उदरचिकित्सितम्

श्लोक 1-2

अथात उदरचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

श्लोक 3-8

सिद्धविद्याधराकीर्णे कैलासे नन्दनोपमे|
तप्यमानं तपस्तीव्रं साक्षाद्धर्ममिव स्थितम्||३||

आयुर्वेदविदां श्रेष्ठं भिषग्विद्याप्रवर्तकम्|
पुनर्वसुं जितात्मानमग्निवेशोऽब्रवीद्वचः||४||

भगवन्नुदरैर्दुःखैर्दृश्यन्ते ह्यर्दिता नराः|
शुष्कवक्त्राः कृशैर्गात्रैराध्मातोदरकुक्षयः||५||

प्रनष्टाग्निबलाहाराः सर्वचेष्टास्वनीश्वराः|
दीनाः प्रतिक्रियाभावाज्जहतोऽसूननाथवत्||६||

तेषामायतनं सङ्ख्यां प्राग्रूपाकृतिभेषजम्|
यथावच्छ्रोतुमिच्छामि गुरुणा सम्यगीरितम्||७||

सर्वभूतहितायर्षिः शिष्येणैवं प्रचोदितः|
सर्वभूतहितं वाक्यं व्याहर्तुमुपचक्रमे||८||

श्लोक 9-11

अग्निदोषान्मनुष्याणां रोगसङ्घाः पृथग्विधाः|
मलवृद्ध्या प्रवर्तन्ते विशेषेणोदराणि तु||९||

मन्देऽग्नौ मलिनैर्भुक्तैरपाकाद्दोषसञ्चयः|
प्राणाग्न्यपानान् सन्दूष्य मार्गान्रुद्ध्वाऽधरोत्तरान्||१०||

त्वङ्मांसान्तरमागम्य कुक्षिमाध्मापयन् भृशम्|
जनयत्युदरं तस्य हेतुं शृणु सलक्षणम्||११||

श्लोक 12-15

अत्युष्णलवणक्षारविदाह्यम्लगराशनात्|
मिथ्यासंसर्जनाद्रूक्षविरुद्धाशुचिभोजनात्||१२||

प्लीहार्शोग्रहणीदोषकर्शनात् कर्मविभ्रमात्|
क्लिष्टानामप्रतीकाराद्रौक्ष्याद्वेगविधारणात्||१३||

स्रोतसां दूषणादामात् सङ्क्षोभादतिपूरणात्|
अर्शोबालशकृद्रोधादन्त्रस्फुटनभेदनात्||१४||

अतिसञ्चितदोषाणां पापं कर्म च कुर्वताम्|
उदराण्युपजायन्ते मन्दाग्नीनां विशेषतः||१५||

श्लोक 16-19

क्षुन्नाशः स्वाद्वतिस्निग्धगुर्वन्नं पच्यते चिरात्|
भुक्तं विदह्यते सर्वं जीर्णाजीर्णं न वेत्ति च||१६||

सहते नातिसौहित्यमीषच्छोफश्च पादयोः|
शश्वद्बलक्षयोऽल्पेऽपि व्यायामे श्वासमृच्छति||१७||

वृद्धिः पुरीषनिचयो रूक्षोदावर्तहेतुका|
बस्तिसन्धौ रुगाध्मानं वर्धते पाट्यतेऽपि च||१८||

आतन्यते च जठरमपि लघ्वल्पभोजनात्|
राजीजन्म वलीनाश इति लिङ्गं भविष्यताम्||१९||

श्लोक 20-22

रुद्ध्वा स्वेदाम्बुवाहीनि दोषाः स्रोतांसि सञ्चिताः|
प्राणाग्न्यपानान् सन्दूष्य जनयन्त्युदरं नृणाम्||२०||

कुक्षेराध्मानमाटोपः शोफः पादकरस्य च|
मन्दोऽग्निः श्लक्ष्णगण्डत्वं कार्श्यं चोदरलक्षणम्||२१||

पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः|
सम्भवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु||२२||

श्लोक 23-25

रूक्षाल्पभोजनायासवेगोदावर्तकर्शनैः|
वायुः प्रकुपितः कुक्षिहृद्बस्तिगुदमार्गगः||२३||

हत्वाऽग्निं कफमुद्धूय तेन रूद्धगतिस्ततः|
आचिनोत्युदरं जन्तोस्त्वङ्मांसान्तरमाश्रितः||२४||

तस्य रूपाणि – कुक्षिपाणिपादवृषणश्वयथुः, उदरविपाटनम्,  अनियतौ च वृद्धिह्रासौ, कुक्षिपार्श्वशूलोदावर्ताङ्गमर्दपर्वभेदशु- -ष्ककासकार्श्यदौर्बल्यारोचकाविपाकाः, अधोगुरुत्वं,  वातवर्चोमूत्रसङ्गः, श्यावारुणत्वं च नखनयनवदनत्वङ्मूत्रवर्चसाम्, अपि चोदरं तन्वसितराजीसिरासन्ततम्, आहतमाध्मातदृतिशब्दवद्भवति, वायुश्चोर्ध्वमधस्तिर्यक् च  सशूलशब्दश्चरति, एतद्वातोदरमिति विद्यात्||२५||

श्लोक 26-28

कट्वम्ललवणात्युष्णतीक्ष्णाग्न्यातपसेवनैः|
विदाह्यध्यशनाजीर्णैश्चाशु पित्तं समाचितम्||२६||

प्राप्यानिलकफौ रुद्ध्वा मार्गमुन्मार्गमास्थितम्|
निहन्त्यामाशये वह्निं जनयत्युदरं ततः||२७||

तस्य रूपाणि – दाहज्वरतृष्णामूर्च्छातीसारभ्रमाः,  कटुकास्यत्वं, हरितहारिद्रत्वंच नखनयनवदनत्वङ्मूत्रवर्चसाम्,अपि चोदरं नीलपीतहारिद्रहरितताम्रराजीसिरावनद्धं, दह्यते,  दूयते, धूप्यते, ऊष्मायते, स्विद्यते, क्लिद्यते, मृदुस्पर्शं क्षिप्रपाकं च भवति; एतत् पित्तोदरमिति विद्यात्||२८||

श्लोक 29-31

अव्यायामदिवास्वप्नस्वाद्वतिस्निग्धपिच्छिलैः|
दधिदुग्धौदकानूपमांसैश्चाप्यतिसेवितैः||२९||

क्रुद्धेन श्लेष्मणा स्रोतःस्वावृतेष्वावृतोऽनिलः|
तमेव पीडयन् कुर्यादुदरं बहिरन्त्रगः ||३०||

तस्य रूपाणि – गौरवारोचकाविपाकाङ्गमर्दाः, सुप्तिः,  पाणिपादमुष्कोरुशोफः, उत्क्लेशनिद्राकासश्वासाः, शुक्लत्वं च नखनयनवदनत्वङ्मूत्रवर्चसाम्; अपि चोदरं  शुक्लराजीसिरासन्ततं, गुरु, स्तिमितं, स्थिरं, कठिनं च भवति; एतच्छ्लेष्मोदरमिति विद्यात्||३१||

श्लोक 32-34

दुर्बलाग्नेरपथ्यामविरोधिगुरुभोजनैः|
स्त्रीदत्तैश्च रजोरोमविण्मूत्रास्थिनखादिभिः||३२||

विषैश्च मन्दैर्वाताद्याः कुपिताः सञ्चयं त्रयः|
शनैः कोष्ठे प्रकुर्वन्तो जनयन्त्युदरं नृणाम्||३३||

तस्य रूपाणि – सर्वेषामेव दोषाणां समस्तानि लिङ्गान्युपलभ्यन्ते, वर्णाश्च सर्वे नखादिषु, उदरमपि  नानावर्णराजीसिरासन्ततं भवति; एतत् सन्निपातोदरमिति  विद्यात्||३४||

श्लोक 35-38

अशितस्यातिसङ्क्षोभाद्यानयानातिचेष्टितैः|
अतिव्यवायभाराध्ववमनव्याधिकर्शनैः||३५||

वामपार्श्वाश्रितः प्लीहा च्युतः स्थानात् प्रवर्धते|
शोणितं वा रसादिभ्यो विवृद्धं तं विवर्धयेत्||३६||

तस्य प्लीहा कठिनोऽष्ठीलेवादौ वर्धमानः कच्छपसंस्थान उपलभ्यते; स चोपेक्षितः क्रमेण कुक्षिं जठरमग्न्यधिष्ठानं च परिक्षिपन्नुदरमभिनिर्वर्तयति||३७||

तस्य रूपाणि – दौर्बल्यारोचकाविपाकवर्चोमूत्रग्रहतमः प्रवेशपिपासाङ्गमर्दच्छर्दिमूर्च्छाङ्गसाद कासश्वासमृदुज्वरानाहाग्निनाशकार्श्यास्यवैरस्यपर्वभेदकोष्ठ- -वातशूलानि, अपि चोदरमरुणवर्णं विवर्णं वा  नीलहरितहारिद्रराजिमद्भवति; एवमेव यकृदपि दक्षिणपार्श्वस्थं कुर्यात्, तुल्यहेतुलिङ्गौषधत्वात्तस्य प्लीहजठर एवावरोध इति; एतत् प्लीहोदरमिति विद्यात्||३८||

श्लोक 39-41

पक्ष्मबालैः सहान्नेन भुक्तैर्बद्धायने गुदे|
उदावर्तैस्तथाऽर्शोभिरन्त्रसम्मूर्च्छनेन वा||३९||

अपानो मार्गसंरोधाद्धत्वाऽग्निं कुपितोऽनिलः|
वर्चःपित्तकफान् रुद्ध्वा जनयत्युदरं ततः||४०||

तस्य रूपाणि-तृष्णादाहज्वरमुखतालुशोषोरुसादकासश्वासदौर्बल्यारोचका- -विपाक-वर्चोमूत्रसङ्गाध्मानच्छर्दिक्षवथुशिरोहृन्नाभिगुदशूलानि, अपि  चोदरं मूढवातं स्थिरमरुणं नीलराजि सिरावनद्धराजिकं वा  प्रायो नाभ्युपरि गोपुच्छवदभिनिर्वर्तत इति;  एतद्बद्धगुदोदरमिति विद्यात्||४१||

श्लोक 42-44

शर्करातृणकाष्ठास्थिकण्टकैरन्नसंयुतैः|
भिद्येतान्त्रं यदा भुक्तैर्जृम्भयाऽत्यशनेन वा||४२||

पाकं गच्छेद्रसस्तेभ्यश्छिद्रेभ्यः प्रस्रवद्बहिः|
पूरयन् गुदमन्त्रं च जनयत्युदरं ततः||४३||

तस्य रूपाणि – तदधो नाभ्याः प्रायोऽभिवर्धमानमुदकोदरं  भवति, यथाबलं च दोषाणां रूपाणि दर्शयति, अपि चातुरः सलोहितनीलपीतपिच्छिलकुणपगन्ध्यामवर्च उपवेशते,  हिक्काश्वासकासतृष्णाप्रमेहारोचकाविपाकदौर्बल्यपरीतश्च  भवति; एतच्छिद्रोदरमिति विद्यात्||४४||

श्लोक 45-49

स्नेहपीतस्य मन्दाग्नेः क्षीणस्यातिकृशस्य वा|
अत्यम्बुपानान्नष्टेऽग्नौ मारुतः क्लोम्नि संस्थितः||४५||

स्रोतःसु रुद्धमार्गेषु कफश्चोदकमूर्च्छितः|
वर्धयेतां तदेवाम्बु स्वस्थानादुदराय तौ||४६||

तस्य रूपाणि- अनन्नकाङ्क्षापिपासागुदस्रावशूलश्वासकासदौर्बल्यानि, अपि  चोदरं नानावर्णराजिसिरासन्ततमुदकपूर्णदृतिक्षोभसंस्पर्शं  भवति,एतदुदकोदरमिति विद्यात्||४७||

तत्र अचिरोत्पन्नमनुपद्रवमनुदकमप्राप्तमुदरं  त्वरमाणश्चिकित्सेत्; उपेक्षितानां ह्येषां दोषाः स्वस्थानादपवृत्ता परिपाकाद्द्रवीभूताः सन्धीन् स्रोतांसि चोपक्लेदयन्ति, स्वेदश्च बाह्येषु स्रोतःसु  प्रतिहतगतिस्तिर्यगवतिष्ठमानस्तदेवोदकमाप्याययति; तत्र  पिच्छोत्पत्तौ मण्डलमुदरं गुरु स्तिमितमाकोठितमशब्दं  मृदुस्पर्शमपगतराजीकमाक्रान्तं नाभ्यामेवोपसर्पति|
ततोऽनन्तरमुदकप्रादुर्भावः|
तस्य रूपाणि – कुक्षेरतिमात्रवृद्धिः, सिरान्तर्धानगमनम्, उदकपूर्णदृतिसङ्क्षोभसंस्पर्शत्वं च||४८||

तदाऽऽतुरमुपद्रवाः स्पृशन्ति-छर्द्यतीसारतमकतृष्णाश्वासकासहिक्कादौर्बल्यपार्श्वशूलारु- -चिस्वरभेदमूत्रसङ्गादयः; तथाविधमचिकित्स्यं विद्यादिति ||४९||

श्लोक 50-51

भवन्ति चात्र-
वातात्पित्तात्कफात् प्लीह्नः सन्निपातात्तथोदकात्|
परं परं कृच्छ्रतरमुदरं भिषगादिशेत्||५०||

पक्षाद्बद्धगुदं तूर्ध्वं सर्वं जातोदकं तथा|
प्रायो भवत्यभावाय च्छिद्रान्त्रं चोदरं नृणाम्||५१||

श्लोक 52-54

शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्|
बलशोणितमांसाग्निपरिक्षीणं च वर्जयेत्||५२||

श्वयथुः सर्वमर्मोत्थः श्वासो हिक्काऽरुचिः सतृट्|
मूर्च्छा च्छर्दिरतीसारो निहन्त्युदरिणं नरम्||५३||

जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्|
बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम्||५४||

श्लोक 55-58

अजातशोथमरुणं  सशब्दं नातिभारिकम्|
सदा गुडगुडायच्च  सिराजालगवाक्षितम्||५५||

नाभिं विष्टभ्य पायौ  तु वेगं कृत्वा प्रणश्यति|
हृन्नाभिवङ्क्षणकटीगुदप्रत्येकशूलिनः||५६||

कर्कशं सृजतो वातं नातिमन्दे च पावके|
लोलस्याविरसे  चास्ये मूत्रेऽल्पे संहते विषि||५७||

अजातोदकमित्येतैर्लिङ्गैर्विज्ञाय तत्त्वतः|
उपाक्रमेद्भिषग्दोषबलकालविशेषवित्||५८||

श्लोक 59-67

वातोदरं बलमतः पूर्वं स्नेहैरुपाचरेत्|
स्निग्धाय स्वेदिताङ्गाय दद्यात् स्नेहविरेचनम्||५९||

हृते दोषे परिम्लानं वेष्टयेद्वाससोदरम्|
तथाऽस्यानवकाशत्वाद्वायुर्नाध्मापयेत् पुनः||६०||

दोषातिमात्रोपचयात् स्रोतोमार्गनिरोधनात्|
सम्भवत्युदरं तस्मान्नित्यमेव विरेचयेत्||६१||

शुद्धं संसृज्य च क्षीरं बलार्थं पाययेत्तु तम्|
प्रागुत्क्लेशान्निवर्त्यं च बले लब्धे क्रमात् पयः||६२||

यूषै रसैर्वा मन्दाम्ललवणैरेधितानलम्|
सोदावर्तं पुनः स्निग्धं स्विन्नमास्थापयेन्नरम्||६३||

स्फुरणाक्षेपसन्ध्यस्थिपार्श्वपृष्ठत्रिकार्तिषु|
दीप्ताग्निं बद्धविड्वातं रूक्षमप्यनुवासयेत्||६४||

तीक्ष्णाधोभागयुक्तोऽस्य निरूहो दाशमूलिकः|
वातघ्नाम्लशृतैरण्डतिलतैलानुवासनम्||६५||

अविरेच्यं तु यं विद्याद्दुर्बलं स्थविरं शिशुम्|
सुकुमारं प्रकृत्याऽल्पदोषं वाऽथोल्बणानिलम्||६६||

तं भिषक् शमनैः सर्पिर्यूषमांसरसौदनैः|
बस्त्यभ्यङ्गानुवासैश्च क्षीरैश्चोपाचरेद्बुधः||६७||

श्लोक 68-71

पित्तोदरे तु बलिनं पूर्वमेव विरेचयेत्|
दुर्बलं त्वनुवास्यादौ शोधयेत् क्षीरबस्तिना||६८||

सञ्जातबलकायाग्निं पुनः स्निग्धं विरेचयेत्|
पयसा सत्रिवृत्कल्केनोरुबूकशृतेन वा||६९||

सातलात्रायमाणाभ्यां शृतेनारग्वधेन वा|
सकफे वा समूत्रेण सवाते तिक्तसर्पिषा||७०||

पुनः क्षीरप्रयोगं च बस्तिकर्म विरेचनम्|
क्रमेण ध्रुवमातिष्ठन् युक्तः पित्तोदरं जयेत्||७१||

श्लोक 72-73

स्निग्धं स्विन्नं विशुद्धं तु कफोदरिणमातुरम्|
संसर्जयेत् कटुक्षारयुक्तैरन्नैः कफापहैः||७२||

गोमूत्रारिष्टपानैश्च चूर्णायस्कृतिभिस्तथा|
सक्षारैस्तैलपानैश्च शमयेत्तु कफोदरम्||७३||

श्लोक 74

सन्निपातोदरे सर्वा यथोक्ताः कारयेत् क्रियाः|
सोपद्रवं तु निर्वृत्तं प्रत्याख्येयं विजानता|७४|

श्लोक 75-89

उदावर्तरुजानाहैर्दाहमोहतृषाज्वरैः|
गौरवारुचिकाठिन्यैश्चानिलादीन् यथाक्रमम्||७५||

लिङ्गैः प्लीह्न्यधिकान् दृष्ट्वा रक्तं चापि स्वलक्षणैः|
चिकित्सां सम्प्रकुर्वीत यथादोषं यथाबलम्||७६||

स्नेहं स्वेदं विरेकं च निरूहमनुवासनम्|
समीक्ष्य कारयेद्बाहौ वामे वा व्यधयेत् सिराम्||७७||

षट्पलं पाययेत् सर्पिः पिप्पलीर्वा प्रयोजयेत्|
सगुडामभयां वाऽपि क्षारारिष्टगणांस्तथा||७८||

एष क्रियाक्रमः प्रोक्तो योगान् संशमनाञ्छृणु|
पिप्पली नागरं दन्ती चित्रकं द्विगुणाभयम्||७९||

विडङ्गांशयुतं चूर्णमेतदुष्णाम्बुना पिबेत्|
विडङ्गं चित्रकं शुण्ठीं सघृतां सैन्धवं वचाम्||८०||

दग्ध्वा कपाले पयसा गुल्मप्लीहापहं पिबेत्|
रोहीतकलतानां तु काण्डकानभयाजले||८१||

मूत्रे वा सुनुयात्तच्च सप्तरात्रस्थितं पिबेत्|
कामलागुल्ममेहार्शःप्लीहसर्वोदरक्रिमीन्||८२||

स हन्याज्जाङ्गलरसैर्जीर्णे स्याच्चात्र भोजनम्|
रोहीतकत्वचः कृत्वा पलानां पञ्चविंशतिम्||८३||

कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत्|
पलिकैः पञ्चकोलैस्तु तैः सर्वैश्चापि तुल्यया||७४||

रोहीतकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत्|
प्लीहाभिवृद्धिं शमयत्येतदाशु प्रयोजितम्||८५||

तथा गुल्मोदरश्वासक्रिमिपाण्डुत्वकामलाः|
अग्निकर्म च कुर्वीत भिषग्वातकफोल्बणे||८६||

पैत्तिके जीवनीयानि सर्पींषि क्षीरबस्तयः|
रक्तावसेकः संशुद्धिः क्षीरपानं च शस्यते||८७||

यूषैर्मांसरसैश्चापि दीपनीयसमायुतैः|
यकृति प्लीहवत् सर्वं तुल्यत्वाद्भेषजं मतम्||८८||

लघून्यन्नानि संसृज्य दद्यात् प्लीहोदरे भिषक्|८९|

श्लोक 89-93

स्विन्नाय बद्धोदरिणे मूत्रतीक्ष्णौषधान्वितम्||८९||

सतैललवणं दद्यान्निरूहं सानुवासनम्|
परिस्रंसीनि चान्नानि तीक्ष्णं चैव विरेचनम्||९०||

उदावर्तहरं कर्म कार्यं वातघ्नमेव च|
छिद्रोदरमृते स्वेदाच्छ्लेष्मोदरवदाचरेत्||९१||

जातं जातं जलं स्राव्यमेवं तद्यापयेद्भिषक्|
तृष्णाकासज्वरार्तं तु क्षीणमांसाग्निभोजनम्||९२||

वर्जयेच्छ्वासिनं तद्वच्छूलिनं दुर्बलेन्द्रियम्|९३|

श्लोक 93-95

अपां दोषहराण्यादौ प्रदद्यादुदकोदरे||९३||

मूत्रयुक्तानि तीक्ष्णानि विविधक्षारवन्ति च|
दीपनीयैः कफघ्नैश्च तमाहारैरुपाचरेत्||९४||

द्रवेभ्यश्चोदकादिभ्यो नियच्छेदनुपूर्वशः|९५|

श्लोक 95-101

सर्वमेवोदरं प्रायो दोषसङ्घातजं मतम्||९५||

तस्मात्त्रिदोषशमनीं क्रियां सर्वत्र कारयेत्|
दोषैः कुक्षौ हि सम्पूर्णे वह्निर्मन्दत्वमृच्छति||९६||

तस्माद्भोज्यानि भोज्यानि दीपनानि लघूनि च|
रक्तशालीन् यवान्मुद्गाञ्जाङ्गलांश्च मृगद्विजान्||९७||

पयोमूत्रासवारिष्टान्मधुसीधुं तथा सुराम्|
यवागूमोदनं वाऽपि यूषैरद्याद्रसैरपि||९८||

मन्दाम्लस्नेहकटुभिः पञ्चमूलोपसाधितैः|
औदकानूपजं मांसं शाकं पिष्टकृतं तिलान्||९९||

व्यायामाध्वदिवास्वप्नं यानयानं च वर्जयेत्|
तथोष्णलवणाम्लानि विदाहीनि गुरूणि च||१००||

नाद्यादन्नानि जठरी तोयपानं च वर्जयेत्|१०१|

श्लोक 101-107

नातिसान्द्रं हितं पाने स्वादु तक्रमपेलवम्||१०१||

त्र्यूषणक्षारलवणैर्युक्तं तु निचयोदरी|
वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम्||१०२||

शर्करामधुकोपेतं स्वादु पित्तोदरी पिबेत्|
यवानीसैन्धवाजाजीव्योषयुक्तं कफोदरी||१०३||

पिबेन्मधुयुतं तक्रं कवोष्णं नातिपेलवम्|
मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः||१०४||

युक्तं प्लीहोदरी जातं सव्योषं तूदकोदरी|
बद्धोदरी तु हपुषायवान्यजाजिसैन्धवैः ||१०५||

पिबेच्छिद्रोदरी तक्रं पिप्पलीक्षौद्रसंयुतम्|
गौरवारोचकार्तानां समन्दाग्न्यतिसारिणाम्||१०६||

तक्रं वातकफार्तानाममृतत्वाय कल्पते|१०७|

श्लोक 107-111

शोफानाहार्तितृण्मूर्च्छापीडिते कारभं पयः||१०७||

शुद्धानां क्षामदेहानां गव्यं छागं समाहिषम्|
देवदारुपलाशार्कहस्तिपिप्पलिशिग्रुकैः||१०८||

साश्वगन्धैः सगोमूत्रैः प्रदिह्यादुदरं समैः|
वृश्चिकालीं वचां कुष्ठं पञ्चमूलीं पुनर्नवाम्||१०९||

भूतीकं नागरं धान्यं जले पक्त्वाऽवसेचयेत्|
पलाशं कत्तृणं रास्नां तद्वत् पक्त्वाऽवसेचयेत्||११०||

मूत्राण्यष्टावुदरिणां सेके पाने च योजयेत्|१११|

श्लोक 111-112

रूक्षाणां बहुवातानां तथा संशोधनार्थिनाम्||१११||

दीपनीयानि सर्पींषि जठरघ्नानि चक्ष्महे|११२|

श्लोक 112-116

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः||११२||

सक्षारैरर्धपलिकैर्द्विप्रस्थं सर्पिषः पचेत्|
कल्कैर्द्विपञ्चमूलस्य तुलार्धस्वरसेन च||११३||

दधिमण्डाढकोपेतं तत् सर्पिर्जठरापहम्|
श्वयथुं वातविष्टम्भं गुल्मार्शांसि च नाशयेत्||११४||

नागरत्रिफलाप्रस्थं घृततैलात्तथाऽऽढकम्|
मस्तुनः साधयित्वैतत् पिबेत् सर्वोदरापहम्||११५||

कफमारुतसम्भूते गुल्मे चैतत् प्रशस्यते|११६|

श्लोक 116-118

चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात् पले||११६||

कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत्|
यवकोलकुलत्थानां पञ्चमूलरसेन च||११७||

सुरासौवीरकाभ्यां च सिद्धं वाऽपि पिबेद्घृतम्|११८|

श्लोक 118-119

एभिः स्निग्धाय सञ्जाते बले शान्ते च मारुते||११८||

स्रस्ते दोषाशये दद्यात् कल्पदिष्टं विरेचनम्|११९|

श्लोक 119-124

पटोलमूलं रजनीं विडङ्गं त्रिफलात्वचम्||११९||

कम्पिल्लकं नीलिनीं च त्रिवृतां चेति चूर्णयेत्|
षडाद्यान् कार्षिकानन्त्यांस्त्रींश्च द्वित्रिचतुर्गुणान्||१२०||

कृत्वा चूर्णमतो मुष्टिं गवां मूत्रेण ना पिबेत्|
विरिक्तो मृदु भुञ्जीत भोजनं जाङ्गलै रसैः||१२१||

मण्डं पेयां च पीत्वा ना सव्योषं षडहं पयः|
शृतं पिबेत्ततश्चूर्णं पिबेदेवं पुनः पुनः||१२२||

हन्ति सर्वोदराण्येतच्चूर्णं जातोदकान्यपि|
कामलां पाण्डुरोगं च श्वयथुं चापकर्षति||१२३||

पटोलाद्यमिदं चूर्णमुदरेषु प्रपूजितम्|१२४|

श्लोक 124-132

गवाक्षीं शङ्खिनीं दन्तीं तिल्वकस्य त्वचं वचाम्||१२४||

पिबेद्द्राक्षाम्बुगोमूत्रकोलकर्कन्धुसीधुभिः|
यवानी हपुषा धान्यं त्रिफला चोपकुञ्चिका||१२५||

कारवी पिप्पलीमूलमजगन्धा शटी वचा|
शताह्वा जीरकं व्योषं स्वर्णक्षीरी सचित्रका||१२६||

द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम्|
विडङ्गं च समांशानि दन्त्या भागत्रयं तथा||१२७||

त्रिवृद्विशाले द्विगुणे सातला स्याच्चतुर्गुणा|
एतन्नारायणं नाम चूर्णं रोगगणापहम्||१२८||

नैनत् प्राप्यातिवर्तन्ते रोगा विष्णुमिवासुराः|
तक्रेणोदरिभिः पेयं गुल्मिभिर्बदराम्बुना||१२९||

आनद्धवाते सुरया वातरोगे प्रसन्नया|
दधिमण्डेन विट्सङ्गे दाडिमाम्बुभिरर्शसैः||१३०||

परिकर्ते सवृक्षाम्लमुष्णाम्बुभिरजीर्णके|
भगन्दरे पाण्डुरोगे श्वासे कासे गलग्रहे||१३१||

हृद्रोगे ग्रहणीदोषे कुष्ठे मन्देऽनले ज्वरे|
दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे||१३२||
यथार्हं स्निग्धकोष्ठेन पेयमेतद्विरेचनम्|
इति नारायणचूर्णम्|

श्लोक 133-137

हपुषां काञ्चनक्षीरीं त्रिफलां कटुरोहिणीम्||१३३||

नीलिनीं त्रायमाणां च सातलां त्रिवृतां वचाम्|
सैन्धवं काललवणं पिप्पलीं चेति चूर्णयेत्||१३४||

दाडिमत्रिफलामांसरसमूत्रसुखोदकैः|
पेयोऽयं सर्वगुल्मेषु प्लीह्नि सर्वोदरेषु च||१३५||

श्वित्रे कुष्ठे सरुजके सवाते विषमाग्निषु|
शोथार्शःपाण्डुरोगेषु कामलायां हलीमके||१३६||

वातं पित्तं कफं चाशु विरेकात् सम्प्रसाधयेत्|
इति हपुषाद्यं चूर्णम्|
नीलिनीं निचुलं व्योषं द्वौ क्षारौ लवणानि च||१३७||
चित्रकं च पिबेच्चूर्णं सर्पिषोदरगुल्मनुत्|
इति नीलिन्याद्यं चूर्णम्|

श्लोक 138-140

क्षीरद्रोणं सुधाक्षीरप्रस्थार्धसहितं दधि||१३८||

जातं विमथ्य तद्युक्त्या त्रिवृत्सिद्धं पिबेद्घृतम्|
तथा सिद्धं घृतप्रस्थं पयस्यष्टगुणे पिबेत्||१३९||

स्नुक्क्षीरपलकल्केन त्रिवृताषट्पलेन च|
गुल्मानां गरदोषाणामुदराणां च शान्तये||१४०||
इति स्नुहीक्षीरघृतम्|

श्लोक 141-146

दधिमण्डाढके सिद्धात् स्नुक्क्षीरपलकल्कितात्|
घृतप्रस्थात् पिबेन्मात्रां तद्वज्जठरशान्तये||१४१||

एषां चानु पिबेत् पेयां पयो वा स्वादु वा रसम्|
घृते जीर्णे विरिक्तस्तु कोष्णं नागरकैः शृतम्||१४२||

पिबेदम्बु ततः पेयां यूषं कौलत्थकं ततः|
पिबेद्रूक्षस्त्र्यहं त्वेवं भूयो वा प्रतिभोजितः||१४३||

पुनः पुनः पिबेत् सर्पिरानुपूर्व्या तयैव च|
घृतान्येतानि सिद्धानि विदध्यात् कुशलो भिषक्||१४४||

गुल्मानां गरदोषाणामुदराणां च शान्तये|
पीलुकल्कोपसिद्धं वा घृतमानाहभेदनम्||१४५||

गुल्मघ्नं नीलिनीसर्पिः स्नेहं वा मिश्रकं पिबेत्|१४६|

श्लोक 146-172

क्रमान्निर्हृतदोषाणां जाङ्गलप्रतिभोजिनाम् ||१४६||

दोषशेषनिवृत्त्यर्थं योगान् वक्ष्याम्यतः परम्|
चित्रकामरदारुभ्यां कल्कं क्षीरेण ना पिबेत्||१४७||

मासं युक्तस्तथा हस्तिपिप्पली विश्वभेषजम्|
विडङ्गं चित्रकं दन्ती चव्यं व्योषं च तैः पयः||१४८||

कल्कैः कोलसमैः पीत्वा प्रवृद्धमुदरं जयेत्|
पिबेत् कषायं त्रिफलादन्तीरोहितकैः शृतम्||१४९||

व्योषक्षारयुतं जीर्णे रसैरद्यात्तु जाङ्गलैः|
मांसं वा भोजनं भोज्यं सुधाक्षीरघृतान्वितम्||१५०||

क्षीरानुपानां गोमूत्रेणाभयां वा प्रयोजयेत्|
सप्ताहं माहिषं मूत्रं क्षीरं चानन्नभुक् पिबेत्||१५१||

मासमौष्ट्रं पयश्छागं त्रीन्मासान् व्योषसंयुतम्|
हरीतकीसहस्रं वा क्षीराशी वा शिलाजतु||१५२||

शिलाजतुविधानेन गुग्गुलुं वा प्रयोजयेत्|
शृङ्गवेरार्द्रकरसः पाने क्षीरसमो हितः||१५३||

तैलं रसेन तेनैव सिद्धं दशगुणेन वा|
दन्तीद्रवन्तीफलजं तैलं दूष्योदरे हितम्||१५४||

शूलानाहविबन्धेषु मस्तुयूषरसादिभिः|
सरलामधुशिग्रूणां बीजेभ्यो मूलकस्य च||१५५||

तैलान्यभ्यङ्गपानार्थं शूलघ्नान्यनिलोदरे|
स्तैमित्यारुचिहृल्लासे मन्देऽग्नौ मद्यपाय च||१५६||

अरिष्टान् दापयेत् क्षारान् कफस्त्यानस्थिरोदरे|
श्लेष्मणो विलयार्थं तु दोषं वीक्ष्य भिषग्वरः||१५७||

पिप्पलीं तिल्वकं [] हिङ्गु नागरं हस्तिपिप्पलीम्|
भल्लातकं शिग्रुफलं त्रिफलां कटुरोहिणीम्||१५८||

देवदारु हरिद्रे द्वे सरलातिविषे वचाम् |
कुष्ठं मुस्तं तथा पञ्च लवणानि प्रकल्प्य च||१५९||

दधिसर्पिर्वसामज्जतैलयुक्तानि दाहयेत्|
अन्नादूर्ध्वमतः क्षाराद्बिडालकपदं पिबेत्||१६०||

मदिरादधिमण्डोष्णजलारिष्टसुरासवैः|
हृद्रोगं श्वयथुं गुल्मं प्लीहार्शोजठराणि च||१६१||

विसूचिकामुदावर्तं वाताष्ठीलां च नाशयेत्|
क्षारं चाजकरीषाणां स्रुतं मूत्रैर्विपाचयेत्||१६२||

कार्षिकं पिप्पलीमूलं पञ्चैव लवणानि च|
पिप्पलीं चित्रकं शुण्ठीं त्रिफलां त्रिवृतां वचाम्||१६३||

द्वौ क्षारौ सातलां दन्तीं स्वर्णक्षीरीं विषाणिकाम्|
कोलप्रमाणां वटिकां पिबेत् सौवीरसंयुताम्||१६४||

श्वयथावविपाके च प्रवृद्धे च दकोदरे|
भावितानां गवां मूत्रे षष्टिकानां तु तण्डुलैः||१६५||

यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम्|
पिबेदिक्षुरसं चानु जठराणां निवृत्तये||१६६||

स्वं स्वं स्थानं व्रजन्त्येवं तथा पित्तकफानिलाः|
शङ्खिनीस्नुक्त्रिवृद्दन्तीचिरबिल्वादिपल्लवैः||१६७||

शाकं गाढपुरीषाय प्राग्भक्तं दापयेद्भिषक् |
ततोऽस्मै शिथिलीभूतवर्चोदोषाय शास्त्रवित्||१६८||

दद्यान्मूत्रयुतं क्षीरं दोषशेषहरं शिवम्|
पार्श्वशूलमुपस्तम्भं हृद्ग्रहं चापि मारुतः||१६९||

जनयेद्यस्य तं तैलं बिल्वक्षारेण पाययेत्|
तथाऽग्निमन्थस्योनाकपलाशतिलनालजैः||१७०||

बलाकदल्यपामार्गक्षारैः प्रत्येकशः स्रुतैः|
तैलं पक्त्वा भिषग्दद्यादुदराणां प्रशान्तये||१७१||

निवर्तते चोदरिणां हृद्ग्रहश्चानिलोद्भवः|१७२|

श्लोक 172-175

कफे वातेन पित्तेन ताभ्यां वाऽप्यावृतेऽनिले||१७२||

बलिनः स्वौषधयुतं तैलमेरण्डजं हितम्|
सुविरिक्तो नरो यस्तु पुनराध्मापितो भवेत्||१७३||

सुस्निग्धैरम्ललवणैर्निरूहैस्तमुपाचरेत्|
सोपस्तम्भोऽपि वा वायुराध्मापयति यं नरम्||१७४||

तीक्ष्णैः सक्षारगोमूत्रैर्बस्तिभिस्तमुपाचरेत्|१७५|

श्लोक 175-184

क्रियातिवृत्ते जठरे त्रिदोषे चाप्रशाम्यति||१७५||

ज्ञातीन् ससुहृदो दारान् ब्राह्मणान्नृपतीन् गुरून्|
अनुज्ञाप्य भिषक् कर्म विदध्यात् संशयं ब्रुवन्||१७६||

अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत्|
एवमाख्याय तस्येदमनुज्ञातः सुहृद्गणैः||१७७||

पानभोजनसंयुक्तं विषमस्मै प्रयोजयेत्|
यस्मिन् वा कुपितः सर्पो विसृजेद्धि फले विषम्||१७८||

भोजयेत्तदुदरिणं प्रविचार्य भिषग्वरः|
तेनास्य दोषसङ्घातः स्थिरो लीनो विमार्गगः||१७९||

विषेणाशुप्रमाथित्वादाशु भिन्नः प्रवर्तते|
विषेण हृतदोषं तं शीताम्बुपरिषेचितम्||१८०||

पाययेत भिषग्दुग्धं यवागूं वा यथाबलम्|
त्रिवृन्मण्डूकपर्ण्योश्च शाकं सयववास्तुकम्||१८१||

भक्षयेत् कालशाकं वा स्वरसोदकसाधितम् |
निरम्ललवणस्नेहं स्विन्नास्विन्नमनन्नभुक्||१८२||

मासमेकं ततश्चैव तृषितः स्वरसं पिबेत्|
एवं विनिर्हृते दोषे शाकैर्मासात् परं ततः||१८३||

दुर्बलाय प्रयुञ्जीत प्राणभृत् कारभं पयः|१८४|

श्लोक 184-188

इदं तु शल्यहर्तॄणां कर्म स्याद्दृष्टकर्मणाम्||१८४||

वामं कुक्षिं मापयित्वा नाभ्यधश्चतुरङ्गुलम्|
मात्रायुक्तेन शस्त्रेण पाटयेन्मतिमान् भिषक्||१८५||

विपाट्यान्त्रं ततः पश्चाद्वीक्ष्य बद्धक्षतान्त्रयोः|
सर्पिषाऽभ्यज्य केशादीनवमृज्य विमोक्षयेत्||१८६||

मूर्च्छनाद्यच्च सम्मूढमन्त्रं तच्च विमोक्षयेत्|
छिद्राण्यन्त्रस्य तु स्थूलैर्दंशयित्वा पिपीलिकैः||१८७||

बहुशः सङ्गृहीतानि ज्ञात्वा च्छित्वा पिपीलिकान्|
प्रतियोगैः प्रवेश्यान्त्रं प्रेयैः सीव्येद्व्रणं ततः||१८८||

श्लोक 189-194

तथा जातोदकं सर्वमुदरं व्यधयेद्भिषक्|
वामपार्श्वे त्वधो नाभेर्नाडीं दत्त्वा च गालयेत्||१८९||

विस्राव्य च विमृद्यैतद्वेष्टयेद्वाससोदरम्|
तथा बस्तिविरेकाद्यैर्म्लानं सर्वं च वेष्टयेत्||१९०||

निःस्रुते लङ्घितः पेयामस्नेहलवणां पिबेत्|
अतः परं तु षण्मासान् क्षीरवृत्तिर्भवेन्नरः||१९१||

त्रीन् मासान् पयसा पेयां पिबेत्त्रींश्चापि भोजयेत्|
श्यामाकं कोरदूषं वा क्षीरेणालवणं लघु||१९२||

नरः संवत्सरेणैवं जयेत् प्राप्तं जलोदरम्|
प्रयोगाणां च सर्वेषामनु क्षीरं प्रयोजयेत्||१९३||

दोषानुबन्धरक्षार्थं बलस्थैर्यार्थमेव च|
प्रयोगापचिताङ्गानां हितं ह्युदरिणां पयः|
सर्वधातुक्षयार्तानां देवानाममृतं यथा||१९४||

श्लोक 195-196

तत्र श्लोकौ-
हेतुं प्राग्रूपमष्टानां लिङ्गं व्याससमासतः|
उपद्रवान् गरीयस्त्वं साध्यासाध्यत्वमेव च||१९५||

जाताजाताम्बुलिङ्गानि चिकित्सां चोक्तवानृषिः|
समासव्यासनिर्देशैरुदराणां चिकित्सिते||१९६||

पुष्पिका

इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलपूरिते चिकित्सास्थाने
उदरचिकित्सितं नाम त्रयोदशोऽध्यायः||१३||