आमवातनिदानम्

श्लोक  1-5

आमवातस्य निदानपूर्विका सम्प्राप्तिः

अथामवातनिदानम् |
विरुद्धाहारचेष्टस्य मन्दाग्नेर्निश्चलस्य च |
स्निग्धं भुक्तवतो ह्यन्नं व्यायामं कुर्वतस्तथा ||१||

वायुना प्रेरितो ह्यामः श्लेष्मस्थानं प्रधावति |
तेनात्यर्थं विदग्धोऽसौ धमनीः प्रतिपद्यते ||२||

वातपित्तकफैर्भूयो दूषितः सोऽन्नजो रसः |
स्रोतांस्यभिष्यन्दयति नानावर्णोऽतिपिच्छिलः ||३||

जनयत्याशु दौर्बल्यं गौरवं हृदयस्य च |
व्याधीनामाश्रयो ह्येष आमसञ्ज्ञोऽतिदारुणः ||४||

युगपत्कुपितावन्तस्त्रिकसन्धिप्रवेशकौ |
स्तब्धं च कुरुतो गात्रमामवातः स उच्यते ||५||

श्लोक  6

आमवातस्य सामान्यलक्षणम्

अङ्गमर्दोऽरुचिस्तृष्णा आलस्यं गौरवं ज्वरः |
अपाकः शूनताऽङ्गानामामवातस्य लक्षणम् ||६||

श्लोक  7-10

प्रकुपितस्यामवातस्य लक्षणम्

स कष्टः सर्वरोगाणां यदा प्रकुपितो भवेत् |
हस्तपादशिरोगुल्फत्रिकजानूरुसन्धिषु ||७||

करोति सरुजं शोथं यत्र दोषः प्रपद्यते |
स देशो रुज्यतेऽत्यर्थं व्याविद्ध इव वृश्चिकैः ||८||

जनयेत् सोऽग्निदौर्बल्यं प्रसेकारुचिगौरवम् |
उत्साहहानिं वैरस्यं दाहं च बहुमूत्रताम् ||९||

कुक्षौ कठिनतां शूलं तथा निद्राविपर्ययम् |
तृट्छर्दिभ्रममूर्छाश्च हृद्ग्रहं विड्विबद्धताम् |
जाड्यान्त्रकूजमानाहं कष्टांश्चान्यानुपद्रवान् ||१०||

श्लोक  11

आमवातस्य विशेषलक्षणानि

पित्तात् सदाहरागं च, सशूलं पवनानुगम् |
स्तिमितं गुरुकण्डूं च कफदुष्टं तमादिशेत् ||११||

श्लोक  12

आमवातस्य साध्यासाध्यविचारः

एकदोषानुगः साध्यो, द्विदोषो याप्य उच्यते |
सर्वदेहचरः शोथः स कृच्छ्रः सान्निपातिकः ||१२||

पुष्पिका

इति श्रीमाधवकरविरचिते माधवनिदाने आमवातनिदानं समाप्तम्  ||२५||
error: Content is protected !!