क्षतक्षीणचिकित्सितम्

श्लोक 1-2

अथातः क्षतक्षीणचिकित्सितं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3

उदारकीर्तिर्ब्रह्मर्षिरात्रेयः परमार्थवित्|
क्षतक्षीणचिकित्सार्थमिदमाह चिकित्सितम्||३||

श्लोक 4-8

धनुषाऽऽयस्यतोऽत्यर्थं भारमुद्वहतो गुरुम्|
पततो विषमोच्चेभ्यो बलिभिः सह युध्यतः||४||

वृषं हयं वा धावन्तं दम्यं वाऽन्यं निगृह्णतः|
शिलाकाष्ठाश्मनिर्घातान् क्षिपतो निघ्नतः परान्||५||

अधीयानस्य वाऽत्युच्चैर्दूरं वा व्रजतो द्रुतम्|
महानदीं वा तरतो हयैर्वा सह धावतः||६||

सहसोत्पततो दूरं तूर्णं चातिप्रनृत्यतः|
तथाऽन्यैः कर्मभिः क्रूरैर्भृशमभ्याहतस्य च||७||

विक्षते वक्षसि व्याधिर्बलवान् समुदीर्यते|
स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः||८||

श्लोक 9-12

उरो विरुज्यते तस्य भिद्यतेऽथ विभज्यते|
प्रपीड्येते ततः पार्श्वे शुष्यत्यङ्गं प्रवेपते||९||

क्रमाद्वीर्यं बलं वर्णो रुचिरग्निश्च हीयते|
ज्वरो व्यथा मनोदैन्यं विड्भेदोऽग्निवधादपि||१०||

दुष्टः श्यावः सुदुर्गन्धः पीतो विग्रथितो बहुः|
कासमानस्य च श्लेष्मा सरक्तः सम्प्रवर्तते||११||

स क्षतः क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात्|१२|

श्लोक 12-13

अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम्||१२||

उरोरुक्शोणितच्छर्दिः कासो वैशेषिकः क्षते|
क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटिग्रहः||१३||

श्लोक 14

अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः|
परिसंवत्सरो याप्यः सर्वलिङ्गं तु वर्जयेत्||१४||

श्लोक 15-20

उरो मत्वा क्षतं लाक्षां पयसा मधुसंयुताम्|
सद्य एव पिबेज्जीर्णे पयसाऽद्यात् सशर्करम्||१५||

पार्श्वबस्तिरुजी चाल्पपित्ताग्निस्तां सुरायुताम्|
भिन्नविट्कः समुस्तातिविषापाठां सवत्सकाम्||१६||

लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयगणं सिताम्|
त्वक्क्षीरीं समितां क्षीरे पक्त्वा दीप्तानलः पिबेत्||१७||

इक्ष्वालिकाबिसग्रन्थिपद्मकेशरचन्दनैः|
शृतं पयो मधुयुतं सन्धानार्थं पिबेत् क्षती||१८||

यवानां चूर्णमादाय क्षीरसिद्धं घृतप्लुतम्|
ज्वरे दाहे सिताक्षौद्रसक्तून् वा पयसा पिबेत्||१९||

मधूकमधुकद्राक्षात्वक्क्षीरीपिप्पलीबलाः|
कासी पार्श्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः||२०||

श्लोक 21-24

एलापत्रत्वचोऽर्धाक्षाः पिप्पल्यर्धपलं तथा|
सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः||२१||

सञ्चूर्ण्य मधुना युक्ता गुटिकाः सम्प्रकल्पयेत्|
अक्षमात्रां ततश्चैकां भक्षयेन्ना दिने दिने||२२||

कासं श्वासं ज्वरं हिक्कां छर्दिं मूर्च्छां मदं भ्रमम्|
रक्तनिष्ठीवनं तृष्णां पार्श्वशूलमरोचकम्||२३||

शोषप्लीहाढ्यवातांश्च स्वरभेदं क्षतं क्षयम्|
गुटिका तर्पणी वृष्या रक्तपित्तं च नाशयेत्||२४||
इत्येलादिगुटिका|

श्लोक 25-26

रक्तेऽतिवृत्ते दक्षाण्डं यूषैस्तोयेन वा पिबेत्|
चटकाण्डरसं वाऽपि रक्तं वा छागजाङ्गलम्||२५||

चूर्णं पौनर्नवं रक्तशालितण्डुलशर्करम्|
रक्तष्ठीवी पिबेत् सिद्धं द्राक्षारसपयोघृतैः||२६||

श्लोक 27-34

मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम्|
मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम्||२७||

क्षामः क्षीणः क्षतोरस्कस्त्वनिद्रः सबलेऽनिले|
शृतक्षीरसरेणाद्यात् सक्षौद्रघृतशर्करम्||२८||

शर्करां यवगोधूमौ जीवकर्षभकौ मधु|
शृतक्षीरानुपानं वा लिह्यात् क्षीणः क्षती कृशः||२९||

क्रव्यादमांसनिर्यूहं घृतभृष्टं पिबेच्च सः|
पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम्||३०||

न्यग्रोधोदुम्बराश्वत्थप्लक्षशालप्रियङ्गुभिः|
तालमस्तकजम्बूत्वक्प्रियालैश्च सपद्मकैः||३१||

साश्वकर्णैः शृतात् क्षीरादद्याज्जातेन सर्पिषा|
शाल्योदनं क्षतोरस्कः क्षीणशुक्रश्च मानवः||३२||

यष्ट्याह्वनागबलयोः क्वाथे क्षीरसमं घृतम्|
पयस्यापिप्पलीवांशीकल्कसिद्धं क्षते शुभम्||३३||

कोललाक्षारसे तद्वत् क्षीराष्टगुणसाधितम्|
कल्कैः कट्वङ्गदार्वीत्वग्वत्सकत्वक्फलैर्घृतम्||३४||

श्लोक 35-43

जीवकर्षभकौ वीरां जीवन्तीं नागरं शटीम्|
चतस्रः पर्णिनीर्मेदे काकोल्यौ द्वे निदिग्धिके||३५||

पुनर्नवे द्वे मधुकमात्मगुप्तां शतावरीम्|
ऋद्धिं परूषकं भार्गीं मृद्वीकां बृहतीं तथा||३६||

शृङ्गाटकं तामलकीं पयस्यां पिप्पलीं बलाम्|
बदराक्षोटखर्जूरवातामाभिषुकाण्यपि||३७||

फलानि चैवमादीनि कल्कान् कुर्वीत कार्षिकान्|
धात्रीरसविदारीक्षुच्छागमांसरसं पयः||३८||

कुर्यात् प्रस्थोन्मितं तेन घृतप्रस्थं विपाचयेत्|
प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा||३९||

द्विकार्षिकाणि पत्रैलाहेमत्वङ्मरिचानि च|
विनीय चूर्णितं तस्माल्लिह्यान्मात्रां सदा नरः||४०||

अमृतप्राशमित्येतन्नराणाममृतं घृतम्|
सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना||४१||

नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान्|
स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत्||४२||

कासहिक्काज्वरश्वासदाहतृष्णास्रपित्तनुत्|
पुत्रदं वमिमूर्च्छाहृद्योनिमूत्रामयापहम्||४३||
इत्यमृतप्राशघृतम्|

श्लोक 44-47

श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम्|
दर्भमूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम्||४४||

पलिकं साधयेत्तेषां रसे क्षीरचतुर्गुणे|
कल्कः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः||४५||

शतावर्यृद्धिमृद्वीकाशर्कराश्रावणीबिसैः|
प्रस्थः सिद्धो घृताद्वातपित्तहृद्द्र(द्भ)वशूलनुत्||४६||

मूत्रकृच्छ्रप्रमेहार्शःकासशोषक्षयापहः|
धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः||४७||
इति श्वदंष्ट्रादिघृतम्|

श्लोक 48-49

मधुकाष्टपलद्राक्षाप्रस्थक्वाथे घृतं पचेत्|
पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले||४८||

पृथगष्टपलं क्षौद्रशर्कराभ्यां विमिश्रयेत्|
समसक्तु क्षतक्षीणे रक्तगुल्मे च तद्धितम्||४९||

श्लोक 50-55

धात्रीफलविदारीक्षुजीवनीयरसैर्घृतम्|
अजागोपयसोश्चैव सप्त प्रस्थान् पचेद्भिषक्||५०||

सिद्धशीते सिताक्षौद्रद्विप्रस्थं विनयेच्च तत्|
यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम्||५१||

वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम्|
घृतं तु पित्तेऽभ्यधिके लिह्याद्वातेऽधिके पिबेत्||५२||

लीढं निर्वापयेत् पित्तमल्पत्वाद्धन्ति नानलम्|
आक्रामत्यनिलं पीतमूष्माणं निरुणद्धि च||५३||

क्षामक्षीणकृशाङ्गानामेतान्येव घृतानि तु|
त्वक्क्षीरीशर्करालाजचूर्णैः स्त्यानानि योजयेत्||५४||

सर्पिर्गुडान् समध्वंशाञ्जग्ध्वा चानु पयः पिबेत्|
रेतो वीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात्||५५||
इति सर्पिर्गुडाः|

श्लोक 56-61

बला विदारी ह्रस्वा च पञ्चमूली पुनर्नवा|
पञ्चानां क्षीरिवृक्षाणां शुङ्गा मुष्ट्यंशका अपि||५६||

एषां कषाये द्विक्षीरे विदार्याजरसांशिके|
जीवनीयैः पचेत् कल्कैरक्षमात्रैर्घृताढकम्||५७||

सितापलानि पूते च शीते द्वात्रिंशतं क्षिपेत्|
गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च||५८||

समाक्षिकं कौडविकं तत् सर्वं खजमूर्च्छितम्|
स्त्यानं सर्पिर्गुडान् कृत्वा भूर्जपत्रेण वेष्टयेत्||५९||

ताञ्जग्ध्वा पलिकान् क्षीरं मद्यं वाऽनुपिबेत् कफे|
शोषे कासे क्षते क्षीणे श्रमस्त्रीभारकर्शिते||६०||

रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते|
शस्ताः पार्श्वशिरःशूले भेदे च स्वरवर्णयोः||६१||
इति द्वितीयसर्पिर्गुडाः|

श्लोक 62-65

त्वक्क्षीरीश्रावणीद्राक्षामूर्वर्षभकजीवकैः|
वीरर्धिक्षीरकाकोलीबृहतीकपिकच्छुभिः||६२||

खर्जूरफलमेदाभिः क्षीरपिष्टैः पलोन्मितैः|
धात्रीविदारीक्षुरसप्रस्थैः प्रस्थं घृतात् पचेत्||६३||

शर्करार्धतुलां शीते क्षौद्रार्धप्रस्थमेव च|
दत्त्वा सर्पिर्गुडान् कुर्यात्कासहिक्काज्वरापहान्||६४||

यक्ष्माणं तमकं श्वासं रक्तपित्तं हलीमकम्|
शुक्रनिद्राक्षयं तृष्णां हन्युः कार्श्यं सकामलम्||६५||
इति तृतीयाः सर्पिर्गुडाः|

श्लोक 66-69

नवमामलकं द्राक्षामात्मगुप्तां पुनर्नवाम्|
शतावरीं विदारीं च समङ्गां पिप्पलीं तथा||६६||

पृथग्दशपलान् भागान् पलान्यष्टौ च नागरात्|
यष्ट्याह्वसौवर्चलयोर्द्विपलं मरिचस्य च||६७||

क्षीरतैलघृतानां च त्र्याढके शर्कराशते|
क्वथिते तानि चूर्णानि दत्त्वा बिल्वसमान् गुडान्||६८||

कुर्यात्तान् भक्षयेत् क्षीणः क्षतः शुष्कश्च मानवः|
तेन सद्यो रसादीनां वृद्ध्या पुष्टिं स विन्दति||६९||
इति चतुर्थसर्पिर्गुडाः|

श्लोक 70-77

गोक्षीरार्धाढकं सर्पिः प्रस्थमिक्षुरसाढकम्|
विदार्याः स्वरसात्प्रस्थं रसात्प्रस्थं च तैत्तिरात्||७०||

दद्यात् सिध्यति तस्मिंस्तु पिष्टानिक्षुरसैरिमान्|
मधूकपुष्पकुडवं प्रियालकुडवं तथा||७१||

कुडवार्धं तुगाक्षीर्याः खर्जूराणां च विंशतिम्|
पृथग्बिभीतकानां च पिप्पल्याश्च चतुर्थिकाम्||७२||

त्रिंशत्पलानि खण्डाच्च मधुकात् कर्षमेव च|
तथाऽर्धपलिकान्यत्र जीवनीयानि दापयेत्||७३||

सिद्धेऽस्मिन् कुडवं क्षौद्रं शीते क्षिप्त्वाऽथ मोदकान्|
कारयेन्मरिचाजाजीपलचूर्णावचूर्णितान्||७४||

वातासृक्पित्तरोगेषु क्षतकासक्षयेषु च|
शुष्यतां क्षीणशुक्राणां रक्ते चोरसि संस्थिते||७५||

कृशदुर्बलवृद्धानां पुष्टिवर्णबलार्थिनाम्|
योनिदोषकृतस्रावहतानां चापि योषिताम्||७६||

गर्भार्थिनीनां गर्भश्च स्रवेद्यासां म्रियेत वा|
धन्या बल्या हितास्ताभ्यः शुक्रशोणितवर्धनाः||७७||
इति पञ्चमसर्पिर्मोदकाः|

श्लोक 78-84

बस्तिदेशे विकुर्वाणे स्त्रीप्रसक्तस्य मारुते|
वातघ्नान् बृंहणान् वृष्यान् योगांस्तस्य प्रयोजयेत्||७८||

शर्करापिप्पलीचूर्णैः सर्पिषा माक्षिकेण च|
संयुक्तं वा शृतं क्षीरं पिबेत् कासज्वरापहम्||७९||

फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे शृतम्|
स्त्रीषु क्षीणः पिबेद्यूषं जीवनं बृंहणं परम्||८०||

सक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतान्वितम्|
यवान्नसात्म्यो [] दीप्ताग्निः क्षतक्षीणः पिबेन्नरः||८१||

जीवनीयोपसिद्धं वा जाङ्गलं घृतभर्जितम्|
रसं प्रयोजयेत् क्षीणे व्यञ्जनार्थं सशर्करम्||८२||

गोमहिष्यश्वनागाजैः क्षीरैर्मांसरसैस्तथा|
यवान्नं भोजयेद्यूषैः फलाम्लैर्घृतसंस्कृतैः||८३||

दीप्तेऽग्नौ विधिरेषः स्यान्मन्दे दीपनपाचनः|
यक्ष्मिणां विहितो ग्राही भिन्ने शकृति चेष्यते||८४||

श्लोक 85-87

पलिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात् पले|
कुडवांशानि वृक्षाम्लं दाडिमं पत्रमर्जकात्||८५||

एकैकं मरिचाजाज्योर्धान्यकाद्द्वे चतुर्थिके|
शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत्||८६||

कृत्वा चूर्णमतो मात्रामन्नपाने प्रयोजयेत्|
रोचनं दीपनं बल्यं पार्श्वार्तिश्वासकासनुत्||८७||
इति सैन्धवादिचूर्णम्|

श्लोक 88-90

एका षोडशिका धान्याद्द्वे द्वेऽजाज्यजमोदयोः|
ताभ्यां दाडिमवृक्षाम्लं द्विर्द्विः सौवर्चलात्पलम्||८८||

शुण्ठ्याः कर्षं दधित्थस्य मध्यात् पञ्च पलानि च|
तच्चूर्णं षोडशपले शर्कराया विमिश्रयेत्||८९||

षाडवोऽयं प्रदेयः स्यादन्नपानेषु पूर्ववत्|
मन्दानले शकृद्भेदे यक्ष्मिणामग्निवर्धनः||९०||
इति षाडवः|

श्लोक 91-92

पिबेन्नागबलामूलमर्धकर्षविवर्धितम् |
पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक्||९१||

एष प्रयोगः पुष्ट्यायुर्बलारोग्यकरः परः|
मण्डूकपर्ण्याः कल्पोऽयं शुण्ठीमधुकयोस्तथा||९२||

श्लोक 93-94

यद्यत् सन्तर्पणं शीतमविदाहि हितं लघु|
अन्नपानं निषेव्यं तत्क्षतक्षीणैः सुखार्थिभिः||९३||

यच्चोक्तं यक्ष्मिणां पथ्यं कासिनां रक्तपित्तिनाम्|
तच्च कुर्यादवेक्ष्याग्निं व्याधिं सात्म्यं बलं तथा||९४||

श्लोक 95

उपेक्षिते भवेत्तस्मिन्ननुबन्धो हि यक्ष्मणः|
प्रागेवागमनात्तस्य तस्मात्तं त्वरया जयेत्||९५||

श्लोक 96-97

तत्र श्लोकौ-
क्षतक्षयसमुत्थानं सामान्यपृथगाकृतिम्|
असाध्ययाप्यसाध्यत्वं साध्यानां सिद्धिमेव च||९६||

उक्तवाञ्ज्येष्ठशिष्याय क्षतक्षीणचिकित्सिते|
तत्त्वार्थविद्वीतरजस्तमोदोषः पुनर्वसुः||९७||

पुष्पिका

इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलपूरिते चिकित्सितस्थाने
क्षतक्षीणचिकित्सितं नामैकादशोऽध्यायः||११||