक्षमेव वा||७७||

सप्ताहं वा दशाहं वा पक्षं मासमथापि वा|
बलकालविशेषज्ञो भिषक् तक्रं प्रयोजयेत्||७८||

अत्यर्थमृदुकायाग्नेस्तक्रमेवावचारयेत्|
सायं वा लाजशक्तूनां दद्यात्तक्रावलेहिकाम्||७९||

जीर्णे तक्रे प्रदद्याद्वा तक्रपेयां ससैन्धवाम्|
तक्रानुपानं सस्नेहं तक्रौदनमतः परम्||८०||

यूषैर्मांसरसैर्वाऽपि भोजयेत्तक्रसंयुतैः|
यूषै [] रसेन वाऽप्यूर्ध्वं तक्रसिद्धेन भोजयेत्||८१||

कालक्रमज्ञः सहसा न च तक्रं निवर्तयेत्|
तक्रप्रयोगो मासान्तः क्रमेणोपरमो हितः||८२||

अपकर्षो यथोत्कर्षो न त्वन्नादपकृष्यते|
शक्त्यागमनरक्षार्थं दार्ढ्यार्थमनलस्य च||८३||

बलोपचयवर्णार्थमेष निर्दिश्यते क्रमः|
रूक्षमर्धोद्धृतस्नेहं यतश्चानुद्धृतं घृतम्||८४||

तक्रं दोषाग्निबलवित्त्रिविधं तत् प्रयोजयेत्|
हतानि न विरोहन्ति तक्रेण गुदजानि तु||८५||

भूमावपि निषिक्तं तद्दहेत्तक्रं तृणोलुपम्|
किं पुनर्दीप्तकायाग्नेः शुष्काण्यर्शांसि देहिनः||८६||

स्रोतःसु तक्रशुद्धेषु रसः सम्यगुपैति यः|
तेन पुष्टिर्बलं वर्णः प्रहर्षश्चोपजायते||८७||

वातश्लेष्मविकाराणां शतं चापि निवर्तते|
नास्ति तक्रात् परं किञ्चिदौषधं कफवातजे||८८||

श्लोक 89-96

पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्|
शृङ्गवेरमजाजीं च कारवीं धान्यतुम्बुरु||८९||

बिल्वं कर्कटकं पाठां पिष्ट्वा पेयां विपाचयेत्|
फलाम्लां यमकैर्भृष्टां तां दद्याद्गुदजापहाम्||९०||

एतैश्चैव खडान् कुर्यादेतैश्च विपचेज्जलम्|
एतैश्चैव घृतं साध्यमर्शसां विनिवृत्तये||९१||

शटीपलाशसिद्धां वा पिप्पल्या नागरेण वा|
दद्याद्यवागूं तक्राम्लां मरिचैरवचूर्णिताम्||९२||

शुष्कमूलकयूषं वा यूषं कौलत्थमेव वा|
दधित्थबिल्वयूषं वा सकुलत्थमकुष्ठकम्||९३||

छागलं वा रसं दद्याद्यूषैरेभिर्विमिश्रितम्|
लावादीनां फलाम्लं वा सतक्रं ग्राहिभिर्युतम्||९४||

रक्तशालिर्महाशालिः कलमो लाङ्गलः सितः|
शारदः षष्टिकश्चैव स्यादन्नविधिरर्शसाम्||९५||

इत्युक्तो भिन्नशकृतामर्शसां च क्रियाक्रमः|९६|

श्लोक 96-102

येऽत्यर्थं गाढशकृतस्तेषां वक्ष्यामि भेषजम्||९६||

सस्नेहैः शक्तुभिर्युक्तां प्रसन्नां लवणीकृताम्|
दद्यान्मत्स्यण्डिकां पूर्वं भक्षयित्वा सनागराम्||९७||

गुडं सनागरं पाठां फलाम्लं पाययेच्च तम्|
गुडं घृतयवक्षारयुक्तं वाऽपि प्रयोजयेत्||९८||

यवानीं नागरं पाठां दाडिमस्य रसं गुडम्|
सतक्रलवणं दद्याद्वातवर्चोऽनुलोमनम्||९९||

दुःस्पर्शकेन बिल्वेन यवान्या नागरेण वा|
एकैकेनापि संयुक्ता पाठा हन्त्यर्शसां रुजम्||१००||

प्राग्भक्तं यमके भृष्टान् सक्तुभिश्चावचूर्णितान्|
करञ्जपल्लवान् दद्याद्वातर्चोऽनुलोमनान्||१०१||

मदिरां वा सलवणां सीधुं सौवीरकं तथा|
गुडनागरसंयुक्तं पिबेद्वा पौर्वभक्तिकम्||१०२||

श्लोक 103-118

पिप्पलीनागरक्षारकारवीधान्यजीरकैः|
फाणितेन च संयोज्य फलाम्लं दापयेद्घृतम्||१०३||

पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली|
शृङ्गवेरयवक्षारौ तैः सिद्धं वा पिबेद्घृतम्||१०४||

चव्यचित्रकसिद्धं वा गुडक्षारसमन्वितम्|
पिप्पलीमूलसिद्धं वा सगुडक्षारनागरम् ||१०५||

पिप्पलीपिप्पलीमूलदधिदाडिमधान्यकैः |
सिद्धं सर्पिर्विधातव्यं वातवर्चोविबन्धनुत्||१०६||

चव्यं त्रिकटुकं पाठां क्षारं कुस्तुम्बुरूणि च|
यवानीं पिप्पलीमूलमुभे च विडसैन्धवे||१०७||

चित्रकं बिल्वमभयां पिष्ट्वा सर्पिर्विपाचयेत्|
शकृद्वातानुलोम्यार्थं जाते दध्नि चतुर्गुणे||१०८||

प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम्|
गुदवङ्क्षणशूलं च घृतमेतद्व्यपोहति||१०९||

नागरं पिप्पलीमूलं चित्रको हस्तिपिप्पली|
श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका||११०||

चाङ्गेरीस्वरसे सर्पिः कल्कैरेतैर्विपाचयेत्|
चतुर्गुणेन दध्ना च तद्घृतं कफवातनुत्||१११||

अर्शांसि ग्रहणीदोषं मूत्रकृच्छ्रं प्रवाहिकाम्|
गुदभ्रंशार्तिमानाहं घृतमेतद्व्यपोहति||११२||

पिप्पलीं नागरं पाठां श्वदंष्ट्रां च पृथक् पृथक्|
भागांस्त्रिपलिकान् कृत्वा कषायमुपकल्पयेत्||११३||

गण्डीरं पिप्पलीमूलं व्योषं चव्यं च चित्रकम्|
पिष्ट्वा कषाये विनयेत् पूते द्विपलिकं भिषक्||११४||

पलानि सर्पिषस्तस्मिंश्चत्वारिंशत् प्रदापयेत्|
चाङ्गेरीस्वरसं तुल्यं सर्पिषा दधि षड्गुणम्||११५||

मृद्वग्निना ततः साध्यं सिद्धं सर्पिर्निधापयेत्|
तदाहारे विधातव्यं पाने प्रायोगिके विधौ||११६||

ग्रहण्यर्शोविकारघ्नं गुल्महृद्रोगनाशनम्|
शोथप्लीहोदरानाहमूत्रकृच्छ्रज्वरापहम्||११७||

कासहिक्कारुचिश्वाससूदनं पार्श्वशूलनुत्|
बलपुष्टिकरं वर्ण्यमग्निसन्दीपनं परम्||११८||

श्लोक 119-127

सगुडां पिप्पलीयुक्तां घृतभृष्टां हरीतकीम्|
त्रिवृद्दन्तीयुतां वाऽपि भक्षयेदानुलोमिकीम्||११९||

विड्वातकफपित्तानामानुलोम्येऽथ निर्वृते|
गुदेऽर्शांसि प्रशाम्यन्ति पावकश्चाभिवर्धते||१२०||

बर्हितित्तिरिलावानां रसानम्लान् सुसंस्कृतान्|
दक्षाणां वर्तकानां च दद्याद्विड्वातसङ्ग्रहे||१२१||

त्रिवृद्दन्तीपलाशानां चाङ्गेर्याश्चित्रकस्य च|
यमके भर्जितं दद्याच्छाकं दधिसमन्वितम्||१२२||

उपोदिकां तण्डुलीयं वीरां वास्तुकपल्लवान्|
सुवर्चलां सलोणीकां यवशाकमवल्गुजम्||१२३||

काकमाचीं रुहापत्रं महापत्रं तथाऽम्लिकाम्|
जीवन्तीं शटिशाकं च शाकं गृञ्जनकस्य च||१२४||

दधिदाडिमसिद्धानि यमके भर्जितानि च|
धान्यनागरयुक्तानि शाकान्येतानि दापयेत्||१२५||

गोधालोपाकमार्जारश्वाविदुष्ट्रगवामपि|
कूर्मशल्लकयोश्चैव साधयेच्छाकवद्रसान्||१२६||

रक्तशाल्योदनं दद्याद्रसैस्तैर्वातशान्तये|१२७|

श्लोक 127-129

ज्ञात्वा वातोल्बणं रूक्षं मन्दाग्निं गुदजातुरम्||१२७||

मदिरां शार्करं जातं सीधुं तक्रं तुषोदकम्|
अरिष्टं दधिमण्डं वा शृतं वा शिशिरं जलम्||१२८||

कण्टकार्या शृतं वाऽपि शृतं नागरधान्यकैः|
अनुपानं भिषग्दद्याद्वातवर्चोऽनुलोमनम्||१२९||

श्लोक 130-134

उदावर्तपरीता ये ये चात्यर्थं विरूक्षिताः|
विलोमवाताः शूलार्तास्तेष्विष्टमनुवासनम्||१३०||

पिप्पलीं मदनं बिल्वं शताह्वां मधुकं वचाम्|
कुष्ठं शटीं पुष्कराख्यं चित्रकं देवदारु च||१३१||

पिष्ट्वा तैलं विपक्तव्यं पयसा द्विगुणेन च|
अर्शसां मूढवातानां तच्छ्रेष्ठमनुवासनम्||१३२||

गुदनिःसरणं शूलं मूत्रकृच्छ्रं प्रवाहिकाम्|
कट्यूरुपृष्ठदौर्बल्यमानाहं वङ्क्षणाश्रयम्||१३३||

पिच्छास्रावं गुदे शोफं वातवर्चोविनिग्रहम्|
उत्थानं बहुशो यच्च जयेत्तच्चानुवासनात्||१३४||

श्लोक 135-136

आनुवासनिकैः पिष्टैः सुखोष्णैः स्नेहसंयुतैः|
दार्वन्तैः स्तब्धशूलानि गुदजानि प्रलेपयेत्||१३५||

दिग्धास्तैः प्रस्रवन्त्याशु श्लेष्मपिच्छां सशोणिताम्|
कण्डूः स्तम्भः सरुक् शोफः स्रुतानां विनिवर्तते||१३६||

श्लोक 137

निरूहं वा प्रयुञ्जीत सक्षीरं दाशमूलिकम्|
समूत्रस्नेहलवणं कल्कैर्युक्तं फलादिभिः||१३७||

श्लोक 138-169

हरीतकीनां प्रस्थार्धं प्रस्थमामलकस्य च|
स्यात् कपित्थाद्दशपलं ततोऽर्धा चेन्द्रवारुणी||१३८||

विडङ्गं पिप्पली लोध्रं मरिचं सैलवालुकम्|
द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत्||१३९||

द्रोणशेषे रसे तस्मिन् पूते शीते समावपेत्|
गुडस्य द्विशतं तिष्ठेत्तत् पक्षं घृतभाजने||१४०||

पक्षादूर्ध्वं भवेत् पेया ततो मात्रा यथाबलम्|
अस्याभ्यासादरिष्टस्य गुदजा यान्ति सङ्क्षयम्||१४१||

ग्रहणीपाण्डुहृद्रोगप्लीहगुल्मोदरापहः|
कुष्ठशोफारुचिहरो बलवर्णाग्निवर्धनः||१४२||

सिद्धोऽयमभयारिष्टः कामलाश्वित्रनाशनः|
कृमिग्रन्थ्यर्बुदव्यङ्गराजयक्ष्मज्वरान्तकृत्||१४३||

इत्यभयारिष्टः|
दन्तीचित्रकमूलानामुभयोः पञ्चमूलयोः|
भागान् पलांशानापोथ्य जलद्रोणे विपाचयेत्||१४४||

त्रिपलं त्रिफलायाश्च दलानां तत्र दापयेत्|
रसे चतुर्थशेषे तु पूते शीते समावपेत्||१४५||

तुलां गुडस्य तत्तिष्ठेन्मासार्धं घृतभाजने|
तन्मात्रया पिबन्नित्यमर्शोभ्यो विप्रमुच्यते||१४६||

ग्रहणीपाण्डुरोगघ्नं वातवर्चोऽनुलोमनम्|
दीपनं चारुचिघ्नं च दन्त्यरिष्टमिमं विदुः||१४७||

इति दन्त्यरिष्टः|
हरीतकीफलप्रस्थं प्रस्थमामलकस्य च|
विशालाया दधित्थस्य पाठाचित्रकमूलयोः||१४८||

द्वे द्वे पले समापोथ्य द्विद्रोणे साधयेदपाम्|
पादावशेषे पूते च रसे तस्मिन् प्रदापयेत्||१४९||

गुडस्यैकां तुलां वैद्यस्तत् स्थाप्यं घृतभाजने|
पक्षस्थितं पिबेदेनं ग्रहण्यर्शोविकारवान्||१५०||

हृत्पाण्डुरोगं प्लीहानं कामलां विषमज्वरम्|
वर्चोमूत्रानिलकृतान् विबन्धानग्निमार्दवम्||१५१||

कासं गुल्ममुदावर्तं फलारिष्टो व्यपोहति|
अग्निसन्दीपनो ह्येष कृष्णात्रेयेण भाषितः||१५२||

इति फलारिष्टः|
दुरालभायाः प्रस्थः स्याच्चित्रकस्य वृषस्य च|
पथ्यामलकयोश्चैव पाठाया नागरस्य च||१५३||

दन्त्याश्च द्विपलान् भागाञ्जलद्रोणे विपाचयेत्|
पादावशेषे पूते [] च सुशीते शर्कराशतम्||१५४||

प्रक्षिप्य स्थापयेत् कुम्भे मासार्धं घृतभाविते|
प्रलिप्ते पिप्पलीचव्यप्रियङ्गुक्षौद्रसर्पिषा||१५५||

तस्य मात्रां पिबेत् काले शार्करस्य यथाबलम्|
अर्शांसि ग्रहणीदोषमुदावर्तमरोचकम्||१५६||

शकृन्मूत्रानिलोद्गारविबन्धानग्निमार्दवम्|
हृद्रोगं पाण्डुरोगं च सर्वमेतेन साधयेत्||१५७||

इति द्वितीयफलारिष्टः |
नवस्यामलकस्यैकां कुर्याज्जर्जरितां तुलाम्|
कुडवांशाश्च पिप्पल्यो विडङ्गं मरिचं तथा||१५८||

पाठां च पिप्पलीमूलं क्रमुकं चव्यचित्रकौ|
मञ्जिष्ठैल्वालुकं लोध्रं पलिकानुपकल्पयेत्||१५९||

कुष्ठं दारुहरिद्रां च सुराह्वं सारिवाद्वयम्|
इन्द्राह्वं भद्रमुस्तं च कुर्यादर्धपलोन्मितम्||१६०||

चत्वारि नागपुष्पस्य पलान्यभिनवस्य च|
द्रोणाभ्यामम्भसो द्वाभ्यां साधयित्वाऽवतारयेत्||१६१||

पादावशेषे पूते च शीते तस्मिन् प्रदापयेत्|
मृद्वीकाद्व्याढकरसं शीतं निर्यूहसम्मितम्||१६२||

शर्करायाश्च भिन्नाया दद्याद्द्विगुणितां तुलाम्|
कुसुमस्य रसस्यैकमर्धप्रस्थं नवस्य च||१६३||

त्वगेलाप्लवपत्राम्बुसेव्यक्रमुककेशरान्|
चूर्णयित्वा तु मतिमान् कार्षिकानत्र दापयेत्||१६४||

तत् सर्वं स्थापयेत् पक्षं सुचौक्षे घृतभाजने|
प्रलिप्ते सर्पिषा किञ्चिच्छर्करागुरुधूपिते||१६५||

पक्षादूर्ध्वमरिष्टोऽयं कनको नाम विश्रुतः|
पेयः स्वादुरसो हृद्यः प्रयोगाद्भक्तरोचनः||१६६||

अर्शांसि ग्रहणीदोषमानाहमुदरं ज्वरम्|
हृद्रोगं पाण्डुतां शोथं गुल्मं वर्चोविनिग्रहम्||१६७||

कासं श्लेष्मामयांश्चोग्रान् सर्वानेवापकर्षति|
वलीपलितखालित्यं दोषजं च व्यपोहति||१६८||

इति कनकारिष्टः|
पत्रभङ्गोदकैः शौचं कुर्यादुष्णेन वाऽम्भसा|
इति शुष्कार्शसां सिद्धमुक्तमेतच्चिकित्सितम्||१६९||

श्लोक 170-184

चिकित्सितमिदं सिद्धं स्राविणां शृण्वतः परम् |
तत्रानुबन्धो द्विविधः श्लेष्मणो मारुतस्य च||१७०||

विट् श्यावं कठिनं रूक्षं चाधो वायुर्न वर्तते|
तनु चारुणवर्णं च फेनिलं चासृगर्शसाम्||१७१||

कट्यूरुगुदशूलं च दौर्बल्यं यदि चाधिकम्|
तत्रानुबन्धो वातस्य हेतुर्यदि च रूक्षणम्||१७२||

शिथिलं श्वेतपीतं च विट् स्निग्धं गुरु शीतलम्|
यद्यर्शसां घनं चासृक् तन्तुमत् पाण्डु पिच्छिलम्||१७३||

गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम्|
श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः||१७४||

स्निग्धशीतं हितं वाते रूक्षशीतं कफानुगे|
चिकित्सितमिदं तस्मात् सम्प्रधार्य प्रयोजयेत्||१७५||

पित्तश्लेष्माधिकं मत्वा शोधनेनोपपादयेत्|
स्रवणं चाप्युपेक्षेत लङ्घनैर्वा समाचरेत्||१७६||

प्रवृत्तमादावर्शोभ्यो यो निगृह्णात्यबुद्धिमान्|
शोणितं दोषमनिलं तद्रोगाञ्जनयेद्बहून्||१७७||

रक्तपित्तं ज्वरं तृष्णामग्निसादमरोचकम्|
कामलां श्वयथुं शूलं गुदवङ्क्षणसंश्रयम्||१७८||

कण्ड्वरुःकोठपिडकाः कुष्ठं पाण्ड्वाह्वयं गदम्|
वातमूत्रपुरीषाणां विबन्धं शिरसो रुजम्||१७९||

स्तैमित्यं गुरुगात्रत्वं तथाऽन्यान् रक्तजान् गदान्|
तस्मात् स्रुते दुष्टरक्ते रक्तसङ्ग्रहणं हितम्||१८०||

हेतुलक्षणकालज्ञो बलशोणितवर्णवित्|
कालं तावदुपेक्षेत यावन्नात्ययमाप्नुयात्||१८१||

अग्निसन्दीपनार्थं च रक्तसङ्ग्रहणाय च|
दोषाणां पाचनार्थं च परं तिक्तैरुपाचरेत्||१८२||

यत्तु प्रक्षीणदोषस्य रक्तं वातोल्बणस्य च|
वर्तते स्नेहसाध्यं तत् पानाभ्यङ्गानुवासनैः||१८३||

यत्तु पित्तोल्बणं रक्तं घर्मकाले प्रवर्तते|
स्तम्भनीयं तदेकान्तान्न चेद्वातकफानुगम्||१८४||

श्लोक 185-192

कुटजत्वङ्निर्यूहः सनागरः स्निग्धरक्तसङ्ग्रहणः|
त्वग्दाडिमस्य तद्वत् सनागरश्चन्दनरसश्च||१८५||

चन्दनकिराततिक्तकधन्वयवासाः सनागराः क्वथिताः|
रक्तार्शसां प्रशमना दार्वीत्वगुशीरनिम्बाश्च||१८६||

सातिविषा कुटजत्वक् फलं च सरसाञ्जनं मधुयुतानि|
रक्तापहानि दद्यात् पिपासवे तण्डुलजलेन||१८७||

कुटजत्वचो विपाच्यं पलशतमार्द्रं महेन्द्रसलिलेन|
यावत्स्याद्गतरसं तद्द्रव्यं पूतो रसस्ततो ग्राह्यः||१८८||

मोचरसः ससमङ्गः फलिनी च समांशिकैस्त्रिभिस्तैश्च |
वत्सकबीजं तुल्यं चूर्णितमत्र प्रदातव्यम्||१८९||

पूतोत्क्वथितः सान्द्रः स रसो दर्वीप्रलेपनो ग्राह्यः|
मात्राकालोपहिता रसक्रियैषा जयत्यसृक्स्रावम्||१९०||

छगलीपयसा पीता पेयामण्डेन वा यथाग्निबलम्|
जीर्णौषधश्च शालीन् पयसा छागेन भुञ्जीत||१९१||

रक्तार्शांस्यतिसारं रक्तं सासृग्रुजो निहन्त्याशु|
बलवच्च रक्तपित्तं रसक्रियैषा जयत्युभयभागम् ||१९२||
इति कुटजादिरसक्रिया|

श्लोक 193-198

नीलोत्पलं समङ्गा मोचरसश्चन्दनं तिला लोध्रम्|
पीत्वा च्छगलीपयसा भोज्यं पयसैव शाल्यन्नम्||१९३||

छागलिपयः प्रयुक्तं निहन्ति रक्तं सवास्तुकरसं च|
धन्वविहङ्गमृगाणां रसो निरम्लः कदम्लो वा||१९४||

पाठा वत्सकबीजं रसाञ्जनं नागरं यवान्यश्च|
बिल्वमिति चार्शसैश्चूर्णितानि पेयानि शूलेषु||१९५||

दार्वी किराततिक्तं मुस्तं दुःस्पर्शकश्च रुधिरघ्नम्|
रक्तेऽतिवर्तमाने शूले च घृतं विधातव्यम्||१९६||

कुटजफलवल्ककेशरनीलोत्पललोध्रधातकीकल्कैः|
सिद्धं घृतं विधेयं शूले रक्तार्शसां भिषजा||१९७||

सर्पिः सदाडिमरसं सयावशूकं शृतं जयत्याशु|
रक्तं सशूलमथवा निदिग्धिकादुग्धिकासिद्धम्||१९८||

श्लोक 199-211

लाजापेया पीता सचुक्रिका केशरोत्पलैः सिद्धा|
हन्त्याश्वस्रस्रावं तथा बलापृश्निपर्णीभ्याम्||१९९||

ह्रीवेरबिल्वनागरनिर्यूहे साधितां सनवनीताम्|
वृक्षाम्लदाडिमाम्लामम्लीकाम्लां सकोलाम्लाम्||२००||

गृञ्जनकसुरासिद्धां दद्याद्यमकेन भर्जितां पेयाम्|
रक्तातिसारशूलप्रवाहिकाशोथनिग्रहणीम्||२०१||

काश्मर्यामलकानां सकर्बुदारान् फलाम्लांश्च|
गृञ्जनकशाल्मलीनां क्षीरिण्याश्चुक्रिकायाश्च||२०२||

न्यग्रोधशुङ्गकानां खण्डांस्तथा कोविदारपुष्पाणाम्|
दध्नः सरेण सिद्धान् दद्याद्रक्ते प्रवृत्तेऽति||२०३||

सिद्धं पलाण्डुशाकं तक्रेणोपोदिकां सबदराम्लाम्|
रुधिरस्रवे प्रदद्यान्मसूरसूपं च तक्राम्लम्||२०४||

पयसा शृतेन यूषैर्मसूरमुद्गाढकीमकुष्ठानाम् |
भोजनमद्यादम्लैः शालिश्यामाककोद्रवजम्||२०५||

शशहरिणलावमांसैः कपिञ्जलैणेयकैः सुसिद्धैश्च|
भोजनमद्यादम्लैर्मधुरैरीषत् समरिचैर्वा||२०६||

दक्षशिखितित्तिरिरसैर्द्विककुदलोपाकजैश्च मधुराम्लैः|
अद्याद्रसैरतिवहेष्वर्शःस्वनिलोल्बणशरीरः||२०७||

रसखडयूषयवागूसंयोगतः केवलोऽथवा जयति|
रक्तमतिवर्तमानं वातं च पलाण्डुरुपयुक्तः||२०८||

छागान्तराधि तरुणं सरुधिरमुपसाधितं बहुपलाण्डु|
व्यत्यासान्मधुराम्लं विट्शोणितसङ्क्षये देयम्||२०९||

नवनीततिलाभ्यासात् केशरनवनीतशर्कराभ्यासात्|
दधिसरमथिताभ्यासादर्शांस्यपयान्ति रक्तानि||२१०||

नवनीतघृतं छागं मांसं च सषष्टिकः शालिः|
तरुणश्च सुरामण्डस्तरुणी च सुरा निहन्त्यस्रम्||२११||

श्लोक 212-221

प्रायेण वातबहुलान्यर्शांसि भवन्त्यतिस्रुते रक्ते|
दुष्टेऽपि च कफपित्ते तस्मादनिलोऽधिको ज्ञेयः||२१२||

दृष्ट्वा तु रक्तपित्तं प्रबलं कफवातलिङ्गमल्पं च|
शीता क्रिया प्रयोज्या यथेरिता वक्ष्यते चान्या ||२१३||

मधुकं सपञ्चवल्कं बदरीत्वगुदुम्बरं धवपटोलम्|
परिषेचने विदध्याद्वृषककुमयवासनिम्बांश्च||२१४||

रक्तेऽतिवर्तमाने दाहे क्लेदेऽवगाहयेच्चापि|
मधुकमृणालपद्मकचन्दनकुशकाशनिष्क्वाथे||२१५||

इक्षुरसमधुकवेतसनिर्यूहे शीतले पयसि वा तम्|
अवगाहयेत् प्रदिग्धं पूर्वं शिशिरेण तैलेन||२१६||

दत्त्वा घृतं सशर्करमुपस्थदेशे गुदे त्रिकदेशे च|
शिशिरजलस्पर्शसुखा धारा प्रस्तम्भनी योज्या||२१७||

कदलीदलैरभिनवैः पुष्करपत्रैश्च शीतजलसिक्तैः|
प्रच्छादनं मुहुर्मुहुरिष्टं पद्मोत्पलदलैश्च||२१८||

दुर्वाघृतप्रदेहः शतधौतसहस्रधौतमपि सर्पिः|
व्यजनपवनः सुशीतो रक्तस्रावं जयत्याशु||२१९||

समङ्गामधुकाभ्यां तिलमधुकाभ्यां रसाञ्जनवृताभ्याम्|
सर्जरसघृताभ्यां वा निम्बघृताभ्यां मधुघृताभ्यां वा||२२०||

दार्वीत्वक्सर्पिर्भ्यां सचन्दनाभ्यामथोत्पलघृताभ्याम्|
दाहे क्लेदे च गुदभ्रंशे गुदजाः प्रतिसारणीयाः स्युः||२२१||

श्लोक 222-223

आभिः क्रियाभिरथवा शीताभिर्यस्य तिष्ठति न रक्तम्|
तं काले स्निग्धोष्णैर्मांसरसैस्तर्पयेन्मतिमान्||२२२||

अवपीडकसर्पिर्भिः कोष्णैर्घृततैलिकैस्तथाऽभ्यङ्गैः|
क्षीरघृततैलसेकैः कोष्णैस्तमुपाचरेदाशु||२२३||

श्लोक 224-229

कोष्णेन वातप्रबले घृतमण्डेनानुवासयेच्छीघ्रम्|
पिच्छाबस्तिं दद्यात् काले तस्याथवा सिद्धम्||२२४||

यवासकुशकाशानं मूलं पुष्पं च शाल्मलम्|
न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः||२२५||

त्रिप्रस्थं सलिलस्यैतत् क्षीरप्रस्थं च साधयेत्|
क्षीरशेषं कषायं च पूतं कल्कैर्विमिश्रयेत्||२२६||

कल्काः शाल्मलिनिर्याससमङ्गाचन्दनोत्पलम्|
वत्सकस्य च बीजानि प्रियङ्गुः पद्मकेशरम्||२२७||

पिच्छाबस्तिरयं सिद्धः सघृतक्षौद्रशर्करः|
प्रवाहिकागुदभ्रंशरक्तस्रावज्वरापहः||२२८||

प्रपौण्डरीकं मधुकं पिच्छाबस्तौ यथेरितान्|
पिष्ट्वाऽनुवासनं स्नेहं क्षीरद्विगुणितं पचेत्||२२९||
इति पिच्छाबस्तिः|

श्लोक 230-233

ह्रीवेरमुत्पलं लोध्रं समङ्गाचव्यचन्दनम्|
पाठा सातिविषा बिल्वं धातकी देवदारु च||२३०||

दार्वीत्वङ् नागरं मांसी मुस्तं क्षारो यवाग्रजः|
चित्रकश्चेति पेष्याणि चाङ्गेरीस्वरसे घृतम्||२३१||

ऐकध्यं साधयेत् सर्वं तत् सर्पिः परमौषधम्|
अर्शोतिसारग्रहणीपाण्डुरोगे ज्वरेऽरुचौ||२३२||

मूत्रकृच्छ्रे गुदभ्रंशे बस्त्यानाहे प्रवाहणे|
पिच्छास्रावेऽर्शसां शूले योज्यमेतत्त्रिदोषनुत्||२३३||
इति ह्रीवेरादिघृतम्|

श्लोक 234-242

अवाक्पुष्पी बला दार्वी पृश्निपर्णी त्रिकण्टकः|
न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः||२३४||

कषाय एषां पेष्यास्तु जीवन्ती कटुरोहिणी|
पिप्पली पिप्पलीमूलं नागरं सुरदारु च||२३५||

कलिङ्गाः शाल्मलं पुष्पं वीरा चन्दनमुत्पलम् |
कट्फलं चित्रको मुस्तं प्रियङ्ग्वतिविषास्थिराः||२३६||

पद्मोत्पलानां किञ्जल्कः समङ्गा सनिदिग्धिका|
बिल्वं मोचरसः पाठा भागाः कर्षसमन्विताः||२३७||

चतुष्प्रस्थे शृतं प्रस्थं कषायमवतारयेत्|
त्रिंशत्पलानि प्रस्थोऽत्र विज्ञेयो द्विपलाधिकः||२३८||

सुनिषण्णकचाङ्गेर्योः प्रस्थौ द्वौ स्वरसस्य च|
सर्वैरेतैर्यथोद्दिष्टैर्घृतप्रस्थं विपाचयेत्||२३९||

एतदर्शःस्वतीसारे रक्तस्रावे त्रिदोषजे|
प्रवाहणे गुदभ्रंशे पिच्छासु विविधासु च||२४०||

उत्थाने चातिबहुशः शोथशूले गुदाश्रये|
मूत्रग्रहे मूढवाते मन्देऽग्नावरुचावपि||२४१||

प्रयोज्यं विधिवत् सर्पिर्बलवर्णाग्निवर्धनम्|
विविधेष्वन्नपानेषु केवलं वा निरत्ययम्||२४२||
इति सुनिषण्णकचाङ्गेरीघृतम्|

श्लोक 243

भवन्ति चात्र-
व्यत्यासान्मधुराम्लानि शीतोष्णानि च योजयेत्|
नित्यमग्निबलापेक्षी जयत्यर्शःकृतान् गदान्||२४३||

श्लोक 244-246

त्रयो विकाराः प्रायेण ये परस्परहेतवः|
अर्शांसि चातिसारश्च ग्रहणीदोष एव च||२४४||

एषामग्निबले हीने वृद्धिर्वृद्धे परिक्षयः|
तस्मादग्निबलं रक्ष्यमेषु त्रिषु विशेषतः||२४५||

भृष्टैः शाकैर्यवागूभिर्यूषैर्मांसरसैः खडैः|
क्षीरतक्रप्रयोगैश्च विविधैर्गुदजाञ्जयेत्||२४६||

श्लोक 247-248

यद्वायोरानुलोम्याय यदग्निबलवृद्धये|
अन्नपानौषधद्रव्यं तत् सेव्यं नित्यमर्शसैः||२४७||

यदतो विपरीतं स्यान्निदाने यच्च दर्शितम्|
गुदजाभिपरीतेन तत् सेव्यं न कदाचन||२४८||

श्लोक 249-255

तत्र श्लोकाः-
अर्शसां द्विविधं जन्म पृथगायतनानि च|
स्थानसंस्थानलिङ्गानि साध्यासाध्यविनिश्चयः||२४९||

अभ्यङ्गाः स्वेदनं धूमाः सावगाहाः प्रलेपनाः|
शोणितस्यावसेकश्च योगा दीपनपाचनाः||२५०||

पानान्नविधिरग्र्यश्च वातवर्चोऽनुलोमनः|
योगाः संशमनीयाश्च सर्पींषि विविधानि च||२५१||

बस्तयस्तक्रयोगाश्च वरारिष्टाः सशर्कराः|
शुष्काणामर्शसां शस्ताः स्राविणां लक्षणानि च||२५२||

द्विविधं सानुबन्धानां तेषां चेष्टं यदौषधम्|
रक्तसङ्ग्रहणाः क्वाथाः पेष्याश्च विविधात्मकाः||२५३||

स्नेहाहारविधिश्चाग्र्यो योगाश्च प्रतिसारणाः|
प्रक्षालनावगाहाश्च प्रदेहाः सेचनानि च||२५४||

अतिवृत्तस्य रक्तस्य विधातव्यं यदौषधम्|
तत्सर्वमिह निर्दिष्टं गुदजानां चिकित्सिते||२५५||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते
चिकित्सास्थानेऽर्शश्चिकित्सितं नाम चतुर्दशोऽध्यायः||१४||