कियन्तःशिरसीयोऽध्यायः

श्लोक 1-2

अथातः कियन्तः शिरसीयमध्यायं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः||२||

श्लोक 3-7

कियन्तः शिरसि प्रोक्ता रोगा हृदि च देहिनाम् । कति चाप्यनिलादीनां रोगा मानविकल्पजाः ||३||
क्षयाः कति समाख्याताः पिडकाः कति चानघ!। गतिः कतिविधा चोक्ता दोषाणां दोषसूदन! ||४||
हुताशवेशस्य वचस्तच्छ्रुत्वा [१] गुरुरब्रवीत्। पृष्टवानसि यत् सौम्य! तन्मे शृणु सविस्तरम्||५||
दृष्टाः पञ्च शिरोरोगाः पञ्चैव हृदयामयाः। व्याधीनां ह्यधिका षष्टिर्दोषमानविकल्पजा||६||
दशाष्टौ च क्षयाः सप्त पिडका माधुमेहिकाः । दोषाणां त्रिविधा चोक्ता गतिर्विस्तरतः [२] शृणु||७||

श्लोक 8-11

सन्धारणाद्दिवास्वप्नाद्रात्रौ जागरणान्मदात्| उच्चैर्भाष्यादवश्यायात् प्राग्वातादतिमैथुनात्||८||

गन्धादसात्म्यादाघ्राताद्रजोधूमहिमातपात्।
गुर्वम्लहरितादानादति शीताम्बुसेवनात्||९||

शिरोऽभिघाताद्दुष्टामाद्रोदनाद्बाष्पनिग्रहात् [१] | मेघागमान्मनस्तापाद्देशकालविपर्ययात् ||१०||
वातादयः प्रकुप्यन्ति शिरस्यस्रं च दुष्यति । ततः शिरसि जायन्ते रोगा विविधलक्षणाः||११||

श्लोक 12

प्राणाः प्राणभृतां यत्र श्रिताः सर्वेन्द्रियाणि च | यदुत्तमाङ्गमाङ्गानां शिरस्तदभिधीयते||१२||

श्लोक 13-14

अर्धावभेदको वा स्यात् सर्वं वा रुज्यते शिरः| प्रतिश्यामुखनासाक्षिकर्णरोगशिरोभ्रमाः||१३||
अर्दितं शिरसः कम्पो गलमन्याहनुग्रहः । विविधाश्चापरे रोगा वातादिक्रिमिसम्भवाः||१४||

श्लोक 15-21

पृथग्दिष्टास्तु ये पञ्च सङ्ग्रहे परमर्षिभिः। शिरोगदांस्ताञ्छृणु मे यथास्वैर्हेतुलक्षणैः||१५||

उच्चैर्भाष्याति भाष्याभ्यां तीक्ष्णपानात् [१] प्रजागरात् । शीतमारुतसंस्पर्शाद्व्यवायाद्वेगनिग्रहात्||१६||
उपवासादभीघाताद्विरेकाद्वमनादति। बाष्पशोकभयत्रासाद्भारमार्गातिकर्शनात्||१७||
शिरोगताः [२] सिरा वृद्धो वायुराविश्य कुप्यति| ततः शूलं महत्तस्य वातात् समुपजायते||१८||
निस्तुद्येते भृशं शङ्कौ घाटा [३] सम्भिद्यते तथा| सभ्रूमध्यं [४] ललाटं च तपतीवातिवेदनम्||१९||
वध्येते [५] स्वनतः श्रोत्रे निष्कृष्येते इवाक्षिणी | घूर्णतीव शिरः सर्वं सन्धिभ्य इव मुच्यते ||२०||
स्फुरत्यति सिराजालं स्तभ्यते च शिरोधरा| स्निग्धोष्णमुपशेते च शिरोरोगेऽनिलात्मके||२१||

श्लोक 22-23

कट्वम्ललवणक्षारमद्यक्रोधातपानलैः। पित्तं शिरसि सन्दुष्टं शिरोरोगाय कल्पते ||२२||
दह्यते रुज्यते तेन शिरः शीतं सुषूयते [१] | दह्येते चक्षुषी तृष्णा भ्रमः स्वेदश्च जायते||२३||

श्लोक 24-26

आस्यासुखैः स्वप्नसुखैर्गुरुस्निग्धातिभोजनैः। श्लेष्मा शिरसि सन्दुष्टः शिरोरोगाय कल्पते||२४||
शिरो मन्दरुजं तेन सुप्तं स्तिमितभारिकम्| भवत्युत्पद्यते तन्द्रा तथाऽऽलस्यमरोचकः||२५||
वाताच्छूलं भ्रमः कम्पः पिताद्दाहो मदस्तृषा | कफाद्गुरुत्वं तन्द्रा च शिरोरोगे त्रिदोषजे||२६||

श्लोक 27-29

तिलक्षीरगुडाजीर्णपूतिसङ्कीर्णभोजनात्। क्लेदोऽसृक्कफमांसानां दोषलस्योपजायते||२७||
ततः शिरसि सङ्क्लेदात् क्रिमयः पापकर्मणः। जनयन्ति शिरोरोगं जाता बीभत्सलक्षणम् ||२८||
व्यधच्छेदरुजाकण्डूशोफदौर्गत्यदुःखितम् क्रिमिरोगातुरं विद्यात् क्रिमीणां दर्शनेन [२] च||२९||
[१] |

श्लोक 30-40

शोकोपवासव्यायामरूक्षशुष्काल्पभोजनैः [१] | वायुराविश्य हृदयं जनयत्युत्तमां रुजम्||३०||
वेपथुर्वेष्टनं स्तम्भः प्रमोहः शून्यता दरः [२] । हृदि वातातुरे रूपं जीर्णे चात्यर्थवेदना||३१||
उष्णाम्ललवणक्षारकटुकाजीर्णभोजनैः । मद्यक्रोधातपैश्चाशु हृदि पित्तं प्रकुप्यति||३२||
हृद्दाहस्तिक्तता वक्रे तिक्ताम्लोद्गिरणं क्लमः। तृष्णा मूर्च्छा भ्रमः स्वेदः पित्तहृद्रोगलक्षणम्||३३||
अत्यादानं गुरुस्निग्धमचिन्तनमचेष्टनम् | निद्रासुखं चाभ्यधिकं कफहृद्रोगकारणम्||३४||
हृदयं कफहृद्रोगे सुप्तं स्तिमितभारिकम्। तन्द्रारुचिपरीतस्य भवत्यश्मावृतं यथा||३५||
हेतुलक्षणसंसर्गादुच्यते सान्निपातिकः । (हृद्रोगः कष्टदः कष्टसाध्य उक्तो महर्षिभिः) त्रिदोषजे तु हृद्रोगे यो दुरात्मा निषेवते||३६||
तिलक्षीरगुडादीनि ग्रन्थिस्तस्योपजायते। मर्मैकदेशे सङ्क्लेदं रसश्चास्योपगच्छति||३७||
सङ्क्लेदात् क्रिमयश्चास्य भवन्त्युपहतात्मनः| मर्मैकदेशे ते जाताः सर्पन्तो भक्षयन्ति च||३८||
तुद्यमानं स हृदयं सूचीभिरिव मन्यते। छिद्यमानं यथा शस्त्रैर्जातकण्डूं महारुजम्||३९||
हृद्रोगं क्रिमिजं त्वेतैर्लिङ्गैर्बुद्ध्वा सुदारुणम्। त्वरेत जेतुं तं विद्वान् विकारं शीघ्रकारिणम्||४०||

श्लोक 41-44

द्वयुल्बणैकोल्बणैः षट् स्युर्हीनमध्याधिकैश्च षट्। समैश्चैको विकारास्ते सन्निपातास्त्रयोदश||४१||
संसर्गे नव षट् तेभ्य [१] एकवृद्ध्या समैस्त्रयः| पृथक् त्रयश्च तैर्वृद्धैर्व्याधयः पञ्चविंशतिः||४२||
यथा वृद्धैस्तथा क्षीणैर्दोषेः स्युः पञ्चविंशतिः। वृद्धिक्षयकृतश्चान्यो विकल्प उपदेक्ष्यते||४३||
वृद्धिरेकस्य समता चैकस्यैकस्य सङ्क्षयः । द्वन्द्ववृद्धिः क्षयश्चैकस्यैकवृद्धिर्द्वयोः क्षयः [२] ||४४||

श्लोक 45-61

प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षये| स्थानादादाय गात्रेषु यत्र यत्र विसर्पति||४५||
तदा भेदश्च दाहश्च तत्र तत्रानवस्थितः। गात्रदेशे भवत्यस्य श्रमो दौर्बल्यमेव च||४६||
प्रकृतिस्थं [१] कफं वायुः क्षीणे पित्ते यदा बली | कर्षेत् कुर्यात्तदा शूलं सशैत्यस्तम्भगौरवम्||४७||
यदाऽनिलं [२] प्रकृतिगं पित्तं कफपरिक्षये। संरुणद्धि तदा दाहः शूलं चास्योपजायते||४८||
श्लेष्माणं [३] हि समं पित्तं यदा वातपरिक्षये| सन्निरुन्ध्यात्तदा कुर्यात् सतन्द्रागौरवं ज्वरम्||४९||
प्रवृद्धो हि यदा श्लेष्मा पित्ते क्षीणे समीरणम्। रुन्ध्यात्तदा प्रकुर्वीत शीतकं गौरवं रुजम् [४] ||५०||
समीरणे परिक्षीणे कफः पित्तं समत्वगम्| कुर्वीत सन्निरुन्धानो मृद्वग्नित्वं शिरोग्रहम् [५] ||५१||
निद्रां तन्द्रां प्रलापं च हृद्रोगं गात्रगौरवम् । नखादीनां च पीतत्वं ष्ठीवनं कफपित्तयोः ||५२||
हीनवातस्य तु श्लेष्मा पित्तेन सहितश्चरन्। करोत्यरोचकापाकौ सदनं गौरवं तथा ||५३||
हृल्लासमास्यस्रवणं पाण्डुतां दूयनं मदम्। विरेकस्य च वैषम्यं वैषम्यमनलस्य च ||५४||
हीनपित्तस्य तु श्लेष्मा मारुतेनोपसंहितः। स्तम्भं शैत्यं च तोदं च जनयत्यनवस्थितम्||५५||
गौरवं मृदुतामग्नेर्भक्ताश्रद्धां प्रवेपनम्। नखादीनां च शुक्लत्वं गात्रपारुष्यमेव च||५६||
मारुतस्तु कफे हीने पित्तं च कुपितं द्वयम् । करोति यानि लिङ्गानि शृणु तानि समासतः||५७||
भ्रममुद्वेष्टनं तोदं दाहं स्फुटनवेपने।
अङ्गमर्दं परीशोषं दूयनं धूपनं तथा || ५८||

वातपित्तक्षये श्लेष्मा स्रोतांस्यपिदधद्भृशम्|
चेष्टाप्रणाशं मूर्च्छां च वाक्सङ्गं च करोति हि||५९||
वात श्लेष्मक्षये पित्तं देहौजः स्रंसयच्चरेत्। ग्लानिमिन्द्रियदौर्बल्यं तृष्णां मूर्च्छा क्रियाक्षयम् ||६०||
पित्तश्लेष्मक्षये वायुर्मर्माण्यतिनिपीडयन् । प्रणाशयति सञ्ज्ञां च वेपयत्यथवा [६] नरम्||६१||

श्लोक 62

दोषाः प्रवृद्धाः स्वं लिङ्गं दर्शयन्ति यथाबलम्| क्षीणा जहति लिङ्गं स्वं, समाः स्वं कर्म कुवेते||६२||

श्लोक 63-72

वातादीनां रसादीनां मलानामोजसस्तथा| क्षयास्तत्रानिलादीनामुक्तं सङ्क्षीणलक्षणम् [१] ||६३||
घट्टते सहते शब्दं नोच्चैर्द्रवति [२] शूल्यते। हृदयं ताम्यति स्वल्पचेष्टस्यापि रसक्षये||६४||
परुषा स्फुटिता म्लाना त्वग्रूक्षा रक्तसङ्क्षये । मांसक्षये विशेषेण स्फिग्ग्रीवोदरशुष्कता||६५||
सन्धीनां स्फुटनं ग्लानिरक्ष्णोरायास एव च। लक्षणं मेदसि क्षीणे तनुत्वं [३] चोदरस्य च||६६||
केशलोमनखश्मश्रुद्विजप्रपतनं श्रमः । ज्ञेयमस्थिक्षये लिङ्गं सन्धिशैथिल्यमेव च ||६७||
शीर्यन्त इव चास्थीनि दुर्बलानि लघूनि च । प्रततं [४] वातरोगीणि क्षीणे मज्जनि देहिनाम्||६८||
दौर्बल्यं मुखशोषश्च पाण्डुत्वं सदनं श्रमः | क्लैब्यं शुक्राविसर्गश्च क्षीणशुक्रस्य लक्षणम् || ६९||
क्षीणे शकृति चान्त्राणि पीडयन्निव मारुतः । रूक्षस्योन्नमयन् कुक्षिं तिर्यगूर्ध्वं च गच्छति||७०||
मूत्रक्षये मूत्रकृच्छ्रं मूत्रवैवर्ण्यमेव च।
पिपासा बाधते चास्य मुखं च परिशुष्यति ||७१||
मलायनानि चान्यानि शून्यानि च लघूनि च । विशुष्काणि च लक्ष्यन्ते यथास्वं मलसङ्क्षये||७२||

श्लोक 73-75

बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः| दुश्छायो दुर्मना रूक्षः क्षामश्चैवौजसः क्षये||७३||
हृदि तिष्ठति यच्छुद्धं रक्तमीषत्सपीतकम्। ओजः शरीरे सङ्ख्यातं तन्नाशान्ना विनश्यति||७४||
प्रथमं जायते ह्योजः शरीरेऽस्मिञ्छरीरिणाम्| सर्पिर्वर्णं मधुरसं लाजगन्धि प्रजायते||७५||
(भ्रमरैः फलपुष्पेभ्यो यथा सम्भ्रियते मधु| तद्वदोजः स्वकर्मभ्यो गुणैः सम्भ्रियते नृणाम्||१||)|

श्लोक 76-77

व्यायामोऽनशनं चिन्ता रूक्षाल्पप्रमिताशनम्। वातातपौ भयं शोको रूक्षपानं प्रजागरः||७६||
कफशोणितशुक्राणां मलानां चातिवर्तनम्| कालो भूतोपघातश्च ज्ञातव्याः क्षयहेतवः||७७||

श्लोक 78-89

गुरुस्निग्धाम्ललवणान्यतिमात्रं समश्नताम्| नवमन्नं च पानं च निद्रामास्यासुखानि च||७८||
त्यक्तव्यायामचिन्तानां संशोधनमकुर्वताम्। श्लेष्मा पित्तं च मेदश्च मांसं चातिप्रवर्धते ||७९||
तैरावृतगतिर्वायुरोज [१] आदाय गच्छति। यदा बस्तिं तदा कृच्छ्रो मधुमेहः प्रवर्तते||८०||
स मारुतस्य पित्तस्य कफस्य च मुहुर्मुहुः । दर्शयत्याकृतिं गत्वा क्षयमाप्यायते पुनः||८१||
उपेक्षयाऽस्य जायन्ते [२] पिडकाः सप्त दारुणाः । मांसलेष्ववकाशेषु मर्मस्वपि च सन्धिषु ||८२||
शराविका कच्छपिका जालिनी सर्षपी तथा अलजी विनताख्या च विद्रधी चेति सप्तमी||८३||
अन्तोन्नता मध्यनिम्ना श्यावा क्लेदरुगन्विता| शराविका स्यात् पिडका शरावाकृतिसंस्थिता||८४||
अवगाढार्तिनिस्तोदा महावास्तुपरिग्रहा |
श्लक्ष्णा कच्छपपृष्ठाभा पिडका कच्छपी मता ||८५||
स्तब्धा सिराजालवती स्निग्धास्रावा महाशया| रुजानिस्तोदबहुला सूक्ष्मच्छिद्रा च जालिनी||८६||
पिडका नातिमहती क्षिप्रपाका महारुजा | सर्षपी सर्षपाभाभिः पिडकाभिश्चिता भवेत् ||८७||
दहति त्वचमुत्थाने तृष्णामोहज्वरप्रदा । विसर्पत्यनिशं दुःखाद्दहत्यग्निरिवालजी||८८||
अवगाढरुजाक्लेदा पृष्ठे वाऽप्युदरेऽपि वा।
महती विनता नीला पिडका विनता मता||८९||

श्लोक 90-100

विद्रधिं द्विविधामाहुर्बाह्यामाभ्यन्तरीं तथा ।
ह्या त्वक्स्नायुमांसोत्था कण्डराभा महारुजा ||९०||
शीतकान्नविदाह्युष्णरूक्षशुष्कातिभोजनात्। विरुद्धाजीर्णसङ्क्लिष्टविषमासात्म्यभोजनात्||९१||
व्यापन्नबहुमद्यत्वाद्वेगसन्धारणाच्छ्रमात्। जिह्मव्यायामशयनादतिभाराध्वमैथुनात्||९२||
अन्तःशरीरे मांसासृगाविशन्ति [१] यदा मलाः | तदा सञ्जायते ग्रन्थिर्गम्भीरस्थः सुदारुणः ||९३||
हृदये क्लोम्नि यकृति प्लीह्नि कुक्षौ च वृक्कयोः। नाभ्यां वङ्क्षणयोर्वाऽपि बस्तौ वा तीव्रवेदनः ||९४||
दुष्टरक्तातिमात्रत्वात् स वै शीघ्रं विदह्यते । ततः शीघ्रविदाहित्वाद्विद्रधीत्यभिधीयते||९५||
व्यधच्छेदभ्रमानाहशब्दस्फुरणसर्पणैः।
वातिकीं, पैत्तिकीं तृष्णादाहमोहमदज्वरैः||९६||
जृम्भोत्क्लेशारुचिस्तम्भशीतकैः श्लैष्मिकीं विदुः । सर्वासु च [२] महच्छूलं विद्रधीषूपजायते||९७||
शस्त्रास्त्रैर्भिद्यत [३] इव चोल्मुकैरिव दह्यते। विद्रधी व्यम्लता याता वृश्चिकैरिव दश्यते||९८||
तनु रूक्षारुणं श्यावं फेनिलं वातविद्रधी| तिलमाषकुलत्थोदसन्निभं पित्तविद्रधी||९९||
श्लैष्मिकी स्रवति श्वेतं पिच्छिलं बहलं बहु। लक्षणं सर्वमेवैतद्भजते सान्निपातिकी||१००||

श्लोक 101-103

अथासां विद्रधीनां साध्यासाध्यत्वविशेषज्ञानार्थं स्थानकृतं लिङ्गविशेषमुपदेक्ष्यामः- तत्र प्रधानमर्मजायां विद्रध्यां हृद्घट्टनतमकप्रमोहकासश्वासाः, क्लोमजायां
पिपासामुखशोषगलग्रहाः, यकृज्जायां श्वासः, प्लीहजायामुच्छ्वासोपरोधः, कुक्षिजायां कुक्षिपार्श्वान्तरांसशूलं, वृक्कजायां पृष्ठकटिग्रहः, नाभिजायां हिक्का, वङ्क्षणजायां सक्थिसादः, बस्तिजायां कृच्छ्रपूतिमूत्रवर्चसत्वं [१] चेति||१०१||
पक्वप्रभिन्नासूर्ध्वजासु मुखात् स्रावः स्रवति, अधोजासु गुदात्, उभयतस्तु नाभिजासु||१०२||
-आसां हृन्नाभिबस्तिजाः परिपक्वाः सान्निपातिकी च मरणाय; शेषाः पुनः कुशलमाशुप्रतिकारिणं चिकित्सकमासाद्योपशाम्यन्ति।
तस्मादचिरोत्थितां विद्रधीं शस्त्रसर्पविद्युदग्नितुल्यां स्नेहविरेचनैराश्वेवोपक्रमेत् सर्वशो गुल्मवच्चेति||१०३||

श्लोक 104-107

भवन्ति चात्र-
विना प्रमेहमप्येता जायन्ते दुष्टमेदसः । तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहः||१०४|| शराविका कच्छपिका जालिनी चेति दुःसहाः। जायन्ते ता ह्यतिबलाः प्रभूतश्लेष्ममेदसः ||१०५|| सर्षपी चालजी चैव विनता विद्रधी च याः | साध्यः पित्तोल्बणास्तास्तु सम्भवन्त्यल्पमेदसः||१०६|| मर्मस्वंसे गुदे पाण्योः स्तने सन्धिषु पादयोः । जायन्ते यस्य पिडिकाः स प्रमेही न जीवति||१०७||

श्लोक 108-111

तथाऽन्याः पिडकाः सन्ति रक्तपीतासितारुणाः । पाण्डुराः पाण्डुवर्णाश्च भस्माभा मेचकप्रभाः || १०८||
मृद्व्यश्च कठिनाश्चान्याः स्थूलाः सूक्ष्मास्तथाऽपराः । मन्दवेगा महावेगाः स्वल्पशूला महारुजः ||१०९||
ता बुद्ध्वा मारुतादीनां यथास्वैर्हेतुलक्षणैः। ब्रूयादुपचरेच्चाशु प्रागुपद्रवदर्शनात्||११०||
तृट्श्वासमांससङ्कोथमोहहिक्कामदज्वराः।
वीसर्पमर्मसंरोधाः पिडकानामुपद्रवाः||१११||

श्लोक 112-113

क्षयः स्थानं च वृद्धिश्च दोषाणां त्रिविधा गतिः ।
ऊर्ध्वं चाधश्च तिर्यक्च विज्ञेया त्रिविधाऽपरा ||११२||
त्रिविधा चापरा कोष्ठशाखामर्मास्थिसन्धिषु| इत्युक्ता विधिभेदेन दोषाणां त्रिविधा गतिः ||११३||

श्लोक 114-115

चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्। भवन्त्येकैकशः षट्सु कालेष्वभ्रागमादिषु||११४||

गतिः कालकृता चैषा चयाद्या पुनरुच्यते|११५|

श्लोक 115-118

गतिश्च द्विविधा दृष्टा प्राकृती वैकृती च या||११५||
पित्तादेवोष्मणः पक्तिर्नराणामुपजायते ।
तच्च पित्तं [१] प्रकुपितं विकारान् कुरुते बहून्||११६||
प्राकृतस्तु बलं श्लेष्मा विकृतो मल उच्यते।
स चैवौजः स्मृतः काये स च पाप्मोपदिश्यते||११७||
सर्वा हि चेष्टा वातेन स प्राणः प्राणीनां स्मृतः |
तेनैव रोगा जायन्ते तेन चैवोपरुध्यते ||११८||

श्लोक 119

नित्यं सन्निहितामित्रं समीक्ष्यात्मानमात्मवान्।
नित्यं युक्तः परिचरेदिच्छन्नायुरनित्वरम्||११९||

श्लोक 120-121

तत्र श्लोकौ-
शिरोरोगाः सहृद्रोगा रोगा मानविकल्पजाः| क्षयाः सपिडकाश्चोक्ता दोषाणां गतिरेव च||१२०||
कियन्तःशिरसीयेऽस्मिन्नध्याये तत्त्वदर्शिना |
ज्ञानार्थं भिषजां चैव प्रजानां च हितैषिणा ||१२१||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने कियन्तः शिरसीयो नाम सप्तदशोऽध्यायः||१७||